Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Muthu Kumara Subrahmanya Murti | Sahasranama Stotram Lyrics in Hindi

Shri Muthukkumarasubrahmanyamurti Sahasranama Stotram Lyrics in Hindi:

॥ श्रीमुत्तुक्कुमारसुब्रह्मण्यमूर्तिसहस्रनामस्तोत्रम् ॥

श्रीवैद्येश्वरमन्दिरस्थित (कुम्भघोणनगरस्य निकटवर्ति (तमिळ् नाडु)
वैत्तीश्वरन् कोविल्) मुत्तुक्कुमारन् सुब्रह्मण्यमूर्तिसहस्रनामस्तोत्रम्
Sahasranama is on Lord Subrahmanya at Vaitheeswaran Koil.

॥ध्यानम् ॥

षड्वक्त्रं शिखिवाहनं त्रिनयनं वल्लीशसेनापतिं
वज्रं शक्तिमसिं त्रिशूलमभयं खेटं धनुश्चक्रकम् ।
पाशं कुक्कुटमङ्कुशं च वरदं दोर्भिर्दधानं शिवं
सुब्रह्मण्यमुपास्महे प्रणमतां भीतिप्रणाशोद्यतम् ॥

गाङ्गेयं वह्निबीजं शरवणजनितं ज्ञानशक्तिं कुमारं
ब्रह्माणं स्कन्ददेवं गुहमचलभिदं रौद्रतेजःस्वरूपम् ।
सेनान्यं तारकघ्नं गजमुखसहितं कार्तिकेयं षडास्यं
सुब्रह्मण्यं मयूरध्वजसहितमजं देवदेवं नमामि ॥

॥ॐ श्रीगणेशाय नमः ॥

अथ श्रीमुत्तुक्कुमारसुब्रह्मण्यमूर्तिसहस्रनामस्तोत्रम् ।

अनन्तश्चामलोऽनादिरमरोऽनन्तसद्गुणः ।
अच्युतश्चानघोऽनन्तस्वरूपो निष्कलद्युतिः ॥ १ ॥

अनन्तफलदोऽखण्डरूपोऽनन्तोदरोऽतुलः ।
आनुकूल्योऽनन्तसौख्यः सुन्दरश्चामराधिपः ॥ २ ॥ १०
षण्मातृनन्दनः स्वर्णभूषणः षण्मुखोऽमृतः ।
हरसूनुः पिता चाष्टादशार्णश्चादिदेशिकः ॥ ३ ॥

अगजाकुचपीयूषभोक्ताऽऽखण्डलार्तहृत् ।
अनेकासुरसंहारी तारकब्रह्मदेशिकः ॥ ४ ॥

सच्चिदानन्दरूपी च विधीन्द्रसुरवन्दितः ।
कुमारः शङ्करसुतः हारकेयूरभूषितः ॥ ५ ॥

षट्किरीटधरो ब्रह्मा आधारश्च परात्परः ।
आदित्यसोमभौमादिग्रहदोषविभञ्जनः ॥ ६ ॥

श्रीमान् शिवगिरीशश्च भक्तसंस्तुतवैभवः ।
अगस्त्यमुनिसम्बोद्धा अमरार्तिप्रभञ्जनः ॥ ७ ॥

मुकुन्दभागिनेयश्च द्विषण्णेत्रो द्विषड्भुजः ।
चन्द्रार्ककोटिसदृशः शचीमाङ्गल्यरक्षकः ॥ ८ ॥

हिमाचलसुतासूनुः सर्वजीवसुखप्रदः ।
आत्मज्योतिश्शक्तिपाणिर्भक्तसंरक्षणोद्यतः ॥ ९ ॥

चातुर्वर्ण्येष्टफलदः वल्लीशो दुःखनाशकः ।
सर्वमोक्षप्रदः पुण्यदृश्यो भक्तदयानिधिः ॥ १० ॥

कोटिकन्दर्पलावण्य इच्छाज्ञानक्रियान्वितः ।
हरिब्रह्मेन्द्रमौल्यग्रछन्नपादाम्बुजद्वयः ॥ ११ ॥

वल्लीभाषणसुप्रीतो दिव्याङ्गवनमालिकः ।
इष्टार्थदायको बालः बालचन्द्रकलाधरः ॥ १२ ॥

शिष्टहृत्पद्मनिलयो दुष्टचोरकुलान्तकः ।
कोटिकोटिमहासिद्धमुनिवन्दितपादुकः ॥ १३ ॥ ७०
ईशश्चेशाधिपश्चेशदेशिकश्चेश्वरात्मजः ।
ईशानादिमध्यान्तब्रह्मप्रणवषण्मुखः ॥ १४ ॥

ईशाग्रो लयभीतिघ्नः विघ्नराजसहोदरः ।
इन्द्रवारुणकौबेरविरिञ्च्यादिसुखप्रदः ॥ १५ ॥

ईशकैलासनिलय ईशसंस्तुतवैभवः ।
कल्पवृक्षादिकौदार्यस्सर्ववेदाग्रवासभूः ॥ १६ ॥

सर्वसिद्धिप्रदः सर्वसुखदः कीर्तिमान् विभुः ।
इन्दिरारमणप्रीतः मृत्युभीत्यादिनाशकः ॥ १७ ॥

