Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Kumari | Sahasranama Stotram Lyrics in Hindi

Shri Kumari Sahasranama Stotram Lyrics in Hindi:

॥ श्रीकुमारीसहस्रनामस्तोत्रम् ॥

आनन्दभैरव उवाच
वद कान्ते सदानन्दस्वरूपानन्दवल्लभे ।
कुमार्या देवतामुख्याः परमानन्दवर्धनम् ॥ १ ॥

अष्टोत्तरसहस्राख्यं नाम मङ्गलमद्भुतम् ।
यदि मे वर्तते विद्ये यदि स्नेहकलामला ॥ २ ॥

तदा वदस्व कौमारीकृतकर्मफलप्रदम् ।
महास्तोत्रं कोटिकोटि कन्यादानफलं भवेत् ॥ ३ ॥

आनन्दभैरवी उवाच
महापुण्यप्रदं नाथ श‍ृणु सर्वेश्वरप्रिय ।
अष्टोत्तरसहस्राख्यं कुमार्याः परमाद्भुतम् ॥ ४ ॥

पठित्त्वा धारयित्त्वा वा नरो मुच्येत सङ्कटात् ।
सर्वत्र दुर्लभं धन्यं धन्यलोकनिषेवितम् ॥ ५ ॥

अणिमाद्यष्टसिद्ध्यङ्गं सर्वानन्दकरं परम् ।
मायामन्त्रनिरस्ताङ्गं मन्त्रसिद्धिप्रदे नृणाम् ॥ ६ ॥

न पूजा न जपं स्नानं पुरश्चर्याविधिश्च न ।
अकस्मात् सिद्धिमवाप्नोति सहस्रनामपाठतः ॥ ७ ॥

सर्वयज्ञफलं नाथ प्राप्नोति साधकः क्षणात् ।
मन्त्रार्थं मन्त्रचैतन्यं योनिमुद्रास्वरूपकम् ॥ ८ ॥

कोटिवर्षशतेनापि फलं वक्तुं न शक्यते ।
तथापि वक्तुमिच्छामि हिताय जगतां प्रभो ॥ ९ ॥

अस्याः श्रीकुमार्याः सहस्रनामकवचस्य
वटुकभैरवऋषिः । अनुष्टुप्छन्दः । कुमारीदेवता ।
सर्वमन्त्रसिद्धिसमृद्धये विनियोगः ॥ १० ॥

ॐ कुमारी कौशिकी काली कुरुकुल्ला कुलेश्वरी ।
कनकाभा काञ्चनाभा कमला कालकामिनी ॥ ११ ॥

कपालिनी कालरूपा कौमारी कुलपालिका ।
कान्ता कुमारकान्ता च कारणा करिगामिनी ॥ १२ ॥

कन्धकान्ता कौलकान्ता कृतकर्मफलप्रदा ।
कार्याकार्यप्रिया कक्षा कंसहन्त्री कुरुक्षया ॥ १३ ॥

कृष्णकान्ता कालरात्रिः कर्णेषुधारिणीकरा ।
कामहा कपिला काला कालिका कुरुकामिनी ॥ १४ ॥

कुरुक्षेत्रप्रिया कौला कुन्ती कामातुरा कचा ।
कलञ्जभक्षा कैकेयी काकपुच्छध्वजा कला ॥ १५ ॥

कमला कामलक्ष्मी च कमलाननकामिनी ।
कामधेनुस्वरूपा च कामहा काममदीनी ॥ १६ ॥

कामदा कामपूज्या च कामातीता कलावती ।
भैरवी कारणाढ्या च कैशोरी कुशलाङ्गला ॥ १७ ॥

कम्बुग्रीवा कृष्णनिभा कामराजप्रियाकृतिः ।
कङ्कणालङ्कृता कङ्का केवला काकिनी किरा ॥ १८ ॥

किरातिनी काकभक्षा करालवदना कृशा ।
केशिनी केशिहा केशा कासाम्बष्ठा करिप्रिया ॥ १९ ॥

कविनाथस्वरूपा च कटुवाणी कटुस्थिता ।
कोटरा कोटराक्षी च करनाटकवासिनी ॥ २० ॥

कटकस्था काष्ठसंस्था कन्दर्पा केतकी प्रिया ।
केलिप्रिया कम्बलस्था कालदैत्यविनाशिनी ॥ २१ ॥

केतकीपुष्पशोभाढ्या कर्पूरपूर्णजिह्विका ।
कर्पूराकरकाकोला कैलासगिरिवासिनी ॥ २२ ॥

कुशासनस्था कादम्बा कुञ्जरेशी कुलानना ।
खर्बा खड्गधरा खड्गा खलहा खलबुद्धिदा ॥ २३ ॥

