Templesinindiainfo

Best Spiritual Website

Shri Gokulesh Ashtottara Shatanama Stotram Lyrics in Hindi

Sri Gokuleshashtottarashatanama Stotram Lyrics in Hindi:

श्रीगोकुलेशाष्टोत्तरशतनामस्तोत्रम्

यन्नामाब्जं सदापूर्णं कृपाज्योत्स्नासमन्वितम् ।
पुष्टिभक्तिसुधावृष्टिकारकं च सुखाल्पदम् ॥ १ ॥

अथ नामशतं साष्टं वल्लभस्य वदाम्यहम् ।
देवता वल्लभो नाम्नां छन्दोऽनुष्टुप् सुखाकरम् ॥ २ ॥

फलं तु तत्पदाम्भोजे व्यसनं सर्वदा भवेत् ।
ऋषिस्तु विष्णुदासोऽत्र दासाय वरणं मतम् ॥ ३ ॥

वल्लभो गोकुलेशश्च विठ्ठलेशप्रियात्मजः ।
ताततुल्यस्वभावस्थो व्रजमङ्गलभूषणः ॥ ४ ॥

धराधरस्नेहदान्तो बहुनिर्दोषविग्रहः ।
भजनानन्दपीयूषपूर्णो मञ्जुदृगञ्चलः ॥ ५ ॥

दासवृन्दचकोरेन्दुः करुणादृष्टिवृष्टिकृत् ।
षट्कर्मवाञ्जनाधारः प्रतीतः पुरुषोत्तमः ॥ ६ ॥

दासलीलाविष्टचित्तो गोपीवल्लभवल्लभः ।
गृहस्थधर्मकर्ता च मर्यादामार्गरक्षकः ॥ ७ ॥

पुष्टिमार्गस्थितो नित्यं कृष्णप्रेमरसात्मकः ।
द्विजदारिद्र्यदुःखघ्नो वाञ्छाकल्पतरुर्महान् ॥ ८ ॥

अनन्यभक्तभावज्ञो मोहनादिसुखप्रदः ।
वल्लभेष्टप्रदो नित्यं गोकुलप्रीतिवर्धनः ॥ ९ ॥

दासजीवनरूपश्च कन्दर्पादपि सुन्दरः ।
पादपद्मरसस्पर्शसर्वारिष्टनिवारकः ॥ १० ॥

मालीरक्षणकर्ता च शुद्धसत्कीर्तिवर्धनः ।
दुष्टानान्दोषहन्ता यो भक्तनिर्भयकारकः ॥ ११ ॥

इन्द्रादिभिर्नतो दक्षो लावण्यामृतवारिधिः ।
रसिको द्विजराजाख्यो द्विजवंशविभूषणः ॥ १२ ॥

असाधारणसद्धर्मा साधारः सुजनाश्रितः ।
क्षमावान् क्रोधमात्सर्यतिरस्कारादिवर्जितः ॥ १३ ॥

गोपीकान्तो मनोहारी दामोदरगुणोत्सवः ।
विहारी भक्तप्राणेशो राजीवदललोचनः ॥ १४ ॥

मुकुन्दानुग्रहोत्साही भक्तिमार्गरसात्मकः ।
भक्तभाग्यफलं धीरो बन्धुसज्जनवेष्टितः ॥ १५ ॥

वचनामृतमाधुर्यतृप्तसेवकसंस्तुतः ।
नित्योत्सवो नित्यश्रेयो नित्यदानपरायणः ॥ १६ ॥

भवबन्धनदुःखघ्नो महदाधिविनाशकः ।
रसभावनिगूढात्मा स्वीयेषु ज्ञापिताशयः ॥ १७ ॥ Possible missing verse
नयनानन्दकर्ता च विश्वमोहनरूपधृक् ।
श्रुतिस्मृतिपुराणादि-शास्त्रातत्त्वार्थपारगः ॥ १८ ॥

धनाढ्यो धनदो धर्मरक्षाकर्ता शुभप्रदः ।
सर्वेश्वरः सदापूर्णज्ञानवान् विबुधप्रियः ॥ १९ ॥

ब्रह्मवादे सविश्वासो मायावादादिखण्डनः ।
उग्रप्रतापवान् ध्येयो भृत्यदुःखनिवारकः ॥ २० ॥

सतामात्माऽजातशत्रुर्जीवमात्रशुभस्पृहः ।
दीनबन्धुर्विधुः श्रीमान् दयालुर्भक्तवत्सलः ॥ २१ ॥

अनवद्यसुसङ्कल्पो जगदुद्धारणक्षमः ।
अनन्तशक्तिमान् शुद्धगम्भीरमृदुलाशयः ॥ २२ ॥

प्रणाममात्रसन्तुष्टः सर्वाधिकसुखप्रदः ।
श‍ृङ्गारादिरसोत्कर्षचातुर्यवलितस्मितः ॥ २३ ॥

पादाम्बुजरजःस्पर्शमहापतितपावनः ।
पितृपालितसद्धर्मरक्षणोत्सुकमानसः ॥ २४ ॥

भक्तिसिद्धान्तमर्मज्ञो गूढभावप्रकाशकः ।
पुष्टिप्रवाहमर्यादामार्गनिर्धारकारकः ॥ २५ ॥

श्रीभागवतसारज्ञो सर्वाधिकतत्त्वबोधकः ।
अनन्यभावसन्तुष्टः पराश्रयनिवारकः ॥ २६ ॥

आचार्यार्ध्यस्वरूपश्च सदाद्भुतचरित्रवान् ।
तैलङ्गतिलको दैवीसृष्टिसाफल्यकारकः ॥ २७ ॥

इति श्रीगोकुलेशानां नामाब्जाभिधमुत्तमम् ।
स्तोत्रं सद्ब्रह्मभट्टेन विष्णुदासेन वर्णितम् ॥ २८ ॥

यः पठेच्छृणुयाद्भक्त्या प्रभुस्तस्य प्रियो भवेत् ।
संशयोऽत्र न कर्तव्यः समर्थो गोकुलेश्वरः ॥ २९ ॥

तत्कारुण्यबलेनैव मयैतत्प्रकटीकृतम् ।
पठन्तु साधवोऽप्येतत्तद्वद्देवानुकम्पया ॥ ३० ॥

मदीयेयं तु विज्ञप्तिर्बुद्धिदोषप्रमत्तताम् ।
शोधयित्वा यथायुक्तं तथा कुर्वन्तु साधवः ॥ ३१ ॥

इति श्रीविष्णुदासविरचितमष्टोत्तरशतनाम्नां स्तोत्रं सम्पूर्णम् ।

Also Read:

Shri Gokulesh Ashtottara Shatanama Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Shri Gokulesh Ashtottara Shatanama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top