सर्वशत्रुकुलारण्यज्वालाकुलदवानलः ।
अणिमाद्यष्टसिद्धीशो विधिविष्ण्वीश्वराधिपः ॥ १८ ॥

षडाधाराम्बुजगतसर्वदेवस्वरूपकः ।
श्रीनीपकुसुमप्रीत ईतिबाधाविनाशकः ॥ १९ ॥

सर्वपुण्यस्वरूपी च दातॄणां फलदायकः ।
देवेन्द्रकल्पको गौरीसुतो हृत्कमलालयः ॥ २० ॥

तारकप्राणहरण उग्रशक्त्यायुधाधिपः ।
सर्वात्मनायकः कुम्भसम्भूतप्रियबोधकः ॥ २१ ॥ १००
चन्द्रकोटिप्रभोल्लासी हुम्फट्कारोत्सुकस्तथा ।
देवेश्वरो नागभूष उद्यद्भास्करकुण्डलः ॥ २२ ॥

उद्दण्डधीरो गम्भीरः कृपासागरलोचनः ।
एककालोदितानेककोटिबालरविप्रभः ॥ २३ ॥

जयन्तादिसुरानेककारागृहविमोचकः ।
रुद्राधिप उग्रबालो रक्ताम्बुजपदद्वयः ॥ २४ ॥

विरिञ्चिकेशवेन्द्रादिसर्वदेवाभयप्रदः ।
वल्लीन्द्रतनयादक्षवामालङ्कृतसुन्दरः ॥ २५ ॥

नतकुम्भोद्भवानेकभक्तसङ्घप्रियङ्करः ।
सत्याचलस्थितः शम्भुविज्ञानसुखबोधकः ॥ २६ ॥

गौरीशङ्करमध्यस्थो देवसङ्घामृतप्रदः ।
उमामहेशनयनपद्माकररविप्रभः ॥ २७ ॥ var दिवाकरः
रणरङ्गरमाप्रोक्तजयश्रवणकौतुकः ।
अहङ्कृतमनोदूरो दैत्यतूलधनञ्जयख् ॥ २८ ॥

भक्तचित्तामृताम्बोधिः मौनानन्तसुखप्रदः ।
अनेकक्षेत्रनिलयो वाचिकामृतदायकः ॥ २९ ॥

पराद्रिस्थोऽर्णवक्षेत्रनिलयो देवपूजितः ।
अनेकशैलनिलयो फलभूधरनायकः ॥ ३० ॥

शिवाचलनिवासी च शिवक्षेत्राधिनायकः ।
मानसीकपुराधीशः श्रीशैलालयसंस्थितः ॥ ३१ ॥

मूलाधाराम्बुजगतो स्वाधिष्ठाननिकेतनः ।
मणीपूरकपद्मस्थ अनाहतसुमस्थितः ॥ ३२ ॥

विशुद्धिकमलारूढ आज्ञाचक्रान्तरस्थितः ।
परमाकाशरूपी च नादब्रह्ममयाकृतिः ॥ ३३ ॥

महाशक्तिर्महोनाथः सर्वलोकात्मविग्रहः ।
महावल्लीप्रियस्सर्वरूपी सर्वान्तरस्थितः ॥ ३४ ॥

शिवार्थः सर्वसञ्जीवी समस्तभुवनेश्वरः ।
सर्वसंरक्षकस्सर्वसंहारकरताण्डवः ॥ ३५ ॥

चतुर्मुखशिरोदेशमुष्टिताडनविक्रमः ।
ब्रह्मोपदेष्टा ब्रह्मादिसुरलोकसुखप्रदः ॥ ३६ ॥

यज्ञदिव्यहविर्भोक्ता वरदस्सर्वपालकः ।
दीनसंरक्षकोऽव्याजकरुणापूरवारिधिः ॥ ३७ ॥

सर्वलक्षणसम्पन्नस्सच्चिदानन्दविग्रहः ।
ब्रह्मानन्दाब्धिशीतांशुः करुणापूर्णलोचनः ॥ ३८ ॥

एकाक्षरमयश्चैव एकाक्षरपरार्थदः ।
एकाक्षरपरञ्ज्योतिरेकान्तमतिबोधकः ॥ ३९ ॥

एकार्थदायकश्चैकपरश्चैकाम्रनायकः ।
एकान्तमौनफलदो वल्लीमोहनतत्परः ॥ ४० ॥ १८०
सप्तर्षिवन्दितपदो ब्रह्मातीतो मुनिस्तुतः ।
वल्लीदर्शनसन्तुष्टो भक्ताभीष्टवरप्रदः ॥ ४१ ॥

उमाशङ्करमध्यस्थो महावृषभसंस्थितः ।
सम्पूर्णस्सर्वलोकात्मा नीपमाल्यविभूषितः ॥ ४२ ॥ १९०
कल्मषघ्नो गिरिशयः पापघ्नो दीनरक्षकः ।
सर्वाभरणभूषाङ्को वज्रशक्त्यादिधारकः ॥ ४३ ॥