खञ्जना खररूपा च क्षाराम्लतिक्तमध्यगा ।
खेलना खेटककरा खरवाक्या खरोत्कटा ॥ २४ ॥

खद्योतचञ्चला खेला खद्योता खगवाहिनी ।
खेटकस्था खलाखस्था खेचरी खेचरप्रिया ॥ २५ ॥

खचरा खरप्रेमा खलाढ्या खचरानना ।
खेचरेशी खरोग्रा च खेचरप्रियभाषिणी ॥ २६ ॥

खर्जूरासवसंमत्ता खर्जूरफलभोगिनी ।
खातमध्यस्थिता खाता खाताम्बुपरिपूरिणी ॥ २७ ॥

ख्यातिः ख्यातजलानन्दा खुलना खञ्जनागतिः ।
खल्वा खलतरा खारी खरोद्वेगनिकृन्तनी ॥ २८ ॥

गगनस्था च भीता च गभीरनादिनी गया ।
गङ्गा गभीरा गौरी च गणनाथ प्रिया गतिः ॥ २९ ॥

गुरुभक्ता ग्वालिहीना गेहिनी गोपिनी गिरा ।
गोगणस्था गाणपत्या गिरिजा गिरिपूजिता ॥ ३० ॥

गिरिकान्ता गणस्था च गिरिकन्या गणेश्वरी ।
गाधिराजसुता ग्रीवा गुर्वी गुर्व्यम्बशाङ्करी ॥ ३१ ॥

गन्धर्व्वकामिनी गीता गायत्री गुणदा गुणा ।
गुग्गुलुस्था गुरोः पूज्या गीतानन्दप्रकाशिनी ॥ ३२ ॥

गयासुरप्रियागेहा गवाक्षजालमध्यगा ।
गुरुकन्या गुरोः पत्नी गहना गुरुनागिनी ॥ ३३ ॥

गुल्फवायुस्थिता गुल्फा गर्द्दभा गर्द्दभप्रिया ।
गुह्या गुह्यगणस्था च गरिमा गौरिका गुदा ॥ ३४ ॥

गुदोर्ध्वस्था च गलिता गणिका गोलका गला ।
गान्धर्वी गाननगरी गन्धर्वगणपूजिता ॥ ३५ ॥

घोरनादा घोरमुखी घोरा घर्मनिवारिणी ।
घनदा घनवर्णा च घनवाहनवाहना ॥ ३६ ॥

घर्घरध्वनिचपला घटाघटपटाघटा ।
घटिता घटना घोना घनरुप घनेश्वरी ॥ ३७ ॥

घुण्यातीता घर्घरा च घोराननविमोहिनी ।
घोरनेत्रा घनरुचा घोरभैरव कन्यका ॥ ३८ ॥

घाताघातकहा घात्या घ्राणाघ्राणेशवायवी ।
घोरान्धकारसंस्था च घसना घस्वरा घरा ॥ ३९ ॥

घोटकेस्था घोटका च घोटकेश्वरवाहना ।
घननीलमणिश्यामा घर्घरेश्वरकामिनी ॥ ४० ॥

ङकारकूटसम्पन्ना ङकारचक्रगामिनी ।
ङकारी ङसंशा चैव ङीपनीता ङकारिणी ॥ ४१ ॥

चन्द्रमण्डलमध्यस्था चतुरा चारुहासिनी ।
चारुचन्द्रमुखी चैव चलङ्गमगतिप्रिया ॥ ४२ ॥

चञ्चला चपला चण्डी चेकिताना चरुस्थिता ।
चलिता चानना चार्व्वो चारुभ्रमरनादिनी ॥ ४३ ॥

चौरहा चन्द्रनिलया चैन्द्री चन्द्रपुरस्थिता ।
चक्रकौला चक्ररूपा चक्रस्था चक्रसिद्धिदा ॥ ४४ ॥

चक्रिणी चक्रहस्ता च चक्रनाथकुलप्रिया ।
चक्राभेद्या चक्रकुला चक्रमण्डलशोभिता ॥ ४५ ॥

चक्रेश्वरप्रिया चेला चेलाजिनकुशोत्तरा ।
चतुर्वेदस्थिता चण्डा चन्द्रकोटिसुशीतला ॥ ४६ ॥

चतुर्गुणा चन्द्रवर्णा चातुरी चतुरप्रिया ।
चक्षुःस्था चक्षुवसतिश्चणका चणकप्रिया ॥ ४७ ॥

