Templesinindiainfo

Best Spiritual Website

1000 Names of Mahaganapati | Sahasranama Stotram 2 Lyrics in Hindi

Maha Ganapati Sahasranamastotram 2 Lyrics in Hindi:

॥महागणपतिसहस्रनामस्तोत्रं २ अथवा वरदगणेशसहस्रनामस्तोत्रम् ॥

श्रीगणेशाय नमः ।

श्रीभैरव उवाच –
श‍ृणु देवि रहस्यं मे यत्पुरा सूचितं मया ।
तव भक्त्या गणेशस्य वक्ष्ये नामसहस्रकम् ॥ १ ॥

श्रीदेव्युवाच –
भगवन् गणनाथस्य वरदस्य महात्मनः ।
श्रोतुं नामसहस्रं मे हृदयं प्रोत्सुकायते ॥ २ ॥

श्रीभैरव उवाच –
प्राङ् मे त्रिपुरनाशे तु जाता विघ्नकुलाः शिवे ।
मोहेन मुह्यते चेतस्ते सर्वे बलदर्पिताः ॥ ३ ॥

तदा प्रभुं गणाध्यक्षं स्तुत्वा नामसहस्रकैः ।
विघ्ना दूरात् पलायन्त कालरुद्रादिव प्रजाः ॥ ४ ॥

तस्यानुग्रहतो देवि जातोऽहं त्रिपुरान्तकः ।
तमद्यापि गणेशानं स्तौमि नामसहस्रकैः ॥ ५ ॥

तमद्य तव भक्त्याहं साधकानां हिताय च ।
महागणपतेर्वक्ष्ये दिव्यं नामसहस्रकम् ॥ ६ ॥

(पाठकानां च दातॄणां सुखसम्पत्प्रदायकम् ।
दुःखापहं च श्रोतॄणां मन्त्रनामसहस्रकम्) ॥ ७ ॥

अस्य श्रीवरदगणेशसहस्रनामस्तोत्रमन्त्रस्य श्रीभैरव ऋषिः ।
गायत्री छन्दः । श्रीमहागणपतिर्देवता । गं बीजं । ह्रीं शक्तिः ।
कुरु कुरु कीलकं ।
धर्मार्थकाममोक्षार्थे सहस्रनामस्तवपाठे विनियोगः ।

ध्यानम्-
ॐह्रींश्रींक्लीं-गणाध्यक्षो ग्लौंगं-गणपतिर्गुणी ।
गुणाद्यो निर्गुणो गोप्ता गजवक्त्रो विभावसुः ॥ ८ ॥

विश्वेश्वरो विभादीप्तो दीपनो धीवरो धनी ।
सदाशान्तो जगत्तातो विष्वक्सेनो विभाकरः ॥ ९ ॥

विस्रम्भी विजयी वैद्यो वारान्निधिरनुत्तमः ।
अणीयान् विभवी श्रेष्ठो ज्येष्ठो गाथाप्रियो गुरुः ॥ १० ॥

सृष्टिकर्ता जगद्धर्ता विश्वभर्ता जगन्निधिः ।
पतिः पीतविभूषाङ्गो रक्ताक्षो लोहिताम्बरः ॥ ११ ॥

विरूपाक्षो विमानस्थो विनयः सनयः सुखी ।
सुरूपः सात्त्विकः सत्यः शुद्धः शङ्करनन्दनः ॥ १२ ॥

नन्दीश्वरो सदानन्दी वन्दिस्तुत्यो विचक्षणः ।
दैत्यमर्दी मदाक्षीबो मदिरारुणलोचनः ॥ ११ ॥

सारात्मा विश्वसारश्च विश्वचारी विलेपनः ।
परं ब्रह्म परं ज्योतिः साक्षी त्र्यक्षो विकत्थनः ॥ १४ ॥

वीरेश्वरो वीरहर्ता सौभाग्यो भाग्यवर्धनः ।
भृङ्गिरीटी भृङ्गमाली भृङ्गकूजितनादितः ॥ १५ ॥

विनर्तको विनेतापि विनतानन्दनोऽर्चितः ।
वैनतेयो विनम्राङ्गो विश्वनेता विनायकः ॥ १६ ॥

विराटको विराटश्च विदग्धो विधिरात्मभूः ।
पुष्पदन्तः पुष्पहारी पुष्पमालाविभूषणः ॥ १७ ॥

