Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Mallari | Sahasranama Stotram Lyrics in Hindi

Shri Mallari Sahasranamastotram Lyrics in Hindi:

॥ श्रीमल्लारिसहस्रनामस्तोत्रम् ॥
श्रीगणेशाय नमः ।
श्रीसरस्वत्यै नमः ।
स्थितं कैलासनिलये प्राणेशं लोकशङ्करम् ।
उवाच शङ्करं गौरी जगद्धितचिकीर्षया ॥ १ ॥

पार्वत्युवाच ।
देवदेव महादेव भक्तानन्दविवर्धन ।
पृच्छामि त्वामहं चैकं दुःखदारिद्र्यनाशनम् ॥ २ ॥

कथयस्व प्रसादेन सर्वज्ञोसि जगत्प्रभो ।
स्तोत्रं दानं तपो वापि सद्यः कामफलप्रदम् ॥ ३ ॥

ईश्वर उवाच ।
मार्तण्डो भैरवो देवो मल्लारिरहमेव हि ।
तस्य नामसहस्रं ते वदामि श‍ृणु भक्तितः ॥ ४ ॥

सर्वलोकार्तिशमनं सर्वसम्पत्प्रदायकम् ।
पुत्रपौत्रादि फलदं अपवर्गप्रदं शिवम् ॥ ५ ॥

ईश्वरोस्य ऋषिः प्रोक्तः छन्दोऽनुष्टुप् प्रकीर्तितः ।
मल्लारिर्म्हालसायुक्तो देवस्त्रत्र समीरितः ॥ ६ ॥

सर्वपापक्षयद्वारा मल्लारिप्रीतये तथा ।
समस्तपुरुषार्थस्य सिद्धये विनियोजितः ॥ ७ ॥

मल्लारिर्म्हालसानाथो मेघनाथो महीपतिः ।
मैरालः खड्गराजश्चेत्यमीभिर्नाममन्त्रकैः ॥ ८ ॥

एतैर्नमोन्तैरोमाद्यै करयोश्च हृदादिषु ।
न्यासषट्कं पुरा कृत्वा नामावलिं पठेत ॥ ९ ॥

अस्य श्रीमल्लारिसहस्रनामस्तोत्रमन्त्रस्य ईश्वर ऋषिः ।
म्हालसायुक्त मल्लारिर्देवता । अनुष्टुप्छन्दः ।
सर्वपापक्षयद्वारा श्रीमल्लारिप्रीतये
सकलपुरुषार्थसिद्ध्यर्थे जपे विनियोगः ।
ॐ ह्रं ह्रांम्रियमाणानन्दमहालक्ष्मणेनम इति ।
अथन्यासः ।
मल्लारये नमः अङ्गुष्ठाभ्यां नमः ।
म्हालसानाथाय नमः तर्जनीभ्यां नमः ।
मेघनाथाय नमः मध्यमाभ्यां नमः ।
महीपतये नमः अनामिकाभ्यां नमः ।
मैरालायनमः कनिष्ठिकाभ्यां नमः ।
खड्गराजाय नमः करतलकरपृष्ठाभ्यां नमः ।
ॐ मल्हारये नमः हृदयाय नमः ।
ॐ म्हालसानाथाय नमः शिरसे स्वाहा ।
ॐ मेघनाथाय नमः शिखायै वषट् ।
ॐ महीपतये नमः कववाय हुं ।
ॐ मैरालाय नमः नेत्रत्रयाय वौषट् ।
ॐ खड्गराजाय नमः अस्त्राय फट् ।
अथ ध्यानम् ।
ध्यायेन्मल्लारिदेवं कनकगिरीनिभं म्हालसाभूषिताङ्कं
श्वेताश्वं खड्गहस्तं विबुधबुधगणैः सेव्यमानं कृतार्थैः ।
युक्ताघ्रिं दैत्यमूर्घ्नीडमरुविलसितं नैशचूर्णाभिरामं
नित्यं भक्तेषुतुष्टं श्वगणपरिवृतं वीरमोङ्कारगम्यम् ॥ १ ॥

मूलमन्त्रः ।
ॐ ह्रीं क्रूं त्क्रूं स्त्रूं ह्रूं ह्रां म्रियमाणानन्दमहालक्ष्मणे नमः ।
इति अलोभः उच्चार्य ।
अथनामावलीजपः ।
ॐ प्रणवो ब्रह्म उद्गीथ ॐकारार्थो महेश्वरः ।
मणिमल्लमहादैत्यसंहर्ता भुवनेश्वरः ॥ १ ॥

देवाधिदेव ॐकारः सन्तप्तामरतापहा ।
गणकोटियुतः कान्तो भक्तर्चितामणिः प्रभु ॥ २ ॥

प्रीतात्मा प्रथितः प्राण ऊर्जितः सत्यसेवकः ।
मार्तण्डभैरवो देवो गङ्गाह्मालसिकाप्रियः ॥ ३ ॥

गुणग्रामान्वितः श्रीमान् जयवान् प्रमथाग्रणीः ।
दीनानाथप्रतीकाशः स्वयम्भूरजरामरः ॥ ४ ॥

अखण्डितप्रीतमना मल्लहा सत्यसङ्गरः ।
आनन्दरूपपरमपरमाश्चर्यकृद्गुरुः ॥ ५ ॥

अजितोविश्वसञ्जेता समराङ्गणदुर्जयः ।
खण्डिताखिलाविघ्नौघः परमार्थप्रतापवान् ॥ ६ ॥

अमोघविद्यः सर्वज्ञः शरण्यः सर्वदैवतम् ।
अनङ्गविजयी ज्यायान् जनत्राता भयापहा ॥ ७ ॥