चार्व्वङ्गी चन्द्रनिलया चलदम्बुजलोचना ।
चर्व्वरीशा चारुमुखी चारुदन्ता चरस्थिता ॥ ४८ ॥

चसकस्थासवा चेता चेतःस्था चैत्रपूजिता ।
चाक्षुषी चन्द्रमलिनी चन्द्रहासमणिप्रभा ॥ ४९ ॥

छलस्था छुद्ररूपा च छत्रच्छायाछलस्थिता ।
छलज्ञा छेश्वराछाया छाया छिन्नशिवा छला ॥ ५० ॥

छत्राचामरशोभाढ्या छत्रिणां छत्रधारिणी ।
छिन्नातीता छिन्नमस्ता छिन्नकेशा छलोद्भवा ॥ ५१ ॥

छलहा छलदा छाया छन्ना छन्नजनप्रिया ।
छलछिन्ना छद्मवती छद्मसद्मनिवासिनी ॥ ५२ ॥

छद्मगन्धा छदाछन्ना छद्मवेशी छकारिका ।
छगला रक्तभक्षा च छगलामोदरक्तपा ॥ ५३ ॥

छगलण्डेशकन्या च छगलण्डकुमारिका ।
छुरिका छुरिककरा छुरिकारिनिवाशिनी ॥ ५४ ॥

छिन्ननाशा छिन्नहस्ता छोणलोला छलोदरी ।
छलोद्वेगा छाङ्गबीजमाला छाङ्गवरप्रदा ॥ ५५ ॥

जटिला जठरश्रीदा जरा जज्ञप्रिया जया ।
जन्त्रस्था जीवहा जीवा जयदा जीवयोगदा ॥ ५६ ॥

जयिनी जामलस्था च जामलोद्भवनायिका ।
जामलप्रियकन्या च जामलेशी जवाप्रिया ॥ ५७ ॥

जवाकोटिसमप्रख्या जवापुष्पप्रिया जना ।
जलस्था जगविषया जरातीता जलस्थिता ॥ ५८ ॥

जीवहा जीवकन्या च जनार्द्दनकुमारिका ।
जतुका जलपूज्या च जगन्नाथादिकामिनी ॥ ५९ ॥

जीर्णाङ्गी जीर्णहीना च जीमूतात्त्यन्तशोभिता ।
जामदा जमदा जृम्भा जृम्भणास्त्रादिधारिणी ॥ ६० ॥

जघन्या जारजा प्रीता जगदानन्दवद्धीनी ।
जमलार्जुनदर्पघ्नी जमलार्जुनभञ्जिनी ॥ ६१ ॥

जयित्रीजगदानन्दा जामलोल्लाससिद्धिदा ।
जपमाला जाप्यसिद्धिर्जपयज्ञप्रकाशिनी ॥ ६२ ॥

जाम्बुवती जाम्बवतः कन्यकाजनवाजपा ।
जवाहन्त्री जगद्बुद्धिर्ज्जगत्कर्तृ जगद्गतिः ॥ ६३ ॥

जननी जीवनी जाया जगन्माता जनेश्वरी ।
झङ्कला झङ्कमध्यस्था झणत्कारस्वरूपिणी ॥ ६४ ॥

झणत्झणद्वह्निरूपा झननाझन्दरीश्वरी ।
झटिताक्षा झरा झञ्झा झर्झरा झरकन्यका ॥ ६५ ॥

झणत्कारी झना झन्ना झकारमालयावृता ।
झङ्करी झर्झरी झल्ली झल्वेश्वरनिवासिनी ॥ ६६ ॥

ञकारी ञकिराती च ञकारबीजमालिनी ।
ञनयोऽन्ता ञकारान्ता ञकारपरमेश्वरी ॥ ६७ ॥

ञान्तबीजपुटाकारा ञेकले ञैकगामिनी ।
ञैकनेला ञस्वरूपा ञहारा ञहरीतकी ॥ ६८ ॥

टुण्टुनी टङ्कहस्ता च टान्तवर्गा टलावती ।
टपला टापबालाख्या टङ्कारध्वनिरूपिणी ॥ ६९ ॥

टलाती टाक्षरातीता टित्कारादिकुमारिका ।
टङ्कास्त्रधारिणी टाना टमोटार्णलभाषिणी ॥ ७० ॥

