Templesinindiainfo

Best Spiritual Website

Shrrigala Gita Lyrics in Hindi

Shrrigala Geetaa in Hindi:

॥ श‍ृगालगीता ॥
भीष्मेण युधिष्ठिरम्प्रति इतरनिपेधपूर्वकं प्रज्ञायाः
सुखसाधनतायां प्रमाणतया सृगालकाश्यपसंवादानुवादः ॥ १ ॥

युधिष्ठिर उवाच । ०
बान्धवाः कर्म वित्तं वा प्रज्ञा वेह पितामह ।
नरस्य का प्रतिष्ठा स्यादेतत्पृष्टो वदस्व मे ॥ १ ॥

भीष्म उवाच । २
प्रज्ञा प्रतिष्ठा भूतानां प्रज्ञा लाभः परो मतः ।
प्रज्ञा निःश्रेयसी लोके प्रज्ञा स्वर्गो मतः सताम् ॥ २ ॥

प्रज्ञया प्रापितार्थो हि बलिरैश्वर्यसङ्क्षये ।
प्रह्लादो नमुचिर्मङ्किस्तस्याः किं विद्यते परम् ॥ ३ ॥

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
इन्द्रकाश्यपसंवादं तन्निबोध युधिष्ठिर ॥ ४ ॥

वैश्यः कश्चिदृषिसुतं काश्यपं संशितव्रतम् ।
रथेन पातयामास श्रीमान्दृप्तस्तपस्विनम् ॥ ५ ॥

आर्तः स पतितः क्रुद्धस्त्यक्त्वाऽऽत्मानमथाब्रवीत् ।
मरिष्याम्यधनस्येह जीवितार्थो न विद्यते ॥ ६ ॥

तथा मुमूर्षमासीनमकूजन्तमचेतसम् ।
इन्द्रः सृगालरूपेण बभाषे क्षुब्धमानसम् ॥ ७ ॥

मनुष्ययोनिमिच्छन्ति सर्वभूतानि सर्वशः ।
मनुष्यत्वे च विप्रत्वं सर्व एवाभिनन्दति ॥ ८ ॥

मनुष्यो ब्राह्मणश्चासि श्रोत्रियश्चासि काश्यप ।
सुदुर्लभमवाप्यैतन्न दोषान्मर्तुमर्हसि ॥ ९ ॥

सर्वे लाभाः साभिमाना इति सत्यवती श्रुतिः ।
सन्तोषणीयरूपोऽसि लोभाद्यदभिमन्यसे ॥ १० ॥

अहो सिद्धार्थता तेषां येषां सन्तीह पाणयः ।
[अतीव स्पृहये तेषां येषां सन्तीह पाणयः ॥] ११ ॥

पाणिमद्भ्यः स्पृहाऽस्माकं यथा तव धनस्य वै ।
न पाणिलाभादधिको लाभः कश्चन विद्यते ॥ १२ ॥

अपाणित्वाद्वयं ब्रह्मन्कण्टकं नोद्धरामहे ।
जन्तूनुच्चावचानङ्गे दशतो न कषाम वा ॥ १३ ॥

अथ येषां पुनः पाणी देवदत्तौ दशाङ्गुली ।
उद्धरन्ति कृमीनङ्गाद्दशतो निकषन्ति च ॥ १४ ॥

वर्षाहिमातपानां च परित्राणानि कुर्वते ।
चेलमन्नं सुखं शय्यां निवातं चोपभुञ्जते ॥ १५ ॥

अधिष्ठाय च गां लोके भुञ्जते वाहयन्ति च ।
उपायैर्बहुभिश्चैव वश्यानात्मनि कुर्वते ॥ १६ ॥

ये खल्वजिह्वाः कृपणा अल्पप्राणा अपाणयः ।
सहन्ते तानि दुःखानि दिष्ट्या त्वं न तथा मुने ॥ १७ ॥

दिष्ट्या त्वं न श‍ृगालो वै न कृमिर्न च मूषकः ।
न सर्पो न च मण्डूको न चान्यः पापयोनिजः ॥ १८ ॥

एतावताऽपि लाभेन तोष्टुमर्हसि काश्यप ।
किं पुनर्योसि सत्वानां सर्वेषां ब्राह्मणोत्तमः ॥ १९ ॥

इमे मां कृमयोऽदन्ति येषामुद्धरणाय वै ।
नास्ति शक्तिरपाणित्वात्पश्यावस्थामिमां मम ॥ २० ॥

अकार्यमिति चैवेमं नात्मानं सन्त्यजाम्यहम् ।
नातः पापीयसीं योनिं पतेयमपरामिति ॥ २१ ॥

