Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Natesha | Sahasranama Stotram Lyrics in Hindi

Natesha Sahasranama Stotram in Hindi:

॥ श्रीनटेशसहस्रनामस्तोत्रम् ॥

पूर्वपीठिका
यस्मात्सर्वं समुत्पन्नं चराचरमिदं जगत् ।
इदं नमो नटेशाय तस्मै कारुण्यमूर्तये ॥

ॐ कैलासशिखरे रम्ये रत्नसिंहासने स्थितम् ।
शङ्करं करुणामूर्तिं प्रणम्य परया मुदा ॥ १ ॥

विनयावनता भूत्वा पप्रच्छ परमेश्वरी ।
भगवन् भव सर्वज्ञ भवतापहराव्यय ॥ २ ॥

त्वत्तः श्रुतं मया देव सर्वं नामसहस्रकम् ।
नटेशस्य तु नामानि न श्रुतानि मया प्रभो ॥ ३ ॥

असंकृत्प्रार्थितोऽपि त्वं न तत्कथितवानसि ।
इदानीं कृपया शम्भो वद वाञ्छाभिपूर्तये ॥ ४ ॥

श्री शिव उवाच
साधु साधु महादेवि पृष्टं सर्वजगद्धितम् ।
पुरा नारायणः श्रीमान् लोकरक्षापरायणः ॥ ५ ॥

क्षीराब्धौ सुचिरं कालं साम्बमूर्तिधरं शिवम् ।
मामेकाग्रेण चित्तेन ध्यायन् न्यवसदच्युतः ॥ ६ ॥

तपसा तस्य सन्तुष्टः प्रसन्नोऽहं कृपावशात् ।
ध्यानात्समुत्थितो विष्णुर्लक्ष्म्या मां पर्यपूजयत् ॥ ७ ॥

तुष्टाव विविधैस्स्तोत्रैर्वेदवेदान्तसम्मितैः ।
वरं वरय हे वत्स यदिष्टं मनसि स्थितम् ॥ ८ ॥

तत्ते दास्यामि न चिरादित्युक्तः कमलेक्षणः ।
प्राह मां परया भक्त्या वरं दास्यसि चेत्प्रभो ॥ ९ ॥

रक्षार्थं सर्वजगतामसुराणां क्षयाय च ।
सार्वात्म्ययोगसिद्ध्यर्थं मन्त्रमेकं ममादिश ॥ १० ॥

इति सम्प्रार्थितस्तेन माधवेनाहमम्बिके ।
सञ्चिन्त्यानुत्तमं स्तोत्रं सर्वेषां सर्वसिद्धिदम् ॥ ११ ॥

नटेशनामसाहस्रमुक्तवानस्मि विष्णवे ।
तेन जित्वाऽसुरान् सर्वान् ररक्ष सकलं जगत् ॥ १२ ॥

सार्वात्म्ययोगसिद्धिं च प्राप्तवानम्बुजेक्षणः ।
तदेव प्रार्थयस्यद्य नामसाहस्रमम्बिके ॥ १३ ॥

पठनान्मननात्तस्य नृत्तं दर्शयति प्रभुः ।
सर्वपापहरं पुण्यं सर्वरक्षाकरं नृणाम् ॥ १४ ॥

सर्वैश्वर्यप्रदं सर्वसिद्धिदं मुक्तिदं परम् ।
वक्ष्यामि श‍ृणु हे देवि नामसाहस्रमुत्तमम् ॥ १५ ॥

अथ श्रीनटेशसहस्रनामस्तोत्रम् ।

ॐ अस्य श्रीनटेशसहस्रनामस्तोत्रमालामहामन्त्रस्य
सदाशिव ऋषिः, महाविराट् छन्दः श्रीमन्नटेशो देवता ।
बीजं, शक्तिः, कीलकं, अङ्गन्यासकरन्यासौ च चिन्तामणिमन्त्रवत् ।

ध्यानम्
ध्यायेत्कोटिरविप्रभं त्रिनयनं शीतांशुगङ्गाधरं
दक्षाङ्घ्रिस्थितवामकुञ्चितपदं शार्दूलचर्माम्बरम् ।
वह्निं डोलकराभयं डमरुकं वामे शिवां (स्थितां) श्यामलां
कल्हारं जपसृक्षुकं (दधतीं प्रलम्बितकरा) कटिकरां
देवीं सभेशं भजे ॥

लं पृथिव्यात्मकम् इत्यादिना पञ्चपूजा ।

श्रीशिव उवाच
श्रीशिवः श्रीशिवानाथः श्रीमान् श्रीपतिपूजितः ।
शिवङ्करः शिवतरश्शिष्टहृष्टश्शिवागमः ॥ १ ॥

अखण्डानन्दचिद्रूपः परमानन्दताण्डवः ।
अपस्मृतिन्यस्तपादः कृत्तिवासाः कृपाकरः ॥ २ ॥

कालीवादप्रियः कालः कालातीतः कलाधरः ।
कालनेता कालहन्ता कालचक्रप्रवर्तकः ॥ ३ ॥

कालज्ञः कामदः कान्तः कामारिः कामपालकः ।
कल्याणमूर्तिः कल्याणीरमणः कमलेक्षणः ॥ ४ ॥