टङ्कारी विधना टाका टकाटकविमोहिनी ।
टङ्कारधरनामाहा टिवीखेचरनादिनी ॥ ७१ ॥

ठठङ्कारी ठाठरूपा ठकारबीजकारणा ।
डमरूप्रियवाद्या च डामरस्था डबीजिका ॥ ७२ ॥

डान्तवर्गा डमरुका डरस्था डोरडामरा ।
डगरार्द्धा डलातीता डदारुकेश्वरी डुता ॥ ७३ ॥

ढार्द्धनारीश्वरा ढामा ढक्कारी ढलना ढला ।
ढकेस्था ढेश्वरसुता ढेमनाभावढोनना ॥ ७४ ॥

णोमाकान्तेश्वरी णान्तवर्गस्था णतुनावती ।
णनो माणाङ्ककल्याणी णाक्षवीणाक्षबीजिका ॥ ७५ ॥

तुलसीतन्तुसूक्ष्माख्या तारल्या तैलगन्धिका ।
तपस्या तापससुता तारिणी तरुणी तला ॥ ७६ ॥

तन्त्रस्था तारकब्रह्मस्वरूपा तन्तुमध्यगा ।
तालभक्षत्रिधामूत्तीस्तारका तैलभक्षिका ॥ ७७ ॥

तारोग्रा तालमाला च तकरा तिन्तिडीप्रिया ।
तपसः तालसन्दर्भा तर्जयन्ती कुमारिका ॥ ७८ ॥

तोकाचारा तलोद्वेगा तक्षका तक्षकप्रिया ।
तक्षकालङ्कृता तोषा तावद्रूपा तलप्रिया ॥ ७९ ॥

तलास्त्रधारिणी तापा तपसां फलदायिनी ।
तल्वल्वप्रहरालीता तलारिगणनाशिनी ॥ ८० ॥

तूला तौली तोलका च तलस्था तलपालिका
तरुणा तप्तबुद्धिस्थास्तप्ता प्रधारिणी तपा ॥ ८१ ॥

तन्त्रप्रकाशकरणी तन्त्रार्थदायिनी तथा ।
तुषारकिरणाङ्गी च चतुर्धा वा समप्रभा ॥ ८२ ॥

तैलमार्गाभिसूता च तन्त्रसिद्धिफलप्रदा ।
ताम्रपर्णा ताम्रकेशा ताम्रपात्रप्रियातमा ॥ ८३ ॥

तमोगुणप्रिया तोला तक्षकारिनिवारिणी ।
तोषयुक्ता तमायाची तमषोढेश्वरप्रिया ॥ ८४ ॥

तुलना तुल्यरुचिरा तुल्यबुद्धिस्त्रिधा मतिः ।
तक्रभक्षा तालसिद्धिः तत्रस्थास्तत्र गामिनी ॥ ८५ ॥

तलया तैलभा ताली तन्त्रगोपनतत्परा ।
तन्त्रमन्त्रप्रकाशा च त्रिशरेणुस्वरूपिणी ॥ ८६ ॥

त्रिंशदर्थप्रिया तुष्टा तुष्टिस्तुष्टजनप्रिया ।
थकारकूटदण्डीशा थदण्डीशप्रियाऽथवा ॥ ८७ ॥

थकाराक्षररूढाङ्गी थान्तवर्गाथ कारिका ।
थान्ता थमीश्वरी थाका थकारबीजमालिनी ॥ ८८ ॥

दक्षदामप्रिया दोषा दोषजालवनाश्रिता ।
दशा दशनघोरा च देवीदासप्रिया दया ॥ ८९ ॥

दैत्यहन्त्रीपरा दैत्या दैत्यानां मद्दीनी दिशा ।
दान्ता दान्तप्रिया दासा दामना दीर्घकेशिका ॥ ९० ॥

दशना रक्तवर्णा च दरीग्रहनिवासिनी
देवमाता च दुर्लभा च दीर्घाङ्गा दासकन्यका ॥ ९१ ॥

दशनश्री दीर्घनेत्रा दीर्घनासा च दोषहा ।
दमयन्ती दलस्था च द्वेष्यहन्त्री दशस्थिता ॥ ९२ ॥

दैशेषिका दिशिगता दशनास्त्रविनाशिनी
दारिद्र्यहा दरिद्रस्था दरिद्रधनदायिनी ॥ ९३ ॥

दन्तुरा देशभाषा च देशस्था देशनायिका ।
द्वेषरूपा द्वेषहन्त्री द्वेषारिगणमोहिनी ॥ ९४ ॥