मध्ये वै पापयोनीनां सृगालीयामहं गतः ।
पापीयस्यो बहुतरा इतोऽन्याः पापयोनयः ॥ २२ ॥

जात्यैवैके सुखितराः सन्त्यन्ये भृशदुःखिताः ।
नैकान्तं सुखमेवेह क्वचित्पश्यामि कस्यचित् ॥ २३ ॥

मनुष्या ह्याढ्यतां प्राप्य राज्यमिच्छन्त्यनन्तरम् ।
राज्याद्देवत्वमिच्छन्ति देवत्वादिन्द्रतामपि ॥ २४ ॥

भवेस्त्वं यद्यपि त्वाढ्यो न राजा न च दैवतम् ।
देवत्वं प्राप्य चेन्द्रत्वं नैव तुष्येस्तथा सति ॥ २५ ॥

न तृप्तिः प्रियलाभेऽस्ति तृष्णा नाद्भिः प्रशाम्यति ।
सम्प्रज्वलति सा भूयः समिद्भिरिव पावकः ॥ २६ ॥

अस्त्येव त्वयि शोकोऽपि हर्षश्चापि तथा त्वयि ।
सुखदुःखे तथा चोभे तत्र का परिदेवना ॥ २७ ॥

परिच्छिद्यैव कामानां सर्वेषां चैव कर्मणाम् ।
मूलं बुद्धीन्द्रियग्रामं शकुन्तानिव पञ्जरे ॥ २८ ॥

न द्वितीयस्य शिरसश्छेदनं विद्यते क्वचित् ।
न च पाणेस्तृतीयस्य यन्नास्ति न ततो भयम् ॥ २९ ॥

न खल्वप्यरसज्ञस्य कामः क्वचन जायते ।
संस्पर्शाद्दर्शनाद्वापि श्रवणाद्वापि जायते ॥ ३० ॥

न त्वं स्मरसि वारुण्या लट्वाकानां च पक्षिणाम् ।
ताभ्यां चाभ्यधिको भक्ष्यो न कश्चिद्विद्यते क्वचित् ॥ ३१ ॥

यानि चान्यानि भूतेषु भक्ष्यभोज्यानि काश्यप ।
येषामभुक्तपूर्वाणि तेषामस्मृतिरेव ते ॥ ३२ ॥

अप्राशनमसंस्पर्शमसन्दर्शनमेव च ।
पुरुषस्यैष नियमो मन्ये श्रेयो न संशयः ॥ ३३ ॥

पाणिमन्तो बलवन्तो धनवन्तो न संशयः ।
मनुष्या मानुषैरेव दासत्वमुपपादिताः ॥ ३४ ॥

वधबन्धपरिक्लेशैः क्लिश्यन्ते च पुनः पुनः ।
ते खल्वपि रमन्ते च मोदन्ते च हसन्ति च ॥ ३५ ॥

अपरे बाहुबलिनः कृतविद्या मनस्विनः ।
जुगुप्सितां च कृपणां पापवृत्तिमुपासते ॥ ३६ ॥

उत्सहन्ते च ते वृत्तिमन्यामप्युपसेवितुम् ।
स्वकर्मणा तु नियतं भवितव्यं तु तत्तथा ॥ ३७ ॥

न पुल्कसो न चण्डाल आत्मानं त्यक्तुमिच्छति ।
तया तुष्टः स्वया योन्या मायां पश्यस्व यादृशीम् ॥ ३८ ॥

दृष्ट्वा कुणीन्पक्षहतान्मनुष्यानामयाविनः ।
सुसम्पूर्णः स्वया योन्या लब्धलाभोसि काश्यप ॥ ३९ ॥

यदि ब्राह्मणदेहस्ते निरातङ्को निरामयः ।
अङ्गानि च समग्राणि न च लोकेषु धिक्कृतः ॥ ४० ॥

न केनचित्प्रवादेन सत्येनैवापहारिणा ।
धर्मायोत्तिष्ठ विप्रर्षे नात्मानं त्यक्तुमर्हसि ॥ ४१ ॥

यदि ब्रह्मञ्श‍ृणोष्येतच्छ्रद्दधासि च मे वचः ।
वेदोक्तस्यैव धर्मस्य फलं मुख्यमवाप्स्यसि ॥ ४२ ॥

स्वाध्यायमग्निसंस्कारमप्रमत्तोऽनुपालय ।
सत्यं दमं च दानं च स्पर्धिष्ठा मा च केनचित् ॥ ४३ ॥

ये केचन स्वध्ययनाः प्राप्ता यजनयाजनम् ।
कथं ते चानुशोचेयुर्ध्यायेयुर्वाऽप्यशोभनम् ॥ ४४ ॥