महाहिवलयो धाता चन्द्रमार्तण्ड्कुण्डलः ।
हरो डमरुडाङ्कारी त्रिशूली खड्गपात्रवान् ॥ ८ ॥

मणियुद्धमहा हृष्टोमुण्डमालाविराजितः ।
खण्डेन्दुशेखरस्त्र्यक्षो महामुकुटमण्डितः ॥ ९ ॥

वसन्तकेलिदुर्धर्षः शिखिपिच्छशिखामणिः ।
गङ्गाम्हालसिकाङ्कश्च गङ्गाम्हालसिकापतिः ॥ १० ॥

तुरङ्गमसमारूढो लिङ्गद्वयकृताकृतिः ।
ऋषिदेवगणाकीर्णः पिशाचबलिपालकः ॥ ११ ॥

सूर्यकोटिप्रतीकाशश्चन्द्रकोटिसमप्रभः ।
अष्टसिद्धिसमायुक्तः सुरश्रेष्ठः सुखार्णवः ॥ १२ ॥

महाबलोदुराराध्योदक्षसिद्धिप्रदायकः ।
वरदोवीतरागश्चकलिप्रमथनः स्वराट् ॥ १३ ॥

दुष्टहादानवारातिरुत्कृष्टफलदायकः ।
भवः कृपालुर्विश्वात्माधर्मपुत्रर्षिभीतिहा ॥ १४ ॥

रुद्रो विविज्ञः श्रीकण्ठः पञ्चवक्त्रः सुधैकभूः ।
प्रजापालो विशेषज्ञश्चतुर्वक्त्रः प्रजापतिः ॥ १५ ॥

खड्गराजः कृपासिन्धुर्मल्लसैन्यविनाशनः ।
अद्वैतः पावनः पाता परार्थैकप्रयोजनम् ॥ १६ ॥

ज्ञानसाध्योमल्लहरः पार्श्वस्थमणिकासुरः ।
अष्टधा भजनप्रीतो भर्गोमृन्मयचेतनः ॥ १७ ॥

महीमयमहामूर्तिर्महीमलयसत्तनुः ।
उल्लोलखड्गो मणिहा मणिदैत्यकृतस्तुतिः ॥ १८ ॥

सप्तकोटिगणाधीशो मेघनाथो महीपतिः ।
महीतनुः खड्गराजो मल्लस्तोत्रवरप्रदः ॥ १९ ॥

प्रतापी दुर्जयः सेव्यः कलावान्विश्वरञ्जकः ।
स्वर्णवर्णोद्भुताकारः कार्तिकेयो मनोजवः ॥ २० ॥

देवकृत्यकरःपूर्णोमणिस्तोत्रवरप्रदः ।
इन्द्रः सुरार्चितो राजा शङ्करोभूतनायकः ॥ २१ ॥

शीतः शाश्वत ईशानः पवित्रः पुण्यपूरुषः ।
अग्निपुष्टिप्रदः पूज्यो दीप्यमानसुधाकरः ॥ २२ ॥

भावी सुमङ्गलः श्रेयान्पुण्यमूर्तिर्यमो मनुः ।
जगत्क्षतिहरो हारशरणागतभीतिहा ॥ २३ ॥

मल्लद्वेष्टा मणिदेष्टा खण्डराड् म्हालसापतिः ।
आधिहा व्याधिहा व्याली वायुः प्रेमपुरप्रियः ॥ २४ ॥

सदातुष्टो निधीशाग्र्यः सुधनश्चिन्तितप्रदः ।
ईशानः सुजयो जय्योभजत्कामप्रदः परः ॥ २५ ॥

अनर्घ्यः शम्भुरार्तिघ्नो मैरालः सुरपालकः ।
गङ्गाप्रियो जगत्त्राता खड्गराण्णयकोविदः ॥ २६ ॥

अगण्योवरदो वेधा जगन्नाथः सुराग्रणीः ।
गङ्गाधरोऽद्भुताकारः कामहा कामदोमृतम् ॥ २७ ॥

त्रिनेत्रः कामदमनो मणिमल्लदयार्द्रहृत् ।
मल्लदुर्मतिनाशाङ्घ्रिर्मल्लासुरकृत स्तुतिः ॥ २८ ॥

त्रिपुरारिर्गणाध्यक्षो विनीतोमुनिवर्णितः ।
उद्वेगहा हरिर्भीमो देवराजो बुधोऽपरः ॥ २९ ॥

सुशीलः सत्त्वसम्पन्नः सुधीरोऽधिकभूतिमान् ।
अन्धकारिर्महादेवः साधुपालो यशस्करः ॥ ३० ॥

सिंहासनस्थः स्वानन्दो धर्मिष्ठो रुद्र आत्मभूः ।
योगीश्वरो विश्वभर्ता नियन्ता सच्चरित्रकृत् ॥ ३१ ॥

अनन्तकोशः सद्वेषः सुदेशः सर्वतो जयी ।
भूरिभाग्यो ज्ञानदीपो मणिप्रोतासनो ध्रुवः ॥ ३२ ॥

अखण्डित श्रीः प्रीतात्मा महामहात्म्यभूषितः ।
निरन्तरसुखीजेता स्वर्गदः स्वर्गभूषणः ॥ ३३ ॥