दामोदरस्थाननादा दलानां बलदायिनी ।
दिग्दर्शना दर्शनस्था दर्शनप्रियवादिनी ॥ ९५ ॥

दामोदरप्रिया दान्ता दामोदरकलेवरा ।
द्राविणी द्रविणी दक्षा दक्षकन्या दलदृढा ॥ ९६ ॥

दृढासनादासशक्तिर्द्वन्द्वयुद्धप्रकाशिनी ।
दधिप्रिया दधिस्था च दधिमङ्गलकारिणी ॥ ९७ ॥

दर्पहा दर्पदा दृप्ता दर्भपुण्यप्रिया दधिः ।
दर्भस्था द्रुपदसुता द्रौपदी द्रुपदप्रिया ॥ ९८ ॥

धर्मचिन्ता धनाध्यक्षा धश्वेश्वरवरप्रदा ।
धनहा धनदा धन्वी धनुर्हस्ता धनुःप्रिया ॥ ९९ ॥

धरणी धैर्यरूपा च धनस्था धनमोहिनी ।
धोरा धीरप्रियाधारा धराधारणतत्परा ॥ १०० ॥

धान्यदा धान्यबीजा च धर्माधर्मस्वरूपिणी ।
धाराधरस्था धन्या च धर्मपुञ्जनिवासिनी ॥ १०१ ॥

धनाढ्यप्रियकन्या च धन्यलोकैश्च सेविता ।
धर्मार्थकाममोक्षाङ्गी धर्मार्थकाममोक्षदा ॥ १०२ ॥

धराधरा धुरोणा च धवला धवलामुखी ।
धरा च धामरूपा च ध्रुवा ध्रौव्या ध्रुवप्रिया ॥ १०३ ॥

धनेशी धारणाख्या च धर्मनिन्दाविनाशिनी ।
धर्मतेजोमयी धर्म्या धैर्याग्रभर्गमोहिनी ॥ १०४ ॥

धारणा धौतवसना धत्तूरफलभोगिनी ।
नारायणी नरेन्द्रस्था नारायणकलेवरा ॥ १०५ ॥

नरनारायणप्रीता धर्मनिन्दा नमोहिता ।
नित्या नापितकन्या च नयनस्था नरप्रिया ॥ १०६ ॥

नाम्नी नामप्रिया नारा नारायणसुता नरा ।
नवीननायकप्रीता नव्या नवफलप्रिया ॥ १०७ ॥

नवीनकुसुमप्रीता नवीनानां ध्वजानुता ।
नारी निम्बस्थितानन्दानन्दिनी नन्दकारिका ॥ १०८ ॥

नवपुष्पमहाप्रीता नवपुष्पसुगन्धिका ।
नन्दनस्था नन्दकन्या नन्दमोक्षप्रदायिनी ॥ १०९ ॥

नमिता नामभेदा च नाम्नार्त्तवनमोहिनी ।
नवबुद्धिप्रियानेका नाकस्था नामकन्यका ॥ ११० ॥

निन्दाहीना नवोल्लासा नाकस्थानप्रदायिनी ।
निम्बवृक्षस्थिता निम्बा नानावृक्षनिवासिनी ॥ १११ ॥

नाश्यातीता नीलवर्णा नीलवर्णा सरस्वती ।
नभःस्था नायकप्रीता नायकप्रियकामिनी ॥ ११२ ॥

नैववर्णा निराहारा निवीहाणां रजःप्रिया ।
निम्ननाभिप्रियाकारा नरेन्द्रहस्तपूजिता ॥ ११३ ॥

नलस्थिता नलप्रीता नलराजकुमारिका ।
परेश्वरी परानन्दा परापरविभेदिका ॥ ११४ ॥

परमा परचक्रस्था पार्वती पर्वतप्रिया ।
पारमेशी पर्वनाना पुष्पमाल्यप्रिया परा ॥ ११५ ॥

परा प्रिया प्रीतिदात्री प्रीतिः प्रथमकामिनी ।
प्रथमा प्रथमा प्रीता पुष्पगन्धप्रिया परा ॥ ११६ ॥

पौष्यी पानरता पीना पीनस्तनसुशोभना ।
परमानरता पुंसां पाशहस्ता पशुप्रिया ॥ ११७ ॥

पललानन्दरसिका पलालधूमरूपिणी ।
पलाशपुष्पसङ्काशा पलाशपुष्पमालिनी ॥ ११८ ॥

प्रेमभूता पद्ममुखी पद्मरागसुमालिनी ।
पद्ममाला पापहरा पतिप्रेमविलासिनी ॥ ११९ ॥

पञ्चाननमनोहारी पञ्चवक्त्रप्रकाशिनी ।
फलमूलाशना फाली फलदा फाल्गुनप्रिया ॥ १२० ॥

फलनाथप्रिया फल्ली फल्गुकन्या फलोन्मुखी ।
फेत्कारीतन्त्रमुख्या च फेत्कारगणपूजिता ॥ १२१ ॥