इच्छन्तस्ते विहाराय सुखं महदवाप्नुयुः ।
येऽनुजाताः सुनक्षत्रे सुतिथौ सुमुहूर्तके ।
यज्ञदानप्रजेहायां यतन्ते शक्तिपूर्वकम् ॥ ४५ ॥

नक्षत्रेष्वासुरेष्वन्ये दुस्तिथौ दुर्मुहूर्तजाः ।
सम्पतन्त्यासुरीं योनिं यज्ञप्रसववर्जिताः ॥ ४६ ॥

अहमासं पण्डितको हैतुको वेदनिन्दकः ।
आन्वीक्षिकीं तर्कविद्यामनुरक्तो निरर्थिकाम् ॥ ४७ ॥

हेतुवादान्प्रवदिता वक्ता संसत्सु हेतुमत् ।
आक्रोष्टा चातिवक्ता च ब्रह्मवाक्येषु च द्विजान् ॥ ४८ ॥

नास्तिकः सर्वशङ्की च मूर्खः पण्डितमानिकः ।
तस्येयं फलनिर्वृत्तिः सृगालत्वं मम द्विज ॥ ४९ ॥

अपि जातु तथा तत्स्यादहोरात्रशतैरपि ।
यदहं मानुषीं योनिं सृगालः प्राप्नुयां पुनः ॥ ५० ॥

सन्तुष्टश्चाप्रमत्तश्च यज्ञदानतपोरतः ।
ज्ञेयं ज्ञाता भवेयं वै वर्ज्यं वर्जयिता तथा ॥ ५१ ॥

भीष्म उवाच । ५२
ततः स मुनिरुत्थाय काश्यपस्तमुवाच ह ।
अहो बतामि कुशलो बुद्धिमांश्चेति विस्मितः ॥ ५२ ॥

समवैक्षत तं विप्रो ज्ञानदीर्घेण चक्षुषा ।
ददर्श चैनं देवानां देवमिन्द्रं शचीपतिम् ॥ ५३ ॥

ततः सम्पूजयामास काश्यपो हरिवाहनम् ।
अनुज्ञातस्तु तेनाथ प्रविवेश स्वमालयम् ॥ ॥ ५४ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
अष्टसप्तत्यधिकशततमोऽध्यायः ॥ १७८ ॥

Mahabharata – Shanti Parva – Chapter Footnotes

५ रथेन रथघातेन । वैश्यः कश्चिदृषिं दान्तं इति
ट। पाठः ॥

६ आत्मानं धैर्यं त्यक्त्वा ॥

७ अकूजन्तं मूर्च्छया निःशब्दम् ॥

९ श्रोत्रियोऽधीतदेवः । दोषात् मौढ्यात् ॥

१० यत्सन्तोषणीयं रूपं त्वं स्वस्याऽभिमन्यसेऽवमन्यसे ॥

१३ न कषाम न नाशयाम्। १२-१७८-१४ निकषन्ति कण्डूयनेन। ।
१६ अधिष्ठायाध्यास्य । गां पृथिवीम्। बलीवर्दादि वा। आत्मनि
आत्मभोगनिमित्तम् ॥

१७ अल्पप्राणा अल्पबलाः ॥

२० अदन्ति दशन्ति ॥

२३ एके देवाद्याः । अन्ये पश्वाद्याः ॥

२५ यदि कदाचिद्भवेस्तथापि न तुष्येरिति योज्यम् ॥

२८ कामादीनां मूलं बुद्धीन्द्रियग्रामं शकुन्तानिव
शरीरपञ्चरे परिच्छिद्य निरुध्य स्थितस्य भयं नास्तीत्युत्तरेण
सम्बन्धः ॥

३१ वारुण्या मद्यस्य लट्वाख्यपक्षिमासस्य च । कर्मणि
षष्ठ्यौ। त्वं न स्मरसि ब्राह्मणत्वेन तव तद्रसग्रहाभावात् ॥

३२ येषां यान्यभुक्तपूर्वाणि ॥

३८ असन्तुष्टः स्वया वृत्त्या मायां प्रेक्षस्व यादृशीन् । इति
टड़।थ। पाठः ॥

३९ पक्षहतानर्धाङ्गवातादिना नष्टान् । आमयाविनोरोगाक्रान्तान् ॥

४१ प्रवादेन कलङ्केन । अपहारिणा जाविभ्रंशकरेण ॥

४५ विहाराय यथोचितेन यज्ञादिना विहर्तुम् ॥

४८ पण्डितकः कुत्सितः पण्डितः हेतुमदेव वक्ता न श्रुतिमत्
। आक्रोष्टापरुषवाक् ॥

४९ सर्वशङ्की स्वर्गादृष्टादिसद्भावेऽपि शङ्कावान् ॥

५४ हरिवाहनमिन्द्रम् ॥

Also Read:

shrrigala Gita Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Shrrigala Gita Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top