पञ्चाक्षरस्थः पञ्चास्यः कण्ठीरवमुखान्तकः ।
पञ्चभूतात्मभृत्पञ्चभूतेशः शचिवन्दितः ॥ ४४ ॥

पञ्चवर्णः पञ्चबाणकरः पञ्चतरुप्रभुः ।
ऐङ्काररूपः क्लीङ्कारः सौःकारकरुणानिधिः ॥ ४५ ॥

अकारादिक्षकारान्तमयश्चैरावतार्चितः ।
ऐरावतगजारूढस्सर्वभक्तप्रियङ्करः ॥ ४६ ॥

ऐरावतात्मजावल्लीनायिकाप्राणवल्लभः ।
चतुष्षष्टिकलानाथो द्वात्रिंशल्लक्षणोज्ज्वलः ॥ ४७ ॥

मदनातीतसौन्दर्यः पाषण्डजनदूरगः ।
पञ्चेन्द्रियप्रेरकश्च पञ्चकृत्यादिदायकः ॥ ४८ ॥ २२०
पञ्चकृत्येश्वरः पञ्चमूर्तये पञ्चामृतप्रियः ।
एकार्थश्चैव निर्नाशः प्रणवार्थद एव च ॥ ४९ ॥

सर्वज्योतिप्रकाशी च रहःकेलिकुतूहलः ।
दिव्यज्योतिर्वेदमयः वेदमूलोऽर्थसङ्ग्रहः ॥ ५० ॥

एकानेकस्वरूपी च रव्यादिद्युतिदायकः ।
ऐरावताधिपसुतानयनानन्दसुन्दरः ॥ ५१ ॥

चिदाकारः परञ्ज्योतिः लयोत्पत्तिविवर्जितः ।
सर्वशत्रुहरो मेषवरारूढो विनायकः ॥ ५२ ॥

एकातपत्रसाम्राज्यदायकः सुमुखानुजः ।
मृगीपरशुचापासिशक्त्याद्यायुधभृत्करः ॥ ५३ ॥

शरत्कालघनानीकमहोदारद्विषट्करः ।
श्रीवल्लीवामपार्श्वस्थो रव्यादिग्रहदोषभिद् ॥ ५४ ॥

पादकिङ्किणिकानाददैत्यविभ्रमदायकः ।
ओङ्कारज्योतिरोङ्कारवाचकातीतवैभवः ॥ ५५ ॥

ओङ्कारचित्सभासंस्थ ओङ्काराद्भुतमन्दिरः ।
ओङ्कारमनुसन्दाता ओङ्कारगिरिसंस्थितः ॥ ५६ ॥

ओङ्कारनादश्रवण ओङ्कारातीतविग्रहः ।
ओङ्कारनादान्तगतः ओन्नित्यादिषडक्षरः ॥ ५७ ॥

ओङ्कारपीठकान्तस्थ ओङ्कारमुकुटाग्रगः ।
ओङ्कारमूलसम्भूत ओङ्काराद्यन्तमध्यगः ॥ ५८ ॥

ओङ्कारमूलबीजार्थ ओङ्कारपरशक्तिमान् ।
ओङ्कारबिन्दुरोङ्कारचित्त ओङ्कारचित्पुरः ॥ ५९ ॥ २७०
ओङ्कारफलसत्सार ओङ्कारज्ञानकोविदः ।
ओङ्कारसच्चिदानन्द ओङ्कारपरमात्मकः ॥ ६० ॥

ओङ्कारसम्भूतसप्तकोटिमन्त्राधिनायकः ।
ओङ्कारप्रणवाकार अकारादिकलात्मकः ॥ ६१ ॥ २८०
षडक्षरो द्वादशार्णः प्रणवाग्रार्णसंयुतः ।
महेशस्तुतिसन्तुष्टो शिवशक्त्यक्षरान्वितः ॥ ६२ ॥

पराक्षरकलोपेतो शिवबीजकलाश्रयः ।
औङ्कारनादकरुण औदासीनजनान्तकः ॥ ६३ ॥

औदुम्बराश्वत्थनीपबिल्वादिसमिदाहुतः ।
दुष्टक्रुद्धमनोदूरो शिष्टसङ्घसमाश्रितः ॥ ६४ ॥

अकाराद्यक्षरप्राण अकारद्यक्षरार्थकः ।
उदारसद्गुणोपेतो भक्तैश्वर्यप्रदायकः ॥ ६५ ॥

अकारादिक्षकारान्तकलाकल्पितविग्रहः ।
श्रीकुम्भसम्भवादीनां सर्वज्ञानोपदेशकृत् ॥ ६६ ॥

षडर्णमन्त्रस्मरणभक्ताभीष्टप्रदायकः ।
स्कन्दमूर्तिश्च गाङ्गेयो कलिकल्मषनाशनः ॥ ६७ ॥