अक्षयः सुग्रहः कामः सर्वविद्याविशारदः ।
भक्त्यष्टकप्रियोज्यायाननन्तोऽनन्तसौख्यदः ॥ ३४ ॥

अपारो रक्षिता नादिर्नित्यात्माक्षयवर्जितः ।
महादोषहरो गौरो ब्रह्माण्डप्रतिपादकः ॥ ३५ ॥

म्हालसेशो महाकीर्तिः कर्मपाशहरो भवः ।
नीलकण्ठो मृडो दक्षो मृत्युञ्जय उदारधीः ॥ ३६ ॥

कपर्दी काशिकावासः कैलासनिलयोऽमहान् ।
कृत्तिवासाः शूलधरो गिरिजेशो जटाधरः ॥ ३७ ॥

वीरभद्रो जगद्वन्द्यः शरणागतवत्सलः ।
आजानुबाहुर्विश्वेशः समस्तभयभञ्जकः ॥ ३८ ॥

स्थाणुः कृतार्थः कल्पेशः स्तवनीयमहोदयः ।
स्मृतमात्राखिलाभिज्ञो वन्दनीयो मनोरमः ॥ ३९ ॥

अकालमृत्युहरणो भवपापहरो मृदुः ।
त्रिनेत्रो मुनिहृद्वासः प्रणताखिलदुःखहा ॥ ४० ॥

उदारचरितो ध्येयः कालपाशविमोचकः ।
नग्नः पिशाचवेषश्च सर्वभूतनिवासकृत् ॥ ४१ ॥

मन्दराद्रिकृतावासाः कलिप्रमथनो विराट् ।
पिनाकी मानसोत्साही सुमुखो मखरक्षितः ॥ ४२ ॥ var सुखरक्षितः

देवमुख्यःशम्भुराद्यः खलहा ख्यातिमान् कविः ।
कर्पूरगौरः कृतधीः कार्यकर्ता कृताध्वरः ॥ ४३ ॥

तुष्टिप्रदस्तमोहन्ता नादलुब्धः स्वयं विभुः । var पुष्टिप्रद
सिंहनाथो योगनाथो मन्त्रोद्धारो गुहप्रियः ॥ ४४ ॥

भ्रमहा भगवान्भव्यः शस्त्रधृक् क्षालिताशुभः ।
अश्वारूढो वृषस्कन्धो धृतिमान् वृषभध्वजः ॥ ४५ ॥

अवधूतसदाचारः सदातुष्टः सदामुनिः ।
वदान्यो म्हालसानाथः खण्डेशः शमवान्पतिः ॥ ४६ ॥

अलेखनीयः संसारी सरस्वत्यभिपूजितः ।
सर्वशास्त्रार्थनिपुणः सर्वमायान्वितो रथी ॥ ४७ ॥

हरिचन्दनलिप्ताङ्गः कस्तूरीशोभितस्तनुः ।
कुङ्कुमागरुलिप्ताङ्गः सिन्दूराङ्कितसत्तनुः ॥ ४८ ॥

अमोघवरदः शेषः शिवनामा जगद्धितः ।
भस्माङ्गरागः सुकृती सर्पराजोत्तरीयवान् ॥ ४९ ॥

बीजाक्षरंमन्त्रराजो मृत्युदृष्टिनिवारणः ।
प्रियंवदो महारावो युवा वृउद्धोऽतिबालकः ॥ ५० ॥

नरनाथो महाप्राज्ञो जयवान्सुरपुङ्गवः ।
धनराट्क्षोभहृद्दक्षः सुसैन्यो हेममालकः ॥ ५१ ॥

आत्मारामो वृष्टिकर्ता नरो नारायणःप्रियः ।
रणस्थो जयसन्नादो व्योमस्थो मेघवान्प्रभुः ॥ ५२ ॥

सुश्राव्यशब्दः सत्सेव्यस्तीर्थवासी सुपुण्यदः ।
भैरवो गगनाकारः सारमेयसमाकुलः ॥ ५३ ॥

मायार्णवमहाधैर्यो दशहस्तोद्भुतङ्करः ॥ ५४ ॥

गुर्वर्थदः सतां नाथो दशवक्त्रवरप्रदः ।
सत्क्षेत्रवासः सद्वस्त्रोभूरिदो भयभञ्जनः ॥ ५५ ॥

कल्पनीहरितो कल्पः सज्जीकृतधनुर्धरः ।
क्षीरार्णवमहाक्रीडः सदासागरसद्गतिः ॥ ५६ ॥

सदालोकः सदावासः सदापातालवासकृत् ।
प्रलयाग्नि जटोत्युग्रः शिवस्त्रिभुवनेश्वरः ॥ ५७ ॥

उदयाचलसर्द्वीपः पुण्यश्लोकशिखामणिः ।
महोत्सवः सुगान्धर्वः समालोक्यः सुशान्तधीः ॥ ५८ ॥

मेरुवासः सुगन्धाढ्यः शीघ्रलाभप्रदोऽव्ययः ।
अनिवार्यः सुधैर्यार्थी सदार्थितफलप्रदः ॥ ५९ ॥

गुणसिन्धुः सिंहनादो मेघगर्जितशब्दवान् ।
भाण्डारसुन्दरतनुर्हरिद्राचूर्ण मण्डितः ॥ ६० ॥