पुष्पेषुर्मथनः पुष्टो विकर्ता कर्तरीकरः ।
अन्त्योऽन्तकश्चित्तगणश्चित्तचिन्तापहारकः ॥ १८ ॥

अचिन्त्योऽचिन्त्यरूपश्च चन्दनाकुलमुण्डकः ।
लिपितो लोहितो लुप्तो (१००) लोहिताक्षो विलोभकः ॥ १९ ॥

लुब्धाशयो लोभरतो लाभदोऽलङ्घ्यगात्रकः ।
सुन्दरः सुन्दरीपुत्रः समस्तासुरघातनः ॥ २० ॥

नूपुराढ्यो विभवदो नरो नारायणो रविः ।
विचारी वान्तदो वाग्मी वितर्की विजयेश्वरः ॥ २१ ॥

सुप्तो बुद्धः सदारूपः सुखदः सुखसेवितः ।
विकर्तनो वियच्चारी विनटो नर्तको नटः ॥ २२ ॥

नाट्यो नाट्यप्रियो नादोऽनन्तोऽनन्तगुणात्मकः ।
विश्वमूर्विश्वघाती च विनतास्यो विनर्तकः ॥ २३ ॥

करालः कामदः कान्तः कमनीयः कलाधरः ।
कारुण्यरूपः कुटिलः कुलाचारी कुलेश्वरः ॥ २४ ॥

विकरालो गणश्रेष्ठः संहारो हारभूषणः ।
रुरू रम्यमुखो रक्तो रेवतीदयितो रसः ॥ २५ ॥

महाकालो महादंष्ट्रो महोरगभयापहः ।
उन्मत्तरूपः कालाग्निरग्निसूर्येन्दुलोचनः ॥ २६ ॥

सितास्यः सितमाल्यश्च सितदन्तः सितांशुमान् ।
असितात्मा भैरवेशो भाग्यवान् भगवान् भगः ॥

भर्गात्मजो भगावासो भगदो भगवर्धनः ।
शुभङ्करः शुचिः शान्तः श्रेष्यः श्रव्यः शचीपतिः ॥ २८ ॥

वेदाद्यो वेदकर्ता च वेदवेद्यः सनातनः ।
विद्याप्रदो वेदसारो वैदिको वेदपारगः ॥ २९ ॥

वेदध्वनिरतो वीरो वरो वेदागमार्थवित् ।
तत्त्वज्ञः सवर्गः साधुः सदयः सद् (२००) असन्मयः ॥ ३० ॥

निरामयो निराकारो निर्भयो नित्यरूपभृत् । ।
निर्वैरो वैरिविध्वंसी मत्तवारणसन्निभः ॥ ३१ ॥

शिवङ्करः शिवसुतः शिवः सुखविवर्धनः ।
श्वैत्यः श्वेतः शतमुखो मुग्धो मोदकभोजनः ॥ ३२ ॥

देवदेवो दिनकरो धृतिमान् द्युतिमान् धवः ।
शुद्धात्मा शुद्धमतिमाञ्छुद्धदीप्तिः शुचिव्रतः ॥ ३३ ॥

शरण्यः शौनकः शूरः शरदम्भोजधारकः ।
दारकः शिखिवाहेष्टः शीतः शङ्करवल्लभः ॥ ३४ ॥

शङ्करो निर्भवो नित्यो लयकृल्लास्यतत्परः । निर्भयो
लूतो लीलारसोल्लासी विलासी विभ्रमो भ्रमः ॥ ३५ ॥

भ्रमणः शशभृत् सूर्यः शनिर्धरणिनन्दनः ।
बुद्धो विबुधसेव्यश्च बुधराजो बलन्धरः ॥ ३६ ॥

जीवो जीवप्रदो जैत्रः स्तुत्यो नुत्यो नतिप्रियः ।
जनको जिनमार्गज्ञो जैनमार्गनिवर्तकः ॥ ३७ ॥

गौरीसुतो गुरुरवो गौराङ्गो गजपूजितः ।
परं पदं परं धाम परमात्मा कविः कुजः ॥ ३८ ॥

राहुर्दैत्यशिरश्छेदी केतुः कनककुण्डलः ।
ग्रहेन्द्रो ग्राहितो ग्राह्योऽग्रणीर्घुर्घुरनादितः ॥ ३९ ॥