भक्तसन्निहितोऽक्षोभ्यो शङ्खपाणिमुखस्तुतः ।
ओंश्रींह्रींसौंशरवणभवः शङ्करानन्द एव च ॥ ६८ ॥

शतलक्षेन्दुसङ्काशः शान्तः शशिधरात्मजः ।
शत्रुनाशकरश्शम्भुः शचीपतिवरप्रदः ॥ ६९ ॥

शक्तिमान् शक्तिहस्तश्च शान्तसर्वप्रकाशकः ।
शरभः शङ्खचक्रादिधरः शङ्करबोधकः ॥ ७० ॥

कृत्तिकातनयः कृष्णो शङ्खपद्मनिधिप्रदः ।
शक्तिवज्रादिसम्पन्नद्विषट्करसरोरुहः ॥ ७१ ॥

शङ्कुकर्णमहाकर्णघण्टाकर्णादिवन्दितः ।
मूलादिद्वादशान्तस्थपद्ममध्यनिकेतनः ॥ ७२ ॥

सद्गुणः शङ्करः साक्षी सदानन्दः सदाशिवः ।
ज्ञानेश्वरः सृष्टिकर्ता सर्ववश्यप्रदायकः ॥ ७३ ॥

विचित्रवेषः समरविजयायुधधारकः ।
क्रौञ्चासुररिपुः शङ्खपतिः सर्वगणेश्वरः ॥ ७४ ॥

णकारतुर्यमन्त्रार्णो णकारार्णस्वरूपकः ।
णकारमूलमन्त्राग्रो णकाररवसंस्थितः ॥ ७५ ॥

णकारशिखरारूढो णकाराक्षरमध्यगः ।
णद्वितीयो णत्रितीयः णचतुर्थो णपञ्चमः ॥ ७६ ॥

णषष्ठवर्णो णार्णादिमन्त्रषड्भेदभासुरः ।
णकारपीठनिलयो नलिनोद्भवशिक्षकः ॥ ७७ ॥

नादान्तकूटस्थश्चैव नारदप्रिय एव च ।
नागाशनरथारूढो नान्दात्मा नागभूषणः ॥ ७८ ॥

नागाचलपतिर्नागो नवतत्त्वो नटप्रियः ।
नवग्रहादिदोषघ्नो णकारस्तम्भनिष्क्रियः ॥ ७९ ॥

णकाराक्षो णकारेशः णकारवृषवाहनः ।
तत्त्वबोद्धा दैवमणिः धनधान्यादिदायकः ॥ ८० ॥

वल्लीपतिः शुद्धान्तरस्तत्त्वातीतो हरिप्रियः ।
तत्परः कमलारूढो षडाननसरोरुहः ॥ ८१ ॥

भगवान् भयहन्ता च भर्गो भयविमोचकः ।
भानुकोपादिदैत्यघ्नो भद्रो भागीरथीसुतः ॥ ८२ ॥

भवाचलमहावज्रो भवारण्यदवानलः ।
भवतापसुधावृष्टिर्भवरोगमहौषधः ॥ ८३ ॥

भानुचन्द्राग्निनयनो भावनातीतविग्रहः ।
भक्तचित्ताम्बुजारूढो भरतोक्तक्रियाप्रियः ॥ ८४ ॥

भक्तदेवो भयार्तिघ्नो भकारोच्चाटनक्रियः ।
भारतीशमुकुन्दादिवाङ्मनोऽतीतवैभवः ॥ ८५ ॥

विचित्रपक्षाश्वारूढो भुजङ्गेशो दयानिधिः ।
ईशफालाक्षिसम्भूतो वीरः षट्समयाधिपः ॥ ८६ ॥

महाव्रतो महादेवो भूतेशः शिववल्लभः ।
महामायी यज्ञभोक्ता मन्त्रस्थो यक्षराट्प्रियः ॥ ८७ ॥

सर्वश्रेष्ठो महामृत्युरूपासुरविनाशकः ।
रागाब्जमालिकाभूषो रागी रागाम्बरप्रियः ॥ ८८ ॥

रागद्वेषादिदोषघ्नो रागरत्नविभूषणः ।
रावणस्तुतिसन्तुष्टो रतीनायकवन्दितः ॥ ८९ ॥

रम्भादिनाट्यसुप्रीतो राजीवदललोचनः ।
रवचापधरो रक्षोवृन्दतूलहुताशनः ॥ ९० ॥

रविचन्द्रादिसम्पूज्यो रथारोहकुतूहलः ।
रवकाञ्चीवरधरो रवयुक्ताङ्घ्रिभूषणः ॥ ९१ ॥

रव्युद्भवसमानेकहारकेयूरभूषितः ।
रविकोटिसमानाभो रत्नहाटकदायकः ॥ ९२ ॥

शिखीन्द्रश्चोरगाकारः निशादिनविवर्जितः ।
रमावाण्यादिसम्पूज्यो लक्षवीरभटस्तुतः ॥ ९३ ॥