गदाधरकृतप्रैषो रजनीचूर्णरञ्जितः ।
घृतमारी समुत्थानं कृतप्रेमपुरस्थितिः ॥ ६१ ॥

बहुरत्नाङ्कितो भक्तः कोटिलाभप्रदोऽनघः ।
मल्लस्तोत्रप्रहृष्टात्मा सदाद्वीपपुरप्रभुः ॥ ६२ ॥

मणिकासुरविद्वेष्टा नानास्थानावतारकृत् ।
मल्लमस्तकदत्तांघ्रिर्मल्लनामादिनामवान् ॥ ६३ ॥

सतुरङ्गमणिप्रौढरूपसन्निधिभूषितः ।
धर्मवान् हर्षवान्वाग्मी क्रोधवान्मदरूपवान् ॥ ६४ ॥

दम्भरूपी वीर्यरूपी धर्मरूपी सदाशिवः ।
अहङ्कारी सत्त्वरूपी शौर्यरूपी रणोत्कटः ॥ ६५ ॥

आत्मरूपी ज्ञानरूपी सकलागमकृच्छिवः ।
विद्यारूपी शक्तिरूपी करुणामूर्तिरात्मधीः ॥ ६६ ॥

मल्लजन्यपरितोषो मणिदैत्यप्रियङ्करः ।
मणिकासुरमूर्द्धांघ्रिर्मणिदैत्यस्तुतिप्रियः ॥ ६७ ॥

मल्लस्तुतिमहाहर्षो मल्लाख्यापूर्वनामभाक् ।
धृतमारी भवक्रोधो मणिमल्लहितेरतः ॥ ६८ ॥

कपालमालितोरस्को मणिदैत्यवरप्रदः ।
कपालमाली प्रत्यक्षो माणिदैत्यशिरोङ्घ्रिदः ॥ ६९ ॥

धृतमारी भवक्त्रेभो मणिदैत्यहितेरतः ।
मणिस्तोत्रप्रहृष्टात्मा मल्लासुरगतिप्रदः ॥ ७० ॥

मणिचूलाद्रिनिलयो मैरालप्रकरस्त्रिगः ।
मल्लदेहशिरः पादतल एकादशाकृतिः ॥ ७१ ॥

मणिमल्लमहागर्वहरस्त्र्यक्षर ईश्वरः ।
गङ्गाम्हालसिकादेवो मल्लदेह शिरोन्तकः ॥ ७२ ॥

मणिमल्लवधोद्रिक्तो धर्मपुत्रप्रियङ्करः ।
मणिकासुरसंहर्ता विष्णुदैत्यनियोजकः ॥ ७३ ॥

अक्षरोमातृकारूपः पिशाचगुणमण्डितः ।
चामुण्डानवकोटीशः प्रधानं मातृकापतिः ॥ ७४ ॥

त्रिमूर्तिर्मातृकाचार्यः साङ्ख्ययोगाष्टभैरवः ।
मणिमल्लसमुद्भूतविश्वपीडानिवारणः ॥ ७५ ॥

हुंफड्वौषट्वषट्कारो योगिनीचक्रपालकः ।
त्रयीमूर्तिः सुरारामस्त्रिगुणो मातृकामयः ॥ ७६ ॥

चिन्मात्रो निर्गुणो विष्णुर्वैष्णवार्च्यो गुणान्वितः ।
खड्गोद्यततनुः सोहंहंसरूपश्चतुर्मुखः ॥ ७७ ॥ आप्तायत्ततनु

पद्मोद्भवो मातृकार्थो योगिनीचक्रपालकः ।
जन्ममृत्युजराहीनो योगिनीचक्रनामकः ॥ ७८ ॥

आदित्यआगमाचार्यो योगिनीचक्रवल्लभः ।
सर्गस्थित्यन्तकृच्छ्रीदएकादशशरीरवान् ॥ ७९ ॥

आहारवान् हरिर्धाता शिवलिङ्गार्चनप्रियः ।
प्रांशुः पाशुपतार्च्यांघ्रिर्हुतभुग्यज्ञपूरुषः ॥ ८० ॥

ब्रह्मण्यदेवो गीतज्ञो योगमायाप्रवर्तकः ।
आपदुद्धारणो ढुण्डी गङ्गामौलि पुराणकृत् ॥ ८१ ॥

व्यापी विरोधहरणो भारहारी नरोत्तमः ।
ब्रह्मादिवर्णितो हासः सुरसङ्घमनोहरः ॥ ८२ ॥

विशाम्पतिर्दिशान्नाथो वायुवेगो गवाम्पतिः ।
अरूपी पृथिवीरूपस्तेजोरूपोऽनिलो नरः ॥ ८३ ॥

आकाशरूपी नादज्ञो रागज्ञः सर्वगः खगः ।
अगाधो धर्मशास्त्रज्ञ एकराट् निर्मलोविभुः ॥ ८४ ॥

धूतपापो गीर्णविषो जगद्योनिर्निधानवान् ।
जगत्पिता जगद्बन्धुर्जगद्धाता जनाश्रयः ॥ ८५ ॥

अगाधो बोधवान्बोद्धा कामधेनुर्हतासुरः ।
अणुर्महान्कृशस्थूलो वशी विद्वान्धृताध्वरः ॥ ८६ ॥

अबोधबोधकृद्वित्तदयाकृज्जीवसंज्ञितः ।
आदितेयो भक्तिपरो भक्ताधीनोऽद्वयाद्वयः ॥ ८७ ॥