पर्जन्यः पीवरो पोत्री पीनवक्षाः परार्जितः ।
वनेचरो वनपतिर्वनवासः स्मरोपमः ॥ ४० ॥

पुण्यं पूतः पवित्रं च परात्मा पूर्णविग्रहः ।
पूर्णेन्दुशकलाकारो मन्युः पूर्णमनोरथः ॥ ४१ ॥

युगात्मा युगभृद् यज्वा (३००) याज्ञिको यज्ञवत्सलः । योगभृद्
यशस्वी यजमानेष्टो व्रजभृद् वज्रपञ्जरः ॥ ४२ ॥

मणिभद्रो मणिमयो मान्यो मीनध्वजाश्रितः ।
मीनध्वजो मनोहारी योगिनां योगवर्धनः ॥ ४३ ॥

द्रष्टा स्रष्टा तपस्वी च विग्रही तापसप्रियः ।
तपोमयस्तपोमूर्तिस्तपनश्च तपोधनः ॥ ४४ ॥

रुचको मोचको रुष्टस्तुष्टस्तोमरधारकः ।
दण्डी चण्डांशुरव्यक्तः कमण्डलुधरोऽनघः ॥ ४५ ॥

कामी कर्मरतः कालः कोलः क्रन्दितदिक्तटः ।
भ्रामको जातिपूज्यश्च जाड्यहा जडसूदनः ॥ ४६ ॥

जालन्धरो जगद्वासी हासकृद् हवनो हविः ।
हविष्मान् हव्यवाहाक्षो हाटको हाटकाङ्गदः ॥ ४७ ॥

सुमेरुर्हिमवान् होता हरपुत्रो हलङ्कषः ।
हालप्रियो हृदाशान्तः कान्ताहृदयपोषणः ॥ ४८ ॥

शोषणः क्लेशहा क्रूरः कठोरः कठिनाकृतिः ।
कूवरो धीमयो ध्याता ध्येयो धीमान् दयानिधिः ॥

दविष्ठो दमनो द्युस्थो दाता त्राता सितः समः ।
निर्गतो नैगमी गम्यो निर्जेयो जटिलोऽजरः ॥ ५० ॥

जनजीवो जितारातिर्जगद्व्यापी जगन्मयः ।
चामीकरनिभोऽनाद्यो नलिनायतलोचनः ॥ ५१ ॥

रोचनो मोचनो मन्त्री मन्त्रकोटिसमाश्रितः ।
पञ्चभूतात्मकः पञ्चसायकः पञ्चवक्त्रकः ॥ ५२ ॥

पञ्चमः पश्चिमः पूर्वः ( ४००) पूर्णः कीर्णालकः कुणिः ।
कठोरहृदयो ग्रीवालङ्कृतो ललिताशयः ॥ ५३ ॥

लोलचित्तो बृहन्नासो मासपक्षर्तुरूपवान् ।
ध्रुवो द्रुतगतिर्धर्म्यो धर्मी नाकिप्रियोऽनलः ॥ ५४ ॥

अगस्त्यो ग्रस्तभुवनो भुवनैकमलापहः ।
सागरः स्वर्गतिः स्वक्षः सानन्दः साधुपूजितः ॥ ५५ ॥

सतीपतिः समरसः सनकः सरलः सुरः ।
सुराप्रियो वसुपतिर्वासवो वसुपूजितः ॥ ५६ ॥

वित्तदो वित्तनाथश्च धनिनां धनदायकः ।
राजी राजीवनयनः स्मृतिदः कृत्तिकाम्बरः ॥ ५७ ॥

आश्विनोऽश्वमुखः शुभ्रो भरणो भरणीप्रियः ।
कृत्तिकासनगः कोलो रोही रोहणपादुकः ॥ ५८ ॥

ऋभुवेष्टोऽरिमर्दी च रोहिणीमोहनोऽमृतम् ।
मृगराजो मृगशिरा माधवो मधुरध्वनिः ॥ ५९ ॥

आर्द्राननो महाबुद्धिर्महोरगविभूषणः ।
भ्रूक्षेपदत्तविभवो भ्रूकरालः पुनर्मयः ॥ ६० ॥