वीरभूतगणस्तुत्यो श्रीरामश्चारुणो रविः ।
वरदो वज्रहस्तश्च वामदेवादिवन्दितः ॥ ९४ ॥

वलारितनयानाथो वरदाभयसत्करः ।
वल्लीश्वरीपतिर्वाग्मी वल्लीकल्याणसुन्दरः ॥ ९५ ॥

वलारिमुख्यविबुधवृन्ददुःखविमोचकः ।
वातरोगहरो वर्मरहितो वासवेश्वरः ॥ ९६ ॥

वाचकस्थो वासुदेववन्दितो वकुलप्रियः ।
वासनाङ्कितताम्बूलपूरिताननपङ्कजः ॥ ९७ ॥

वचनागमनातीतो वामाङ्गो वन्दिमोहनः ।
वल्लीमनोहरः साधुः देवेन्द्रप्राणदायकः ॥ ९८ ॥

दिगन्तवल्लभानन्तमदनोज्ज्वलरूपभृत् ।
सौन्दर्यार्णवपीयूषस्सर्वावयवसुन्दरः ॥ ९९ ॥

शिशुः कृपालुः कादम्बधरः कौबेरनायकः ।
धर्माधारस्सर्वधर्मस्वरूपो धर्मरक्षकः ॥ १०० ॥

सर्वधर्मेश्वरो बन्धुस्तीक्ष्णोऽनन्तकलान्वितः ।
अनन्तवेदसंवेद्यः स्वामी कनकसुप्रभः ॥ १०१ ॥

सर्वसाक्षी सर्वकलाश्रवणः करुणालयः ।
वासवस्सर्वकर्ता च कामः कपिलसंस्तुतः ॥ १०२ ॥

कामदः कालसंहर्ता कालः कामारिसम्भवः ।
कामायुधः कामधरो श्रीकृष्णः शिखिवाहनः ॥ १०३ ॥ ४९०
कृपानिधिः कृपासिन्धुः गिरिराट् कृत्तिकाप्रियः ।
कीर्तिप्रदः कीर्तिधरो गीतनाट्यादिकप्रियः ॥ १०४ ॥

नर्क्कीरस्तोत्रसन्तुष्टस्तीर्थेशः कुलविद्गुहः ।
कौमारस्सर्वगुप्तश्च क्रौञ्चासुरविमर्दनः ॥ १०५ ॥

इन्द्रपुण्यः कुलोत्तुङ्ग अतितीक्ष्णायुधो नटः ।
कूटस्थः श्रीकरः कूटेशान्तकान्तकसम्भवः ॥ १०६ ॥

वल्लीभाषणसुप्रीतो गम्भीरो भक्तनायकः ।
सर्वदेवालयान्तस्थो निश्शोको निरुपद्रवः ॥ १०७ ॥ ५२०
केदारो मदनाधीशो लयघ्नः श्रवणान्वितः ।
पद्महस्तो देवनुतः भक्तार्थो द्वादशायुधः ॥ १०८ ॥

कैवल्यो रजताद्रीशो महाराट् गोकर्णाधिपः ।
शूरमायाम्रतरुभिद् खण्डितासुरमण्डलः ॥ १०९ ॥

जयदुर्गातिसन्तुष्टो सर्वदेवस्तवाङ्कितः ।
हितः कोलाहलश्चित्रो नन्दितश्च वृषापतिः ॥ ११० ॥ ५४०
निगमाग्र्यो महाघोरास्त्रनाथो गव्यमोदिनि ।
सर्वेशः सुगुणश्चण्डो दिव्यकौस्तुभसन्निभः ॥ १११ ॥

चण्डप्रचण्डः समरविजयी निरहङ्कृतिः ।
सर्वस्वामी चण्डहर्ता षड्वक्त्रश्शाम्भवः सुखी ॥ ११२ ॥

साङ्गः सायुज्यदः सारः सामः साम्राज्यदायकः ।
सिद्धः शिवश्चिद्गुणश्च चिन्मयश्चित्स्वरूपकः ॥ ११३ ॥

श‍ृङ्गाररससम्पूर्णश्चित्तस्थः सामपारगः ।
शिवलोकेश्वरः सिद्धवरः सिद्धवरार्चितः ॥ ११४ ॥

सर्वजीवस्वरूपी च श्रीदः श्रीधरवन्दितः ।
शुद्धः शीतः स्वयञ्ज्योतिः सुब्रह्मण्यः शुभप्रदः ॥ ११५ ॥

श्रुतिज्ञः सुलभः शूरः शुद्धधीरश्च शूरहा ।
शूरात्मशोधकः शूरस्मर्ता च विभवप्रदः ॥ ११६ ॥

सर्वैश्वर्यप्रदः सर्वजयदो ब्रह्मसम्भवः ।
जयधीरः श्रीकरश्च सिन्धुक्षेत्रः सलक्षणः/सुलक्षणः ॥ ११७ ॥

अभक्तकालो रक्ताभशेखरोऽतुलविक्रमः ।
शैवाधिपः शैवमणिः शैवधन्यश्शिवात्परः ॥ ११८ ॥

चैतन्यः क्रौञ्चभेदी च गिरीशो निगमेश्वरः ।
स्वर्गाधिपस्सुरूपी च स्वर्गलोकादिसौख्यदः ॥ ११९ ॥