फेरवी फेरवसुता फलभोगोद्भवा फला ।
फलप्रिया फलाशक्ता फाल्गुनानन्ददायिनी ॥ १२२ ॥

फालभोगोत्तरा फेला फुलाम्भोजनिवासिनी ।
वसुदेवगृहस्था च वासवी वीरपूजिता ॥ १२३ ॥

विषभक्षा बुधसुता ब्लुङ्कारी ब्लूवरप्रदा ।
ब्राह्मी बृहस्पतिसुता वाचस्पतिवरप्रदा ॥ १२४ ॥

वेदाचारा वेद्यपरा व्यासवक्त्रस्थिता विभा ।
बोधज्ञा वौषडाख्या च वंशीवंदनपूजिता ॥ १२५ ॥

वज्रकान्ता वज्रगतिर्बदरीवंशविवद्धीनी ।
भारती भवरश्रीदा भवपत्नी भवात्मजा ॥ १२६ ॥

भवानी भाविनी भीमा भिषग्भार्या तुरिस्थिता ।
भूर्भुवःस्वःस्वरूपा च भृशार्त्ता भेकनादिनी ॥ १२७ ॥

भौती भङ्गप्रिया भङ्गभङ्गहा भङ्गहारिणी ।
भर्ता भगवती भाग्या भगीरथनमस्कृता ॥ १२८ ॥

भगमाला भूतनाथेश्वरी भार्गवपूजिता ।
भृगुवंशा भीतिहरा भूमिर्भुजगहारिणी ॥ १२९ ॥

भालचन्द्राभभल्वबाला भवभूतिवीभूतिदा ।
मकरस्था मत्तगतिर्मदमत्ता मदप्रिया ॥ १३० ॥

मदिराष्टादशभुजा मदिरा मत्तगामिनी ।
मदिरासिद्धिदा मध्या मदान्तर्गतिसिद्धिदा ॥ १३१ ॥

मीनभक्षा मीनरूपा मुद्रामुद्गप्रिया गतिः ।
मुषला मुक्तिदा मूर्त्ता मूकीकरणतत्परा ॥ १३२ ॥

मृषार्त्ता मृगतृष्णा च मेषभक्षणतत्परा ।
मैथुनानन्दसिद्धिश्च मैथुनानलसिद्धिदा ॥ १३३ ॥

महालक्ष्मीर्भैरवी च महेन्द्रपीठनायिका ।
मनःस्था माधवीमुख्या महादेवमनोरमा ॥ १३४ ॥

यशोदा याचना यास्या यमराजप्रिया यमा ।
यशोराशिविभूषाङ्गी यतिप्रेमकलावती ॥ १३५ ॥

रमणी रामपत्नी च रिपुहा रीतिमध्यगा ।
रुद्राणी रूपदा रूपा रूपसुन्दरधारिणी ॥ १३६ ॥

रेतःस्था रेतसः प्रीता रेतःस्थाननिवासिनी ।
रेन्द्रादेवसुतारेदा रिपुवर्गान्तकप्रिया ॥ १३७ ॥

रोमावलीन्द्रजननी रोमकूपजगत्पतिः ।
रौप्यवर्णा रौद्रवर्णा रौप्यालङ्कारभूषणा ॥ १३८ ॥

रङ्गिणा रङ्गरागस्था रणवह्निकुलेश्वरी ।
लक्ष्मीः लाङ्गलहस्ता च लाङ्गली कुलकामिनी ॥ १३९ ॥

लिपिरूपा लीढपादा लतातन्तुस्वरूपिणी ।
लिम्पती लेलिहा लोला लोमशप्रियसिद्धिदा ॥ १४० ॥

लौकिकी लौकिकीसिद्धिर्लङ्कानाथकुमारिका ।
लक्ष्मणा लक्ष्मीहीना च लप्रिया लार्णमध्यगा ॥ १४१ ॥

विवसा वसनावेशा विवस्यकुलकन्यका ।
वातस्था वातरूपा च वेलमध्यनिवासिनी ॥ १४२ ॥

श्मशानभूमिमध्यस्था श्मशानसाधनप्रिया ।
शवस्था परसिद्ध्यर्थी शववक्षसि शोभिता ॥ १४३ ॥