पुनर्देवः पुनर्जेता पुनर्जीवः पुनर्वसुः ।
तित्तिरिस्तिमिकेतुश्च तिमिचारकघातनः ॥ ६१ ॥

तिष्यस्तुलाधरो जम्भ्यो विश्लेषोऽश्लेष एणराट् ।
मानदो माधवो माघो वाचालो मघवोपमः ॥ ६२ ॥

मेध्यो मघाप्रियो मेघो महामुण्डो महाभुजः ।
पूर्वफाल्गुनिकः स्फीतः फल्गुरुत्तरफाल्गुनः ॥ ६३ ॥

फेनिलो ब्रह्मदो ब्रह्मा सप्ततन्तुसमाश्रयः ।
घोणाहस्तश्चतुर्हस्तो हस्तिवक्त्रो हलायुधः ॥ ६४ ॥

चित्राम्बरो(५००)ऽर्चितपदः स्वादितः स्वातिविग्रहः ।
विशाखः शिखिसेव्यश्च शिखिध्वजसहोदरः ॥ ६५ ॥

अणू रेणुः कलास्फारोऽनूरू रेणुसुतो नरः ।
अनुराधाप्रियो राध्यः श्रीमाञ्छुक्लः शुचिस्मितः ॥ ६६ ॥

ज्येष्ठः श्रेष्ठार्चितपदो मूलं त्रिजगतो गुरुः ।
शुचिः पूर्वस्तथाषाढश्चोत्तराषाढ ईश्वरः ॥ ६७ ॥

श्रव्योऽभिजिदनन्तात्मा श्रवो वेपितदानवः ।
श्रावणः श्रवणः श्रोता धनी धन्यो धनिष्ठकः ॥ ६८ ॥

शातातपः शातकुम्भः शतंज्योतिः शतम्भिषक् ।
पूर्वाभाद्रपदो भद्रश्चोत्तराभाद्रपादितः ॥ ६९ ॥

रेणुकातनयो रामो रेवतीरमणो रमी ।
अश्वियुक् कार्तिकेयेष्टो मार्गशीर्षो मृगोत्तमः ॥ ७० ॥

पुष्यशौर्यः फाल्गुनात्मा वसन्तश्चित्रको मधुः ।
राज्यदोऽभिजिदात्मीयस्तारेशस्तारकद्युतिः ॥ ७१ ॥

प्रतीतः प्रोज्झितः प्रीतः परमः पारमो हितः ।
परहा पञ्चभूः पञ्चवायुः पूज्यः परं महः ॥ ७२ ॥

पुराणागमविद् योग्यो महिषो रासभोऽग्रगः ।
ग्राहो मेषो वृषो मन्दो मन्मथो मिथुनार्चितः ॥ ७३ ॥

कल्कभृत् कटको दीनो मर्कटः कर्कटो घृणी ।
कुक्कुटो वनजो हंसः परहंसः श‍ृगालकः ॥ ७४ ॥

सिंहः सिंहासनो मूषो मोह्यो मूषकवाहनः (६००) ।
पुत्रदो नरकत्राता कन्याप्रीतः कुलोद्वहः ॥ ७५ ॥

अतुल्यरूपो बलदस्तुलाभृत् तुल्यसाक्षिकः ।
अलिचापधरो धन्वी कच्छपो मकरो मणिः ॥ ७६ ॥

स्थिरः प्रभुर्महाकर्मी महाभोगी महायशाः ।
वसुमूर्तिधरो व्यग्रोऽसुरहारी यमान्तकः ॥ ७७ ॥

देवाग्रणीर्गणाध्यक्षो ह्यम्बुजालो महामतिः ।
अङ्गदी कुण्डली भक्तिप्रियो भक्तविवर्धनः ॥ ७८ ॥

गाणपत्यप्रदो मायी वेदवेदान्तपारगः ।
कात्यायनीसुतो ब्रह्मपूजितो विघ्ननाशनः ॥ ७९ ॥

संसारभयविध्वंसी महोरस्को महीधरः ।
विघ्नान्तको महाग्रीवो भृशं मोदकमोदितः ॥ ८० ॥

वाराणसीप्रियो मानी गहन आखुवाहनः ।
गुहाश्रयो विष्णुपदीतनयः स्थानदो ध्रुवः ॥ ८१ ॥

परर्द्धिस्तुष्टो विमलो मौलिमान् वल्लभाप्रियः ।
चतुर्दशीप्रियो मान्यो व्यवसायो मदान्वितः ॥ ८२ ॥