स्वच्छः स्वयम्भूर्भौमाख्यस्सोमधृत्कुक्कुटध्वजः ।
ज्योतिर्हल्लकशैलस्थः सोमः शोकभयापहः ॥ १२० ॥

हितः पशुपतिः सौम्यो नतसौभाग्यदायकः ।
सौवर्णबीजः सौन्दर्यो दण्डपाणिर्धनप्रदः ॥ १२१ ॥

एकदेवः सर्वपिता धनिको द्राविडप्रियः ।
चण्डारिस्तारकः स्थाणुः सर्वधान्यप्रदायकः ॥ १२२ ॥

मातृभूतस्तारकारिर्दिव्यमाल्यविभूषितः ।
चित्सभेशो दिशान्नाथः धनुर्हस्तो महाभुजः ॥ १२३ ॥ ६४०
महागुणो महाशौर्यः सर्वदारिद्र्यनाशकः ।
दीर्घो दिगम्बरस्तीर्थः सर्वतीर्थफलप्रदः ॥ १२४ ॥

रोगघ्नो दुष्टहर्ता च सर्वदुष्टभयङ्करः ।
आत्मज्योतिः पवित्रश्च हृद्गतश्च सहायकृत् ॥ १२५ ॥

कारणस्थूलसूक्ष्मान्तोऽमृतवर्षी चिदम्बरः ।
परमाकाशरूपी च प्रलयानलसन्निभः ॥ १२६ ॥

देवो दक्षिणकैलासवासी वल्लीकराञ्चितः ।
दृढो दिव्योऽमृतकरो देवेशो दैवतप्रभुः ॥ १२७ ॥

कदम्बमालापीयूषाप्लुतवक्षस्थलान्वितः ।
देवसेनापतिर्देवधन्यो देवगिरिस्थितः ॥ १२८ ॥

सर्वज्ञो देशिको धैर्यः सुरवैरिकुलान्तकः ।
वटुकानन्दनायोद्यद्वाद्यघोषामितप्रियः ॥ १२९ ॥

पुष्यर्क्षः कुण्डलधरो नित्यो दोषविभञ्जनः ।
प्रारब्धसञ्चितागाम्यपातकादिप्रभञ्जनः ॥ १३० ॥

महाजयो महाभूतो वीरबाह्वादिवन्दितः ।
चोरारिः सत्त्वमार्गस्थः अलक्ष्मीमलनाशकः ॥ १३१ ॥

स्तुतिमालालङ्कृताढ्यो नन्दीकेशो हरप्रियः ।
सर्वसौख्यप्रदाता च नववीरसमावृतः ॥ १३२ ॥

परमेशो महारुद्रो महाविष्णुः प्रजापतिः ।
वीणाधरमुनिस्तुत्यश्चतुर्वर्गफलप्रदः ॥ १३३ ॥

निर्गुणश्च निरालम्बो निर्मलो विष्णुवल्लभः ।
निरामयो नित्यशुद्धो नित्यमङ्गलविग्रहः ॥ १३४ ॥

शिखण्डी नीपबाहुश्च नीतिर्नीराजनद्युतिः ।
निष्कोपश्च महोद्यानः सूक्ष्मो मेर्वादिमन्दिरः ॥ १३५ ॥

सूक्ष्मातिसूक्ष्मो भालाक्षो महान् सर्वोपदेशकः ।
सर्ववेषकलातीत उपवीती शतक्रतुः ॥ १३६ ॥ ७२०
वेदागमपुराणज्ञो नूपुराङ्घ्रिसरोरूहः ।
हृत्पूर्णः पञ्चभूतस्थो कृपामार्गोऽम्बुजाश्रयः ॥ १३७ ॥

सन्निधिः प्रीतचित्तोऽथ निष्प्रीतिश्चात्मसंस्थितः ।
औपम्यरहितः प्रीतचित्तगो नैमिशाश्रयः ॥ १३८ ॥

नैमिशारण्यनिवसन्मुनीन्द्रनिकरस्तुतः ।
घण्टारवप्रीतमनाः दयाचित्तो सताङ्गतिः ॥ १३९ ॥ ७४०
सर्वापदान्निहन्ता च सद्योऽभीष्टवरप्रदः ।
सर्वजीवान्तरज्योतिश्छन्दस्सारो महौषधिः ॥ १४० ॥

पञ्चाक्षरपरञ्ज्योतिः सूक्ष्मपञ्चेन्द्रियद्युतिः ।
ज्ञानचक्षुर्गतज्योतिः सौङ्कारपरमद्युतिः ॥ १४१ ॥

परश्च फलशैलस्थः बालरूपः पराङ्गकः ।
परमेष्ठी परन्धाम पापनाशी परात्परः ॥ १४२ ॥

गोक्षीरधवलप्रख्यः पार्वतीप्रियनन्दनः ।
कटाक्षकरुणासिन्धुर्यमवृक्षकुठारिकः ॥ १४३ ॥