भक्तापराधशमनो द्वयाद्वयविवर्जितः ।
सस्यं विराटः शरणं शरण्यं गणराड्गणः ॥ ८८ ॥

मन्त्रयन्त्रप्रभावज्ञो मन्त्रयन्त्रस्वरूपवान् ।
इति दोषहरः श्रेयान् भक्तचिन्तामणिः शुभः ॥ ८९ ॥

उझ्झितामङ्गलो धर्म्यो मङ्गलायतनं कविः ।
अनर्थज्ञोर्थदः श्रेष्ठः श्रौतधर्मप्रवर्तकः ॥ ९० ॥

मन्त्रबीजं मन्त्रराजो बीजमन्त्रशरीरवान् ।
शब्दजालविवेकज्ञः शरसन्धानकृत्कृती ॥ ९१ ॥

कालकालः क्रियातीतस्तर्कातीतः सुतर्ककृत् ।
समस्ततत्त्ववित्तत्त्वं कालज्ञः कलितासुरः ॥ ९२ ॥

अधीरधैर्यकृत्कालो वीणानादमनोरथः ।
हिरण्यरेता आदित्यस्तुराषाद्शारदागुरुः ॥ ९३ ॥

पूर्वः कालकलातीतः प्रपञ्चकलनापरः ।
प्रपञ्चकलनाग्रस्त सत्यसन्धः शिवापतिः ॥ ९४ ॥

मन्त्रयन्त्राधिपोमन्त्रो मन्त्री मन्त्रार्थविग्रहः ।
नारायणो विधिः शास्ता सर्वालक्षणनाशनः ॥ ९५ ॥

प्रधानं प्रकृतिः सूक्ष्मोलघुर्विकटविग्रहः ।
कठिनः करुणानम्रः करुणामितविग्रहः ॥ ९६ ॥

आकारवान्निराकारः काराबन्धविमोचनः ।
दीननाथः सुरक्षाकृत्सुनिर्णीतविधिङ्करः ॥ ९७ ॥

महाभाग्योदधिर्वैद्यः करुणोपात्तविग्रहः ।
नगवासी गणाधारो भक्तसाम्राज्यदायकः ॥ ९८ ॥

सार्वभौमो निराधारः सदसद्व्यक्तिकारणम् ।
वेदविद्वेदकृद्वैद्यः सविता चतुराननः ॥ ९९ ॥

हिरण्यगर्भस्त्रितनुर्विश्वसाक्षीविभावसुः ।
सकलोपनिषद्गम्यः सकलोपनिषद्गतिः ॥ १०० ॥

विश्वपाद्विश्वतश्चक्षुर्विश्वतो बाहुरच्युतः ।
विश्वतोमुख आधारस्त्रिपाद्दिक्पतिरव्ययः ॥ १०१ ॥

व्यासो व्यासगुरुः सिद्धिः सिद्धिद सिद्धिनायकः ।
जगदात्मा जगत्प्राणो जगन्मित्रो जगत्प्रियः ॥ १०२ ॥

देवभूर्वेदभूर्विश्वं सर्गस्थित्यन्तखेलकृत् ।
सिद्धचारणगन्धर्वयक्षविद्याधरार्चितः ॥ १०३ ॥

नीलकण्ठो हलधरो गदापाणिर्निरङ्कुशः ।
सहस्राक्षो नगोद्धारः सुरानीक जयावहः ॥ १०४ ॥

चतुर्वर्गः कृष्णवर्त्मा कालनूपुरतोडरः ।
ऊर्ध्वरेता वाक्पतीशो नारदादिमुनिस्तुतः ॥ १०५ ॥

चिदानन्दचतुर्यज्ञस्तपस्वी करुणार्णवः । चिदानन्दत्तनु
पञ्चाग्निर्यागसंस्थाकृदनन्तगुणनामभृत् ॥ १०६ ॥

त्रिवर्गसूदितारातिः सुररत्नन्त्रयीतनुः ।
यायजूकश्चिरञ्जीवी नररत्नं सहस्रपात् ॥ १०७ ॥

भालचन्द्रश्चितावासः सूर्यमण्डलमध्यगः । चिरावासः
अनन्तशीर्षा त्रेताग्निःप्रसन्नेषुनिषेवितः ॥ १०८ ॥

सच्चित्तपद्ममार्तण्डो निरातङ्कः परायणः ।
पुराभवो निर्विकारः पूर्णार्थः पुण्यभैरवः ॥ १०९ ॥

निराश्रयः शमीगर्भो नरनारायणात्मकः ।
वेदाध्ययनसन्तुष्टश्चितारामो नरोत्तमः ॥ ११० ॥

अपारधिषणः सेव्यस्त्रिवृत्तिर्गुणसागरः ।
निर्विकारः क्रियाधारः सुरमित्रं सुरेष्टकृत् ॥ १११ ॥

आखुवाहश्चिदानन्दः सकलप्रपितामहः ।
मनोभीष्टस्तपोनिष्ठो मणिमल्लविमर्दनः ॥ ११२ ॥

उदयाचल अश्वत्थो अवग्रहनिवारणः ।
श्रोता वक्ता शिष्टपालः स्वस्तिदः सलिलाधिपः ॥ ११३ ॥

वर्णाश्रमविशेषज्ञः पर्जन्य सकलार्तिभित् । सकलार्तिजित्
विश्वेश्वरस्तपोयुक्तः कलिदोषविमोचनः ॥ ११४ ॥