अचिन्त्यः सिंहयुगलनिविष्टो बालरूपधृत् ।
धीरः शक्तिमतां श्रेष्ठो महाबलसमन्वितः ॥ ८३ ॥

सर्वात्मा हितकृद् वैद्यो महाकुक्षिर्महामतिः ।
करणं मृत्युहारी च पापसङ्घनिवर्तकः ॥ ८४ ॥

उद्भिद् वज्री महादैत्यसूदनो दीनरक्षकः ।
भूतचारी प्रेतचारी बुद्धिरूपो मनोमयः ॥ ८५ ॥

अहङ्कारवपुः साङ्ख्यपुरुषस्त्रिगुणात्मकः ।
तन्मात्ररूपो भूतात्मा इन्द्रियात्मा वशीकरः ॥ ८६ ॥

मलत्रयबहिर्भूतो ह्यवस्थात्रयवर्जितः ।
नीरूपो बहुरूपश्च किन्नरो नागविक्रमः ॥ ८७ ॥

एकदन्तो महावेगः सेनानी स्त्रिदशाधिपः ।
विश्वकर्ता विश्वबीजं (७००) श्रीः सम्पदह्रीर्धृतिर्मतिः ॥ ८८ ॥

सर्वशोषकरो वायुः सूक्ष्मरूपः सुनिश्चलः ।
संहर्ता सृष्टिकर्ता च स्थितिकर्ता लयाश्रितः ॥ ८९ ॥

सामान्यरूपः सामास्योऽथर्वशीर्षा यजुर्भुजः ।
ऋगीक्षणः काव्यकर्ता शिक्षाकारी निरुक्तवित् ॥ ९० ॥

शेषरूपधरो मुख्यः शब्दब्रह्मस्वरूपभाक् ।
विचारवाञ्शङ्खधारी सत्यव्रतपरायणः ॥ ९१ ॥

महातपा घोरतपाः सर्वदो भीमविक्रमः ।
सर्वसम्पत्करो व्यापी मेघगम्भीरनादभृत् ॥ ९२ ॥

समृद्धो भूतिदो भोगी वेशी शङ्करवत्सलः ।
शम्भुभक्तिरतो मोक्षदाता भवदवानलः ॥ ९३ ॥

सत्यस्तपा ध्येयमूर्तिः कर्ममूर्तिर्महांस्तथा ।
समष्टिव्यष्टिरूपश्च पञ्चकोशपराङ्मुखः ॥ ९४ ॥

तेजोनिधिर्जगन्मूर्तिश्चराचरवपुर्धरः ।
प्राणदो ज्ञानमूर्तिश्च नादमूर्तियुतोऽक्षरः ॥ ९५ ॥

भूताद्यस्तैजसो भावो निष्कलश्चैव निर्मलः ।
कूटस्थश्चेतनो रुद्रः क्षेत्रवित् पुरुषो बुधः ॥ ९६ ॥

अनाधारोऽप्यनाकारो धाता च विश्वतोमुखः ।
अप्रतर्क्यवपुः स्कन्दानुजो भानुर्महाप्रभः ॥ ९७ ॥

यज्ञहर्ता यज्ञकर्ता यज्ञानां फलदायकः ।
यज्ञगोप्ता यज्ञमयो दक्षयज्ञविनाशकृत् ॥ ९८ ॥

वक्रतुण्डो महाकायः कोटिसूर्यसमप्रभः ।
एकदंष्ट्रः कृष्णपिङ्गो विकटो धूम्रवर्णकः ॥ ९९ ॥

टङ्कधारी जम्बुकश्च नायकः शूर्पकर्णकः ।
सुवर्णगर्भः सुमुखः श्रीकरः सर्वसिद्धिदः ॥ १०० ॥

सुवर्णवर्णो हेमाङ्गो महात्मा चन्दनच्छविः ।
स्वङ्गः स्वक्षः (८००) शतानन्दो लोकविल्लोकविग्रहः ॥ १०१ ॥

इन्द्रो जिष्णुर्धूमकेतुर्वह्निः पूज्यो दवान्तकः ।
पूर्णानन्दः परानन्दः पुराणपुरुषोत्तमः ॥ १०२ ॥

