Templesinindiainfo

Best Spiritual Website

Shrimad Gita Sarah Lyrics in Hindi

Shrimad Gitasarah in Hindi:

॥ श्रीमद् गीतासारः ॥
श्रीभगवानुवाच —
गीतासारं प्रवक्ष्यामि अर्जुनायोदितं पुरा ।
अष्टाङ्गयोगयुक्तात्मा सर्ववेदान्तपारगः ॥ १ ॥

आत्मलाभः परो नान्य आत्मा देहादिवर्जितः।
रूपादिहीनो देहान्तःकरणत्वादिलोचनम् ॥ २ ॥

विज्ञानरहितः प्राणः सुषुप्तोऽहं प्रतीयते ।
नाहमात्मा च दुःखादि संसारादिसमन्वयात् ॥ ३ ॥

विधूम इव दीप्तार्चिरादीप्त इव दीप्तिमान् ।
वैद्युतोऽग्निरिवाकाशे हृत्सङ्गे आत्मनाऽऽत्मनि ॥ ४ ॥

श्रोत्रादीनि न पश्यन्ति स्वं स्वमात्मानमात्मना ।
सर्वज्ञः सर्वदर्शी च क्षेत्रज्ञस्तानि पश्यति ॥ ५ ॥

सदा प्रकाशते ह्यात्मा पटे दीपो जलन्निव ।
ज्ञानमुत्पद्यते पुंसां क्षयात् पापस्य कर्मणः ॥ ६ ॥

यथादर्शतलप्रख्ये पश्यत्यात्मानमात्मनि ।
इन्द्रियाणीन्द्रियार्थांश्च महाभूतानि पञ्चकम् ॥ ७ ॥

मनोबुद्धिरहङ्कारमव्यक्तं पुरुषस्तथा ।
प्रसंख्यानपराव्याप्तो विमुक्तो बन्धनैर्भवेत् ॥ ८ ॥

इन्द्रियग्राममखिलं मनसाभिनिवेश्य च ।
मनश्चैवाप्यहङ्कारे प्रतिष्ठाप्य च पाण्डव ॥ ९ ॥

अहङ्कारं तथा बुद्धौ बुद्धिं च प्रकृतावपि ।
प्रकृतिं पुरुषे स्थाप्य पुरुषं ब्रह्मणि न्यसेत् ॥ १० ॥

नवद्वारमिदं गेहं तिसॄणां पञ्चसाक्षिकम् ।
क्षेत्रज्ञाधिष्ठितं विद्वान् यो वेद स परः कविः ॥ ११ ॥

अश्वमेधसहस्राणि वाजपेयशतानि च ।
ज्ञानयज्ञस्य सर्वाणि कलां नार्हन्ति षोडशीम् ॥ १२ ॥

श्रीभगवानुवाच —
यमश्च नियमः पार्थ आसनं प्राणसंयमः ।
प्रत्याहारस्तथा ध्यानं धारणार्जुन सप्तमी ।
समाधिविधि चाष्टाङ्गो योग उक्तो विमुक्तये ॥ १३ ॥

कायेन मनसा वाचा सर्वभुतेषु सर्वदा ।
हिंसाविरामको धर्मो ह्यहिंसा परमं सुखम् ॥ १४ ॥

विधिना या भवेद्धिंसा सा त्वहिंसा प्रकीर्तिता ।
सत्यं ब्रूयात् प्रियं ब्रूयान्न ब्रूयात्सत्यमप्रियम् ।
प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः ॥ १५ ॥

यच्च द्रव्यापहरणं चौर्याद्वाथ बलेन वा ।
स्तेयं तस्यानाचरणं अस्तेयं धर्मसाधनम् ॥ १६ ॥

कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा।
सर्वत्र मैथुनत्यागं ब्रह्मचर्यं प्रचक्षते ॥ १७ ॥

द्रव्याणामप्यनादानमापत्स्वपि तथेच्छया ।
अपरिग्रहमित्याहुस्तं प्रयत्नेन वर्जयेत् ॥ १८ ॥

द्विधा शौचं मृज्जलाभ्यां बाह्यं भावादथान्तरम्।
यदृच्छालाभतस्तुष्टिः सन्तोषः सुखलक्षणम् ॥ १९ ॥

मनसश्चेन्द्रियाणां च ऐकाग्र्यं परमं तपः ।
शरीरशोषणं वापि कृच्छ्रचान्द्रायणादिभिः ॥ २० ॥

वेदान्तशतरुद्रीयप्रणवादि जपं बुधाः ।
सत्त्वशुद्धिकरं पुंसां स्वाध्यायं परिचक्षते ॥ २१ ॥

स्तुतिस्मरणपूजादि वाङ्मनःकायकर्मभिः ।
अनिश्चला हरौ भक्तिरेतदीश्वरचिन्तनम् ॥ २२ ॥

आसनं स्वस्तिकं प्रोक्तं पद्ममर्धासनस्तथा ।
प्राणः स्वदेहजो वायुरारामस्तन्निरोधनम् ॥ २३ ॥

इन्द्रियाणां विचरतां विषयेषु त्वसत्स्विव ।
निरोधः प्रोच्यते सद्भिः प्रत्याहारस्तु पाण्डव ॥ २४ ॥

मूर्तामूर्तब्रह्मरूपचिन्तनं ध्यानमुच्यते ।
योगारम्भे मूर्तहरिं अमूर्तमपि चिन्तयेत् ॥ २५ ॥

अग्निमण्डलमध्यस्थो वायुर्देवश्चतुर्भुजः ।
शंखचक्रगदापद्मयुक्तः कौस्तुभसंयुतः ॥ २६ ॥

वनमाली कौस्तुभेन रतोऽहं ब्रह्मसंज्ञकः ।
धारणेत्युच्यते चेयं धार्यते यन्मनोलये ॥ २७ ॥

अहं ब्रह्मेत्यवस्थानं समाधिरभिधीयते ।
अहं ब्रह्मास्मि वाक्याच्च ज्ञानान्मोक्षो भवेन्नृणाम् ॥ २८ ॥

श्रद्धयानन्दचैतन्यं लक्षयित्वा स्थितस्य च ।
ब्रह्माहमस्म्यहं ब्रह्म अहं-ब्रह्म-पदार्थयोः ॥ २९ ॥

हरिरुवाच —
गीतासारमिति प्रोक्तं विधिनापि मया तव ।
यः पठेत् श‍ृणुयाद्वापि सोऽपि मोक्षमवाप्नुयात् ॥ ३० ॥

इति ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
श्रीमद्गीतासारः समाप्तः ॥

Also Read:

Shrimad Gita Sarah Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Shrimad Gita Sarah Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top