वर्णवान्वर्णरहितो वामाचारनिषेधकृत् ।
सर्ववेदान्ततात्पर्यस्तपःसिद्धिप्रदायकः ॥ ११५ ॥

विश्वसंहाररसिको जपयज्ञादिलोकदः ।
नाहंवादी सुराध्यक्षो नैषचूर्णः सुशोभितः ॥ ११६ ॥

अहोराजस्तमोनाशोविधिवक्त्रहरोन्नदः ।
जनस्तपो महः सत्यंभूर्भुवःस्वःस्वरूपवान् ॥ ११७ ॥

मैनाकत्राणकरणः सुमूर्धा भृकुटीचरः ।
वैखानसपतिर्वैश्यश्चक्षुरादिप्रयोजकः ॥ ११८ ॥

दत्तात्रेयः समाधिस्थोनवनागस्वरूपवान् ।
जन्ममृत्युजराहीनो दैत्यभेत्तेतिहासवित् ॥ ११९ ॥

वर्णातीतो वर्तमानः प्रज्ञादस्तापितासुरः ।
चण्डहासः करालास्यः कल्पातीतश्चिताधिपः ॥ १२० ॥

सर्गकृत्स्थितिकृद्धर्ता अक्षरस्त्रिगुणप्रियः ।
द्वादशात्मा गुणातीतस्त्रिगुणस्त्रिजगत्पतिः ॥ १२१ ॥

ज्वलनो वरुणो विन्ध्यः शमनो निरृतिः पृथुः ।
कृशानुरेता दैत्यारिस्तीर्थरूपो कुलाचलः ॥ १२२ ॥

देशकालापरिच्छेद्यो विश्वग्रासविलासकृत् ।
जठरो विश्वसंहर्ता विश्वादिगणनायकः ॥ १२३ ॥

श्रुतिज्ञो ब्रह्मजिज्ञासुराहारपरिणामकृत् ।
आत्मज्ञानपरः स्वान्तोऽव्यक्तोऽव्यक्तविभागवान् ॥ १२४ ॥

समाधिगुरुरव्यक्तोभक्ताज्ञाननिवारणः ।
कृतवर्णसमाचारः परिव्राडधिपो गृही ॥ १२५ ॥

महाकालः खगपतिवर्णावर्णविभागकृत् ।
कृतान्तः कीलितेन्द्रारिः क्षणकाष्ठादिरूपवान् ॥ १२६ ॥

विश्वजित्तत्त्वजिज्ञासुर्ब्राह्मणो ब्रह्मचर्यवान् ।
सर्ववर्णाश्रमपरो वर्णाश्रमबहिस्थितिः ॥ १२७ ॥

दैत्यारिर्ब्रह्मजिज्ञासुर्वर्णाश्रमनिषेवितः ।
ब्रह्माण्डोदरभृत्क्षेत्रं स्वरवर्णस्वरूपकः ॥ १२८ ॥

वेदान्तवचनातीतो वर्णाश्रमपरायणः ।
दृग्दृश्योभयरूपैकोमेनापतिसमर्चितः ॥ १२९ ॥

सत्त्वस्थः सकलद्रष्टा कृतवर्णाश्रमस्थितः ।
वर्णाश्रमपरित्राता सखा शूद्रादिवर्णवान् ॥ १३० ॥

वसुधोद्धारकरणः कालोपाधिः सदागतिः ।
दैतेयसूदनोतीतस्मृतिज्ञो वडवानलः ॥ १३१ ॥

समुद्रमथनाचार्यो वनस्थोयज्ञदैवतम् ।
दृष्टादृष्टक्रियातीतो हेमाद्रिर्हरिचन्दनः ॥ १३२ ॥

निषिद्धनास्तिकमतिर्यज्ञभुक्पारिजातकः ।
सहस्रभुजहाशान्तः पापारिक्षीरसागरः ॥ १३३ ॥

राजाधिराजसन्तानः कल्पवृक्षस्तनूनपात् ।
धन्वन्तरिर्वेदवक्ता चिताभस्माङ्गरागवान् ॥ १३४ ॥

काशीश्वरः श्रोणिभद्रो बाणासुरवरप्रदः ।
रजस्थः खण्ढिताधर्म आभिचारनिवारणः ॥ १३५ ॥

मन्दरो यागफलदस्तमस्थो दमवान्शमी ।
वर्णाश्रमाः नन्दपरो दृष्टादृष्टफलप्रदः ॥ १३६ ॥

कपिलस्त्रिगुणानन्दः सहस्रफणसेवितः ।
कुबेरो हिमवाञ्छत्रं त्रयीधर्मप्रवर्तकः ।
आदितेयो यज्ञफलं शक्तित्रयपरायणः ।
दुर्वासाः पितृलोकेशोवीरसिंहपुराणवित् ॥ १३८ ॥

अग्निमीळेस्फुरन्मूर्तिः सान्तर्ज्योतिः स्वरूपकः ।
सकलोपनिषत्कर्ता खांबरो ऋणमोचकः ॥ १३९ ॥

तत्त्वज्योतिः सहस्रांशुरिषेत्वोर्जलसत्तनुः ।
योगज्ञानमहाराजः सर्ववेदान्तकारणम् ॥ १४० ॥

योगज्ञानसदानन्दः अग्नआयाहिरूपवान् ।
ज्योतिरिन्द्रियसंवेद्यः स्वाधिष्ठानविजृम्भकः ॥ १४१ ॥