कुम्भभृत् कलशी कुब्जो मीनमांससुतर्पितः ।
राशिताराग्रहमयस्तिथिरूपो जगद्विभुः ॥ १०३ ॥

प्रतापी प्रतिपतप्रेयान् द्वितीयोऽद्वैतनिश्चितः ।
त्रिरूपश्च तृतीयाग्निस्त्रयीरूपस्त्रयीतनुः ॥ १०४ ॥

चतुर्थीवल्लभो देवो पारगः पञ्चमीरवः ।
षड्रसास्वादकोऽजातः षष्ठी षष्टिकवत्सरः ॥ १०५ ॥

सप्तार्णवगतिः सारः सप्तमीश्वर ईहितः ।
अष्टमीनन्दनोऽनार्तो नवमीभक्तिभावितः ॥ १०६ ॥

दशदिक्पतिपूज्यश्च दशमी द्रुहिणो द्रुतः ।
एकादशात्मा गणपो द्वादशीयुगचर्चितः ॥ १०७ ॥

त्रयोदशमनुस्तुत्यश्चतुर्दशसुरप्रियः ।
चतुर्दशेन्द्रसंस्तुत्यः पूर्णिमानन्दविग्रहः ॥ १०८ ॥

दर्शादर्शो दर्शनश्च वानप्रस्थो मुनीश्वरः ।
मौनी मधुरवाङ्मूलं मूर्तिमान् मेघवाहनः ॥ १०९ ॥

महागजो जितक्रोधो जितशत्रुर्जयाश्रयः ।
रौद्रो रुद्रप्रियो रुक्मो रुद्रपुत्रोऽघतापनः ॥ ११० ॥

भवप्रियो भवानीष्टो भारभृद् भूतभावनः ।
गान्धर्वकुशलोऽकुण्ठो वैकुण्ठो विष्णुसेवितः ॥ १११ ॥

वृत्रहा विघ्नहा सीरः समस्तदुरितापहः ।
मञ्जुलो मार्जनो मत्तो दुर्गापुत्रो दुरालसः ॥ ११२ ॥

अनन्तचित्सुधाधारो वीरो वीर्यैकसाधकः ।
भास्वन्मुकुटमाणिक्यः कूजत्किङ्किणिजालकः ॥ ११३ ॥

शुण्डाधारी तुण्डचलः कुण्डली मुण्डमालकः ।
पद्माक्षः पद्महस्तश्च (९००) पद्मनाभसमर्चितः ॥ ११४ ॥

उद्गीथो नरदन्ताढ्यमालाभूषणभूषितः ।
नारदो वारणो लोलश्रवणः शूर्पकश्रवाः ॥ ११५ ॥

बृहदुल्लासनासाढ्यव्याप्तत्रैलोक्यमण्डलः ।
इलामण्डलसम्भ्रान्तकृतानुग्रहजीवकः ॥ ११६ ॥

बृहत्कर्णाञ्चलोद्भूतवायुवीजितदिक्तटः ।
बृहदास्यरवाक्रान्तभीमब्रह्माण्डभाण्डकः ॥ ११७ ॥

बृहत्पादसमाक्रान्तसप्तपातालवेपितः ।
बृहद्दन्तकृतात्युग्ररणानन्दरसालसः ॥ ११८ ॥

बृहद्धस्तधृताशेषायुधनिर्जितदानवः ।
स्फुरत्सिन्दूरवदनः स्फुरत्तेजोऽग्निलोचनः ॥ ११९ ॥

उद्दीपितमणिस्फूर्जन्नूपुरध्वनिनादितः ।
चलत्तोयप्रवाहाढ्यनदीजलकणाकुलः ॥ १२० ॥

भ्रमत्कुञ्जरसङ्घातवन्दिताङ्घ्रिसरोरुहः ।
ब्रह्माच्युतमहारुद्रपुरःसरसुरार्चितः ॥ १२१ ॥

अशेषशेषप्रभृतिव्यालजालोपसेवितः ।
गूर्जत्पञ्चाननारावप्राप्ताकाशधरातलः ॥ १२२ ॥

हाहाहूहूकृतात्युग्रसुरविभ्रान्तमानसः ।
पञ्चाशद्वर्णबीजाढ्यमन्त्रमन्त्रितविग्रहः ॥ १२३ ॥