शरणागतपाल्या च शिवकन्या शिवप्रिया ।
षट्चक्रभेदिनी षोढा न्यासजालदृढानना ॥ १४४ ॥

सन्ध्यासरस्वती सुन्द्या सूर्यगा शारदा सती ।
हरिप्रिया हरहालालावण्यस्था क्षमा क्षुधा ॥ १४५ ॥

क्षेत्रज्ञा सिद्धिदात्री च अम्बिका चापराजिता ।
आद्या इन्द्रप्रिया ईशा उमा ऊढा ऋतुप्रिया ॥ १४६ ॥

सुतुण्डा स्वरबीजान्ता हरिवेशादिसिद्धिदा ।
एकादशीव्रतस्था च एन्द्री ओषधिसिद्धिदा ॥ १४७ ॥

औपकारी अंशरूपा अस्त्रबीजप्रकाशिनी ।
इत्येतत् कामुकीनाथ कुमारीणां सुमङ्गलम् ॥ १४८ ॥

त्रैलोक्यफलदं नित्यमष्टोत्तरसहस्रकम् ।
महास्तोत्रं धर्मसारं धनधान्यसुतप्रदम् ॥ १४९ ॥

सर्वविद्याफलोल्लासं भक्तिमान् यः पठेत् सुधीः ।
स सर्वदा दिवारात्रौ स भवेन्मुक्तिमार्गगः ॥ १५० ॥

सर्वत्र जयमाप्नोति वीराणां वल्लभो लभेत् ।
सर्वे देवा वशं यान्ति वशीभूताश्च मानवाः ॥ १५१ ॥

ब्रह्माण्डे ये च शंसन्ति ते तुष्टा नात्र संशयः ।
ये वशन्ति च भूर्लोके देवतुल्यपराक्रमाः ॥ १५२ ॥

ते सर्वे भृत्यतुल्याश्च सत्यं सत्यं कुलेश्वर ।
अकस्मात् सिद्धिमाप्नोति होमेन यजनेन च ॥ १५३ ॥

जाप्येन कवचाद्येन महास्तोत्रार्थपाठतः ।
विना यज्ञैवीना दानैवीना जाप्यैर्लभेत् फलम् ॥ १५४ ॥

यः पठेत् स्तोत्रकं नाम चाष्टोत्तरसहस्रकम् ।
तस्य शान्तिर्भवेत् क्षिप्रं कन्यास्तोत्रं पठेत्ततः ॥ १५५ ॥

वारत्रयं प्रपाठेन राजानं वशमानयेत् ।
वारैकपठितो मन्त्री धर्मार्थकाममोक्षभाक् ॥ १५६ ॥

त्रिदिनं प्रपठेद्विद्वान् यदि पुत्रं समिच्छति ।
वारत्रयक्रमेणैव वारैकक्रमतोऽपि वा ॥ १५७ ॥

पठित्त्वा धनरत्नानामधिपः सर्ववित्तगः ।
त्रिजगन्मोहयेन्मन्त्री वत्सरार्द्धं प्रपाठतः ॥ १५८ ॥

वत्सरं वाप्य यदि वा भक्तिभावेन यः पठेत् ।
चिरजीवी खेचरत्त्वं प्राप्य योगी भवेन्नरः ॥ १५९ ॥

महादूरस्थितं वर्णं पश्यति स्थिरमानसः ।
महिलामण्डले स्थित्त्वा शक्तियुक्तः पठेत् सुधीः ॥ १६० ॥

स भवेत्साधकश्रेष्ठः क्षीरी कल्पद्रुमो भवेत् ।
सर्वदा यः पठेन्नाथ भावोद्गतकलेवरः ॥ १६१ ॥

दर्शनात् स्तम्भनं कर्त्तुं क्षमो भवति साधकः ।
जलादिस्तम्भने शक्तो वह्निस्तम्भादिसिद्धिभाक् ॥ १६२ ॥

वायुवेगी महावाग्मी वेदज्ञो भवति ध्रुवम् ।
कविनाथो महाविद्यो वन्धकः पण्डितो भवेत् ॥ १६३ ॥

सर्वदेशाधिपो भूत्त्वा देवीपुत्रः स्वयं भवेत् ।
कान्तिं श्रियं यशो वृद्धिं प्राप्नोति बलवान् यतिः ॥ १६४ ॥

अष्टसिद्धियुतो नाथ यः पठेदर्थसिद्धये ।
उज्जटेऽरण्यमध्ये च पर्वते घोरकानने ॥ १६५ ॥