प्रभुः कपर्दी ब्रह्मेशः ब्रह्मविद् पिङ्गलप्रभः ।
स्वाधिष्ठानपुराधीशः सर्वव्याधिविनाशकः ॥ १४४ ॥

वैभवः कनकाभासः भीषणो निगमासनः ।
भीतिघ्नस्सर्वदेवेड्यः पुण्यस्सत्त्वगुणालयः ॥ १४५ ॥

पुण्याधिपः पुष्कराक्षः पुण्डरीकपुराश्रयः ।
पुराणः पुङ्गवः पूर्णः भूधरो भूतिधारकः ॥ १४६ ॥ ७८०
प्राचीनः पुष्पसद्गन्धः रक्तपुष्पप्रियङ्करः ।
वृद्धो महामतिकरः महोल्लासो महागुणः ॥ १४७ ॥

मोक्षदायी वृषाङ्कस्थः यजमानस्वरूपभृत् ।
अभेद्यो मौनरूपी च ब्रह्मानन्दो महोदरः ॥ १४८ ॥

भूतप्रेतपिशाचघ्नः शिखी साहस्रनामकः ।
किराततनयापाणिपद्मग्रहणलोलुपः ॥ १४९ ॥

नीलोत्पलधरो नागकङ्कणः स्वर्णपङ्कजः ।
सुवर्णपङ्कजारूढः सुवर्णमणिभूषणः ॥ १५० ॥

सुवर्णशैलश‍ृङ्गस्थः सुवर्णागदशोभितः ।
कालज्ञानी महाज्ञानी अमराचलनायकः ॥ १५१ ॥

लयसम्भवनिर्मुक्तः कमलोद्भवदण्डकः ।
सप्ताब्धिशोषकृदष्टकुलाचलविभेदकः ॥ १५२ ॥

मन्त्रबीजो वराबीजो मन्त्रात्मा मन्त्रनायकः ।
मन्त्रालयो मयूरस्थो मयूराचलनायकः ॥ १५३ ॥ ८२०
मायाधरो महामन्त्रो महादेवो महाबुधः ।
मायापरो महामायी महासेनो महाप्रभुः ॥ १५४ ॥

अग्रबुद्धिरग्रगण्यो मिथ्यावादिकुलान्तकः ।
मुक्तिग्रहः कल्मषघ्नः सर्वदेवजरापहः ॥ १५५ ॥

सर्वदेवाङ्कुरो मुक्त अतिबालो मुनीश्वरः ।
दिगम्बरो भक्तिनिधिः सर्वदेवाग्रगण्यकः ॥ १५६ ॥

अच्युतः सर्वसम्पूर्णो महाविष्णुसुसंस्तुतः ।
मूर्तिर्ब्रह्माण्डकूटस्थो मूलभूतस्त्रिमूर्तिभृत् ॥ १५७ ॥

नामपारायणपरभक्ताभीष्टप्रदायकः ।
चिद्रूपः षट्क्रमानन्दो महासारस्वतप्रदः ॥ १५८ ॥

ज्योतिर्मयो गिरिशयः नवदुर्गाभिवन्दितः ।
मुकुटाङ्गदकेयूरकाञ्चीकिङ्किणिभूषितः ॥ १५९ ॥

नारायणविरिञ्च्यादिदेवाभीतिप्रदायकः ।
मेषारूढः पञ्चवर्णः सर्ववाद्यप्रियङ्करः ॥ १६० ॥

मौनेश्वरो मोक्षनाथः द्वादशान्तःपुरेश्वरः ।
देवावृतो दीनबन्धुर्वल्लीलीलामनोहरः ॥ १६१ ॥

वन्दारुमहदैश्वर्यदायको वन्दनप्रियः ।
वकाराच्छत्रुसंहर्ता वकाराच्छत्रुपीडकः ॥ १६२ ॥

वकाराच्छत्रुवाक्स्तम्भो वकारात्कलिनाशकः ।
वकाराच्छत्रुसंहारी सकाराच्छत्रुवञ्चकः ॥ १६३ ॥

वकाराद्भूतपैशाचप्रेतादिभयमोचकः ।
वकाराद्ग्रहदोषघ्नो वकाराच्चोरनाशनः ॥ १६४ ॥

वकारात्सिंहसर्पाश्वव्याघ्रादिभयमोचकः ।
वकारान्निन्दकश्रोत्रनेत्रवाक्स्तम्भनोद्यतः ॥ १६५ ॥

वकारान्मृत्युसंहर्ता वकारकुलिशायुधः ।
वकारार्णमहारुद्रो वकारार्णमहासिकः ॥ १६६ ॥

वकाराद्वैरिनरराट्चोरचित्तादिविभ्रमः ।
वचस्यो वटुको वह्निर्वरुणो वाचको वसुः ॥ १६७ ॥ ८९०
वश्यो वसुप्रदो दाता वामनो वचनात्परः ।
वागीशो वामनयनो वामः सामपरायणः ॥ १६८ ॥