वेदान्तशास्त्रपीयूषधाराप्लावितभूतलः ।
शङ्खध्वनिसमाक्रान्तपातालादिनभस्तलः ॥ १२४ ॥

चिन्तामणिर्महामल्लो भल्लहस्तो बलिः कलिः ।
कृतत्रेतायुगोल्लासभासमानजगत्त्रयः ॥ १२५ ॥

द्वापरः परलोकैककर्मध्वान्तसुधाकरः ।
सुधासिक्तवपुर्व्याप्तब्रह्माण्डादिकटाहकः ॥ १२६ ॥

अकारादिक्षकारान्तवर्णपङ्क्तिसमुज्ज्वलः ।
अकाराकारप्रोद्गीततारनादनिनादितः ॥ १२७ ॥

इकारेकारमन्त्राढ्यमालाभ्रमणलालसः ।
उकारोकारप्रोद्गारिघोरनागोपवीतकः ॥ १२८ ॥

ऋवर्णाङ्कितॠकारपद्मद्वयसमुज्ज्वलः ।
लृकारयुतलॄकारशङ्खपूर्णदिगन्तरः ॥ १२९ ॥

एकारैकारगिरिजास्तनपानविचक्षणः ।
ओकारौकारविश्वादिकृतसृष्टिक्रमालसः ॥ १३० ॥

अंअःवर्णावलीव्याप्तपादादिशीर्षमण्डलः ।
कर्णतालकृतात्युच्चैर्वायुवीजितनिर्जरः ॥ १३१ ॥

खगेशध्वजरत्नाङ्ककिरीटारुणपादकः ।
गर्विताशेषगन्धर्वगीततत्परश्रोत्रकः ॥ १३२ ॥

घनवाहनवागीशपुरःसरसुरार्चितः ।
ङवर्णामृतधाराढ्यशोभमानैकदन्तकः ॥ १३३ ॥

चन्द्रकुङ्कुमजम्बाललिप्तसुन्दरविग्रहः ।
छत्रचामररत्नाढ्यमुकुटालङ्कृताननः ॥ १३४ ॥

जटाबद्धमहानर्घमणिपङ्क्तिविराजितः ।
झाङ्कारिमधुपव्रातगाननादनिनादितः ॥ १३५ ॥

ञवर्णकृतसंहारदैत्यासृक्पूर्णमुद्गरः ।
टङ्कारुकफलास्वादवेपिताशेषमूर्धजः ॥ १३६ ॥

ठकाराढ्यडकाराङ्कढकारानन्दतोषितः ।
णवर्णामृतपीयूषधाराधरसुधाधरः ॥ १३७ ॥

ताम्रसिन्दूरपुञ्जाढ्यललाटफलकच्छविः ।
थकारधनपङ्क्त्याढ्यसन्तोषितद्विजव्रजः ॥ १८ ॥

दयामयहृदम्भोजधृतत्रैलोक्यमण्डलः ।
धनदादिमहायक्षसंसेवितपदाम्बुजः ॥ १३९ ॥

नमिताशेषदेवौघकिरीटमणिरञ्जितः ।
परवर्गापवर्गादिमार्गच्छेदनदक्षकः ॥ १४० ॥

फणिचक्रसमाक्रान्तगलमण्डलमण्डितः ।
बद्धभ्रूयुगभीमोग्रसन्तर्जितसुरासुरः ॥ १४१ ॥

भवानीहृदयानन्दवर्धनैकनिशाकरः ।
मदिराकलशस्फीतकरालैककराम्बुजः ॥ १४२ ॥

यज्ञान्तरायसङ्घातघातसज्जीकृतायुधः ।
रत्नाकरसुताकान्तकान्तिकीर्तिविवर्धनः ॥ १४३ ॥

लम्बोदरमहाभीमवपुर्दीनीकृतासुरः ।
वरुणादिदिगीशानरचितार्चनचर्चितः ॥ १४४ ॥

शङ्करैकप्रियप्रेमनयनानन्दवर्धनः ।
षोडशस्वरितालापगीतगानविचक्षणः ॥ १४५ ॥

समस्तदुर्गतिसरिन्नाथोत्तारणकोडुपः ।
हरादिब्रह्मवैकुण्ठब्रह्मगीतादिपाठकः ॥ १४६ ॥

क्षमापूरितहृत्पद्मसंरक्षितचराचरः ।
ताराङ्कमन्त्रवर्णैकविग्रहोज्ज्वलविग्रहः ॥ १४७ ॥