वने वा प्रेतभूमौ च शवोपरि महारणे ।
ग्रामे भग्नगृहे वापि शून्यागारे नदीतटे ॥ १६६ ॥

गङ्गागर्भे महापीठे योनिपीठे गुरोर्गृहे ।
धान्यक्षेत्रे देवगृहे कन्यागारे कुलालये ॥ १६७ ॥

प्रान्तरे गोष्ठमध्ये वा राजादिभयहीनके ।
निर्भयादिस्वदेशेषु शिलिङ्गालयेऽथवा ॥ १६८ ॥

भूतगर्त्ते चैकलिङ्गै वा शून्यदेशे निराकुले ।
अश्वत्थमूले बिल्वे वा कुलवृक्षसमीपगे ॥ १६९ ॥

अन्येषु सिद्धदेशेषु कुलरूपाश्च साधकः ।
दिव्ये वा वीरभावस्थो यष्ट्वा कन्यां कुलाकुलै ॥ १७० ॥

कुलद्रव्यैश्च विविधैः सिद्धिद्रव्यैश्च साधकः ।
मांसासवेन जुहुयान्मुक्तेन रसेन च ॥ १७१ ॥

हुतशेषं कुलद्रव्यं ताभ्यो दद्यात् सुसिद्धये ।
तासामुच्छिष्टमानीय जुहुयाद् रक्तपङ्कजे ॥ १७२ ॥

घृणालज्जाविनिर्मुक्तः साधकः स्थिरमानसः ।
पिबेन्मांसरसं मन्त्री सदानन्दो महाबली ॥ १७३ ॥

महामांसाष्टकं ताभ्यो मदिराकुम्भपूरितम् ।
तारो माया रमावह्निजायामन्त्रं पठेत् सुधीः ॥ १७४ ॥

निवेद्य विधिनानेन पठित्त्वा स्तोत्रमङ्गलम् ।
स्वयं प्रसादं भुक्त्वा हि सर्वविद्याधिपो भवेत् ॥ १७५ ॥

शूकरस्योष्ट्र्मांसेन पीनमीनेन मुद्रया ।
महासवघटेनापि दत्त्वा पठति यो नरः ॥ १७६ ॥

ध्रुवं स सर्वगामी स्याद् विना होमेन पूजया ।
रुद्ररूपो भवेन्नित्यं महाकालात्मको भवेत् ॥ १७७ ॥

सर्वपुण्यफलं नाथ क्षणात् प्राप्नोति साधकः ।
क्षीराब्धिरत्नकोषेशो वियद्व्यापी च योगिराट् ॥ १७८ ॥

भक्त्याह्लादं दयासिन्धुं निष्कामत्त्वं लभेद् ध्रुवम् ।
महाशत्रुपातने च महाशत्रुभयाद्दीते ॥ १७९ ॥

वारैकपाठमात्रेण शत्रूणां वधमानयेत् ।
समर्दयेत् शत्रून् क्षिप्रमन्धकारं यथा रविः ॥ १८० ॥

उच्चाटने मारणे च भये घोरतरे रिपौ ।
पठनाद्धारणान्मर्त्त्यो देवा वा राक्षसादयः ॥ १८१ ॥

प्राप्नुवन्ति झटित् शान्तिं कुमारीनामपाठतः ।
पुरुषो दक्षिणे बाहौ नारी वामकरे तथा ॥ १८२ ॥

धृत्वा पुत्रादिसम्पत्तिं लभते नात्र संशयः ॥ १८३ ॥

ममाज्ञया मोक्षमुपैति साधको
गजान्तकं नाथ सहस्रनाम च ।
पठेन्मनुष्यो यहि भक्तिभावत-
स्तदा हि सर्वत्र फलोदयं लभेत् च ॥ १८४ ॥

मोक्षं सत्फलभोगिनां स्तववरं सारं परानन्ददं
ये नित्यं हि मुदा पठन्ति विफलं सार्थञ्च चिन्ताकुलाः
ते नित्याः प्रभवन्ति कीतीकमले श्रीरामतुल्यो जये
कन्दर्पायुततुल्यरूपगुणिनः क्रोधे च रुद्रोपमाः ॥ १८५ ॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने
कुमार्युपचर्याविन्यासे
सिद्धमन्त्र-प्रकरणे दिव्यभावनिर्णये
अष्टोत्तरसहस्रनाममङ्गलोल्लासे
दशमपटले श्रीकुमारीसहस्रनामस्तोत्रम् सम्पूर्णम् ॥

Also Read 1000 Names of Sri Kumari:

1000 Names of Sri Kumari | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Kumari | Sahasranama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top