अखण्डब्रह्मखण्डश्रीः शन्नोदेवीस्वरूपवान् ।
योगज्ञानमहाबोधो रहस्यं क्षेत्रगोपकः ॥ १४२ ॥

भ्रूमध्यवेक्ष्यो गरली योगज्ञान सदाशिवः ।
चण्डाचण्डबृहद्भानुनर्यनस्त्वरितापतिः ॥ १४३ ॥

ज्ञानमहायोगी तत्त्वज्योतिः सुधारकः ।
फणिबद्धजटाजूटो बिन्दुनादकलात्मकः ॥ १४४ ॥

योगज्ञानमहासेनो लम्बिकोर्म्यभिषिञ्चितः ।
अन्तर्ज्योतिर्मूलदेवोऽनाहतः सुषुमाश्रयः ॥ १४५ ॥

भूतान्तविद्ब्रह्मभूतिर्योगज्ञानमहेश्वरः ।
शुक्लज्योतिः स्वरूपः श्रीयोगज्ञानमहार्णवः ॥ १४६ ॥

पूर्णविज्ञानभरितः सत्त्वविद्यावबोधकः ।
योगज्ञानमहादेवश्चन्द्रिकाद्रवसुद्रवः ॥ १४७ ॥

स्वभावयन्त्रसञ्चारः सहस्रदलमध्यगः ॥ १४८ ॥

ईश्वर उवाच ।
सहस्रनाममल्लारेरिदं दिव्यं प्रकाशितम् ।
लोकानां कृपया देविप्रीत्या तव वरानने ॥ १४९ ॥

य इदं पठते नित्यं पाठयेच्छृणुयादपि ।
भक्तितो वा प्रसङ्गाद्वा सकलं भद्रमश्नुते ॥ १५० ॥

पुस्तकं लिखितं गेहे पूजितं यत्र तिष्ठति ।
तत्र सर्वसमृद्धीनामधिष्ठानं न संशयः ॥ १५१ ॥

सुतार्थी धनदारार्थीविद्यार्थी व्याधिनाशकृत् ।
यशोर्थी विजयार्थीच त्रिवारं प्रत्यहं पठेत् ॥ १५२ ॥

महापापोपपापानां प्रायश्चित्तार्थमादरात् ।
प्रातस्नायी पठेदेतत् षण्मासात् सिद्धिमाप्नुयात् ॥ १५३ ॥

रहस्यानां च पापानां पठनादेव नाशनम् ।
सर्वारिष्टप्रशमनं दुःस्वप्नफलशान्तिदम् ॥ १५४ ॥

सूतिकाबालसौख्यार्थी सूतिकायतने पठेत् ।
सुसूतिं लभते नित्यं गर्भिणी श‍ृणुयादपि ॥ १५५ ॥

याचनारीपतद्गर्भादृढगर्भाभवेत्ध्रुवम् ।
सुतासुतपरीवारमण्डिता मोदते चिरम् ॥ १५६ ॥

आयुष्यसन्ततिं नूनं याभवेन्मृतवत्सका ।
वन्ध्यापि लभते भीष्टसन्ततिं नात्र संशयः ॥ १५७ ॥

भर्तुः प्रियत्वमाप्नोति सौभाग्यं च सुरूपताम् ।
नसपत्नीमपिलभेद्वैधव्यं नाप्नुयात्क्वचित् ॥ १५८ ॥

लभेत्प्रीतिमुदासीना पतिशुश्रूषणेरता ।
सर्वाधिकं वरं कन्याविरहं न कदाचन ॥ १५९ ॥

जातिस्मरत्वमाप्नोति पठनाच्छ्रवणादपि ।
स्खलद्गीः सरलांवाणीं कवित्वं कविताप्रियः ॥ १६० ॥

प्रज्ञातिशयमाप्नोति पठतां ग्रन्थधारणे ।
निर्विघ्नं सिद्धिमाप्नोति यः पठेद्ब्रह्मचर्यवान् ॥ १६१ ॥

सर्वरक्षाकरं श्रेष्ठं दुष्टग्रहनिवारणम् ।
सर्वोत्पातप्रशमनं बालग्रहविनाशनम् ॥ १६२ ॥

कुष्ठापस्माररोगादिहरणं पुण्यवर्धनम् ।
आयुर्वृद्धिकरं चैव पुष्टिदं तोषवर्धनम् ॥ १६३ ॥

विषमे पथि चोरादिसङ्घाते कलहागमे ।
रिपूणां सन्निधाने च संयमे न पठेदिदम् ॥ १६४ ॥

मनः क्षोभविषादे च हर्षोत्कर्षे तथैवच ।
इष्टारम्भसमाप्तो च पठितव्य प्रयत्नतः ॥ १६५ ॥

समुद्रतरणे पोतलञ्घने गिरिरोहणे ।
कर्षणे गजसिंहाद्यैः सावधाने पठेदिदम् ॥ १६६ ॥

अवर्षणे महोत्पाते दुरत्ययभवेत्तथा ।
शतवारं पठेदेतत्सर्वदुष्टोपशान्तये ॥ १६७ ॥

शनिवारेर्कवारे च षष्ठ्यां च नियतः पठेत् ।
मल्लारिं पूजयेद्विप्रान्भोजयेद्भक्तिपूर्वकम् ॥ १६८ ॥