अकारादिक्षकारान्तविद्याभूषितविग्रहः ।
ॐश्रींविनायको ॐह्रींविघ्नाध्यक्षो गणाधिपः ॥ १४८ ॥

हेरम्बो मोदकाहारो वक्त्रतुण्डो विधिस्मृतः ।
वेदान्तगीतो विद्यार्थी शुद्धमन्त्रः षडक्षरः ॥ १४९ ॥

गणेशो वरदो देवो द्वादशाक्षरमन्त्रितः ।
सप्तकोटिमहामन्त्रमन्त्रिताशेषविग्रहः ॥ १५० ॥

गाङ्गेयो गणसेव्यश्च ॐश्रीन्द्वैमातुरः शिवः ।
ॐह्रींश्रींक्लींग्लौंगंदेवो महागणपतिः प्रभुः (१०००) ॥ १५१ ॥

इदं नाम्नां सहस्रं ते महागणपतेः स्मृतम् ।
गुह्यं गोप्यतमं गुप्तं सर्वतन्त्रेषु गोपितम् ॥ १५२ ॥

सर्वमन्त्रनिधिं दिव्यं सर्वविघ्नविनाशनम् ।
ग्रहतारामयं राशिवर्णपङ्क्तिसमन्वितम् ॥ १५३ ॥

सर्वविद्यामयं ब्रह्मसाधनं साधकप्रियम् ।
गणेशस्य च सर्वस्वं रहस्यं त्रिदिवौकसाम् ॥ १५४ ॥

यथेष्टफलदं लोके मनोरथप्रपूरणम् ।
अष्टसिद्धिमयं साध्यं साधकानां जयप्रदम् ॥ १५५ ॥

विनार्चनं विना होमं विना न्यासं विना जपम् ।
अणिमाद्यष्टसिद्धीनां साधनं स्मृतिमात्रतः ॥ १५६ ॥

चतुर्थ्यामर्धरात्रे तु पठेन्मन्त्री चतुष्पथे ।
लिखेद्भूर्जे रवौ देवि पुण्यं नाम्नां सहस्रकम् ॥ १५७ ॥

धारयेत्तु चतुर्दश्यां मध्याह्ने मूर्ध्नि वा भुजे ।
योषिद्वामकरे बद्ध्वा पुरुषो दक्षिणे भुजे ॥ १५८ ॥

स्तम्भयेदपि ब्रह्माणं मोहयेदपि शङ्करम् ।
वशयेदपि त्रैलोक्यं मारयेदखिलान् रिपून् ॥ १५९ ॥

उच्चाटयेच्च गीर्वाणान् शमयेच्च धनञ्जयम् ।
वन्ध्या पुत्रांल्लभेच्छीघ्रं निर्धनो धनमाप्नुयात् ॥ १६० ॥

त्रिवारं यः पठेद्रात्रौ गणेशस्य पुरः शिवे ।
नग्नः शक्तियुतो देवि भुक्त्वा भोगान् यथेप्सितान् ॥ १६१ ॥

प्रत्यक्षं वरदं पश्येद्गणेशं साधकोत्तमः ।
य एनं पठते नाम्नां सहस्रं भक्तिपूर्वकम् ॥ १६२ ॥

तस्य वित्तादिविभवो दारायुःसम्पदः सदा ।
रणे राजभये द्यूते पठेन्नाम्नां सहस्रकम् ॥ १६३ ॥

सर्वत्र जयमाप्नोति गणेशस्य प्रसादतः ।
इतीदं पुण्यसर्वस्वं मन्त्रनामसहस्रकम् ॥ १६४ ॥

महागणपतेर्गुह्यं गोपनीयं स्वयोनिवत् ।

॥ इति श्रीरुद्रयामले तन्त्रे श्रीदेवीरहस्ये
महागणपतिसहस्रनामस्तोत्रं सम्पूर्णम् ॥

Also Read 1000 Names of Varada Ganesha:

1000 Names of Sri Mahaganapati | Sahasranama 2 Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Mahaganapati | Sahasranama Stotram 2 Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top