वामक्रमार्चनप्रीतो विशाखो विमलो विधुः ।
विद्रुमाभो धनो बीजोऽनन्तसौदामिनीप्रभः ॥ १६९ ॥

निरन्तरो मन्दिरश्च नववीरनुताङ्घ्रिकः ।
वीरो भीमः किरातश्च सदाभक्तमनोहरः ॥ १७० ॥

सर्वालयो रथारूढ अनन्तप्रलयाधिपः ।
नामरूपगुणक्षेत्रभेदावस्थाविवर्जितः ॥ १७१ ॥

सर्वपुण्याध्वरफलः सर्वकर्मफलप्रदः ।
सर्वागमपुराणादिपाठकृत्फलदायकः ॥ १७२ ॥

सर्वसम्पत्प्रदः सत्यो राजभोगसुखप्रदः ।
एकः प्रभुः सभानाथो निष्कलोऽनन्तवल्लभः ॥ १७३ ॥

ओङ्कारसिन्धुनादाग्रनटनानन्दवैभवः ।
षडक्षरजपोद्युक्तप्रारब्धादिप्रभेदकः ॥ १७४ ॥

अनन्तभुवनाधीश आदिमध्यान्तवर्जितः ।
इन्द्राणीमुखमाङ्गल्यरक्षकश्चेप्सितार्थदः ॥ १७५ ॥

उद्यत्कोटिरविप्रख्य ऊरुदण्डकरद्वयः ।
रुद्रकोटिसमाकीर्णलतामण्डपमध्यगः ॥ १७६ ॥

एलादिवासनाप्रीत ऐरावतगजस्थितः ।
ओङ्कारचित्सभानाथ औदार्यगुणदायकः ॥ १७७ ॥

अम्बिकाहृदयानन्द अच्युतेशविधिस्तुतः ।
करुणारसनिष्यन्दसम्पूर्णद्वादशेक्षणः ॥ १७८ ॥

खादिपृध्व्यन्तभूतात्मा गण्डमण्डलशोभितः ।
घटसम्भवसुप्रीतः सुन्दरश्चन्द्रभूषणः ॥ १७९ ॥

छत्रवर्यधरो जम्भभेत्तृसर्वेष्टदायकः ।
झलज्झलितझङ्कारकालीकङ्कणभूषितः ॥ १८० ॥

ज्ञानसागरपूर्णेन्दु टङ्कशूलादिधारकः ।
ठकारमध्यगो डम्भगम्भीरगुणसम्भ्रमः ॥ १८१ ॥ ९६०
ढक्काशूलधरानेकवटुकादिमसेवितः ।
णकारमूलनिलयस्ताटङ्काभरणोज्ज्वलः ॥ १८२ ॥

स्थाणुर्दयालुर्धनदो नववीरादिसंवृतः ।
पापाचलमहावज्रो फणिभुग्वाहनस्थितः ॥ १८३ ॥

बलिप्रियो भयार्तिघ्नो वरषट्चक्रमध्यगः ।
यक्षाधिपेशो राजीवलोचनो लक्षणोज्ज्वलः ॥ १८४ ॥

वल्मीकेशो शरवणभवस्तथा षण्मुखसुन्दरः ।
समस्तजगदाधारो हस्तद्वादशपङ्कजः ॥ १८५ ॥

लकारतत्त्वरूपी च क्षमासम्पूर्णवारिधिः ।
ज्ञानशक्तिधरः स्कन्दः अग्निभूर्बाहुलेयकः ॥ १८६ ॥

कुमारः षण्मुखश्चैव कृत्तिकासुत एव च ।
शक्त्यायुधधरः शरसम्भवः शरवणोद्भवः ॥ १८७ ॥

गाङ्गेयस्तारकारिश्च देवसेनापतिर्गुहः ।
ब्रह्मचारी शिवज्योतिः क्रौञ्चधारी शिखिस्थितः ॥ १८८ ॥ १०००
विद्याप्रदो विजयदो बलदः सर्वरक्षकः ।
स्वाश्रितश्रीकरः स्वर्णवर्णाङ्गः सौख्यदायकः ॥ १८९ ॥

भवस्यदेवस्यसुतः सर्वस्यदेवस्यसुतः ।
ईशानस्यदेवस्यसुतः पशुपतेर्देवस्यसुतः ॥ १९० ॥

रुद्रस्यदेवस्यसुतः उग्रस्यदेवस्यसुतः ।
भीमस्यदेवस्यसुतः महतोदेवस्यसुतः ॥ १९१ ॥

श्रीवल्लीदेवसेनसमेतश्रीकुमारसुब्रह्मण्यमूर्तये नमः । १०१६

॥ इति श्रीकुमारसुब्रह्मण्यमूर्तिसहस्रनामस्तोत्रं सम्पूर्णम् ॥

॥ ॐ नमोभगवतेसुब्रह्मण्याय ॥

Also Read 1000 Names of Muthukumara Subrahmanya Murthy:

1000 Names of Sri Muthu Kumara Subrahmanya Murti | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Muthu Kumara Subrahmanya Murti | Sahasranama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top