उपवासोथवा नक्तमेकभक्तमयाचितम् ।
यथाशक्ति प्रकुर्वीत जपेत्सम्पूजयेद्धुनेत् ॥ १६९ ॥

अग्रवृद्ध्या पठेदेतद्धोमपूजा तथैव च ।
भोजयेदग्रवृद्धानांब्राह्मणाश्च सुवासिनीः ॥ १७० ॥

नानाजातिभवान्भक्तान्भोजयेदनिवारितम् ।
नानापरिमलैर्द्गव्यैः पल्लवैः कुसुमैरपि ॥ १७१ ॥

दमनोशीरपाक्यादितत्तत्कालोद्भवैः शुभैः ।
नैशभाण्डारचूर्णेन नानारञ्जिततन्दुलैः ॥ १७२ ॥

पूजयेन्म्हालसायुक्तं मल्लारिं देवभूषितम् ।
मल्लारिपूजनं होमः स्वभूषाभक्तपूजनम् ॥ १७३ ॥

प्रीतिदानोपयाञ्चादि नैशचूर्णेन सिद्धिदम् ।
यथाश्रमं यथाकालं यथाकुलचिकीर्षितम् ॥ १७४ ॥

नैवेद्यं पूजनं होमं कुर्यात्सर्वार्थसिद्धये ।
शुभं भाजनमादाय भक्त्या भोमण्डितः स्वयम् ॥ १७५ ॥

यथावर्णकुलाचारं प्रसादं याचयेन्मुहुः ।
मल्लारिक्षेत्रमुद्दिश्य यात्रां क्वापि प्रकल्पयेत् ॥ १७६ ॥

वित्तव्ययश्रमो नात्र मैरालस्तेन सिद्धिदः ।
मार्गशीर्षे विशेषेण प्रतिपत्षष्ठिकान्तरे ॥ १७७ ॥

पूजाद्यनुष्ठितं शक्त्या तदक्षयमसंशयम् ।
यद्यत्पूजादिकं भक्त्या सर्वकालमनुष्ठितम् ॥ १७८ ॥

अनन्तफलदं तत्स्यान्मार्गशीर्षे सकृत्कृतम् ।
धनधान्यादिधेन्वादि दासदासीगृहादिकम् ॥ १७९ ॥

मल्लारिप्रीतये देयं विशेषान्मार्गशीर्षके ।
चम्पाषष्ठ्यां स्कन्दषष्ठ्यां तथा सर्वेषु पर्वसु ॥ १८० ॥

चैत्रश्रावणपौषेषु प्रीतो मल्लारिरर्चितः ।
यद्यत्प्रियतमं यस्य लोकस्य सुखकारणम् ॥ १८१ ॥

वित्तशाठ्यं परित्यज्य मल्लारिप्रीतये पठेत् ।
प्रसङ्गाद्वापि बाल्याद्वा कापट्याद्दम्भतोपि वा ॥ १८२ ॥

यः पठेच्छ्रुणुयाद्वापि सर्वान्कामानवाप्नुयात् ।
अतिवश्यो भवेद्राजा लभते कामिनीगणम् ॥ १८३ ॥

यदसाध्यं भवेल्लोके तत्सर्वं वशमानयेत् ।
शस्त्राण्युत्पलसाराणि भवेद्वह्नि सुशीतलः ॥ १८४ ॥

मित्रवद्वैरिवर्गः स्याद्विषं स्यात्पुष्टिवर्धनम् ।
अन्धोपिलभते दृष्टिं बधिरोपि श्रुती लभेत् ॥ १८५ ॥

मूकोपि सरलां वाणीं पठन्वापाठयन्नपि ।
धर्ममर्थं च कामं च बहुधा कल्पितं मुदा ॥ १८६ ॥

पठन्श‍ृण्वन्नवाप्नोति पाठं यो मतिमानवः ।
ऐहिकं सकलं भुक्त्वा शेषे स्वर्गमवाप्नुयात् ॥ १८७ ॥

मुमुक्षुर्लभते मोक्षं पठन्निदमनुत्तमम् ।
सर्वकर्तुः फलं तस्य सर्वतीर्थफलं तथा ॥ १८८ ॥

सर्वदानफलं तस्य मल्लारिर्येन पूजितः ।
मल्लारिरिति नामैकं पुरुषार्थप्रदं ध्रुवम् ॥ १८९ ॥

सहस्रनामविद्यायाः कः फलं वेत्तितत्त्वतः ।
वेदास्याध्ययने पुण्यं योगाभ्यासेऽपि यत्फलम् ॥ १९० ॥

सकलं समवाप्नोति मल्लारिभजनात्प्रिये ।
तव प्रीत्यै मयाख्यातं लोकोपकृतकारणात् ॥ १९१ ॥

सहस्रनाममल्लारेः किमन्यच्छ्रोतुमिच्छसि ।
गुह्याद्गुह्यं परं पुण्यं न देयं भक्तिवर्जिते ॥ १९२ ॥

इति श्रीपद्मपुराणे शिवोपाख्याने मल्लारिप्रस्तावे शिवपार्वतीसंवादे
शिवप्रोक्तं मल्लारिसहस्रनामस्तोत्रं सम्पूर्णम् ।
श्रीसाम्बसदाशिवार्पणमस्तु ॥

॥ शुभंभवतु ॥

मल्हारी सहस्त्रनामस्तोत्रम्

Also Read 1000 Names of Shri Mallari:

1000 Names of Sri Mallari | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Mallari | Sahasranama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top