कालकण्ठः कालकालः कालकूटविषाशनः ।
कृतज्ञः कृतिसारज्ञः कृशानुः कृष्णपिङ्गलः ॥ ५ ॥

करिचर्माम्बरधरः कपाली कलुषापहः ।
कपालमालाभरणः कङ्कालः कलिनाशनः ॥ ६ ॥

कैलासवासी कामेशः कविः कपटवर्जितः ।
कमनीयः कलानाथशेखरः कम्बुकन्धरः ॥ ७ ॥

कन्दर्पकोटिसदृशः कपर्दी कमलाननः ।
कराब्जधृतकालाग्निः कदम्बकुसुमारुणः ॥ ८ ॥

कमनीयनिजानन्दमुद्राञ्चितकराम्बुजः ।
स्फुरड्डमरुनिध्वाननिर्जिताम्भोधिनिस्वनः ॥ ९ ॥

उद्दण्डताण्डवश्चण्ड ऊर्ध्वताण्डवपण्डितः ।
सव्यताण्डवसम्पन्नो महाताण्डववैभवः ॥ १० ॥

ब्रह्माण्डकाण्डविस्फोटमहाप्रलयताण्डवः ।
महोग्रताण्डवाभिज्ञः परिभ्रमणताण्डवः ॥ ११ ॥

नन्दिनाट्यप्रियो नन्दी नटेशो नटवेषभृत् ।
कालिकानाट्यरसिको निशानटननिश्चलः ॥ १२ ॥

भृङ्गिनाट्यप्रमाणज्ञो भ्रमरायितनाट्यकृत् ।
वियदादिजगत्स्रष्टा विविधानन्ददायकः ॥ १३ ॥

विकाररहितो विष्णुर्विराडीशो विराण्मयः ।
विराढृदयपद्मस्थो विधिर्विश्वाधिको विभुः ॥ १४ ॥

वीरभद्रो विशालाक्षो विष्णुबाणो विशाम्पतिः ।
विद्यानिधिर्विरूपाक्षो विश्वयोनिर्वृषध्वजः ॥ १५ ॥

विरूपो विश्वदिग्व्यापी वीतशोको विरोचनः ।
व्योमकेशो व्योममूर्तिर्व्योमाकारोऽव्ययाकृतिः ॥ १६ ॥

व्याघ्रपादप्रियो व्याघ्रचर्मधृद्व्याधिनाशनः ।
व्याकृतो व्यापृतो व्यापी व्याप्यसाक्षी विशारदः ॥ १७ ॥

व्यामोहनाशनो व्यासो व्याख्यामुद्रालसत्करः ।
वरदो वामनो वन्द्यो वरिष्ठो वज्रवर्मभृत् ॥ १८ ॥

वेदवेद्यो वेदरूपो वेदवेदान्तवित्तमः ।
वेदार्थविद्वेदयोनिः वेदाङ्गो वेदसंस्तुतः ॥ १९ ॥

वैकुण्ठवल्लभोऽवर्ष्यो वैश्वानरविलोचनः ।
समस्तभुवनव्यापी समृद्धस्सततोदितः ॥ २० ॥

सूक्ष्मात्सूक्ष्मतरः सूर्यः सूक्ष्मस्थूलत्ववर्जितः ।
जह्नुकन्याधरो जन्मजरामृत्युनिवारकः ॥ २१ ॥

शूरसेनः शुभाकारः शुभ्रमूर्तिः शुचिस्मितः ।
अनर्घरत्नखचितकिरीटो निकटे स्थितः ॥ २२ ॥

सुधारूपः सुराध्यक्षः सुभ्रूः सुखघनः सुधीः ।
भद्रो भद्रप्रदो भद्रवाहनो भक्तवत्सलः ॥ २३ ॥

भगनेत्रहरो भर्गो भवघ्नो भक्तिमन्निधिः ।
अरुणः शरणः शर्वः शरण्यः शर्मदः शिवः ॥ २४ ॥

पवित्रः परमोदारः परमापन्निवारकः ।
सनातनस्समः सत्यः सत्यवादी समृद्धिदः ॥ २५ ॥

धन्वी धनाधिपो धन्यो धर्मगोप्ता धराधिपः ।
तरुणस्तारकस्ताम्रस्तरिष्णुस्तत्त्वबोधकः ॥ २६ ॥

राजराजेश्वरो रम्यो रात्रिञ्चरविनाशनः ।
गह्वरेष्ठो गणाधीशो गणेशो गतिवर्जितः ॥ २७ ॥

पतञ्जलिप्राणनाथः परापरविवर्जितः ।
परमात्मा परज्योतिः परमेष्ठी परात्परः ॥ २८ ॥

नारसिंहो नगाध्यक्षो नादान्तो नादवर्जितः ।
नमदानन्ददो नम्यो नगराजनिकेतनः ॥ २९ ॥

दैव्यो भिषक्प्रमाणज्ञो ब्रह्मण्यो ब्राह्मणात्मकः ।
कृताकृतः कृशः कृष्णः शान्तिदश्शरभाकृतिः ॥ ३० ॥

ब्रह्मविद्याप्रदो ब्रह्मा बृहद्गर्भो बृहस्पतिः ।
सद्यो जातस्सदाराध्यः सामगस्सामसंस्तुतः ॥ ३१ ॥

अघोरोऽद्भुतचारित्र आनन्दवपुरग्रणीः ।
सर्वविद्यानामीशान ईश्वराणामधीश्वरः ॥ ३२ ॥

सर्वार्थः सर्वदा तुष्टः सर्वशास्त्रार्थसम्मतः ।
सर्वज्ञः सर्वदः स्थाणुः सर्वेशस्समरप्रियः ॥ ३३ ॥

जनार्दनो जगत्स्वामी जन्मकर्मनिवारकः ।
मोचको मोहविच्छेत्ता मोदनीयो महाप्रभुः ॥ ३४ ॥

व्पुप्तकेशो विविशदो विष्वक्सेनो विशोधकः ।
सहस्राक्षः सहस्राङ्घ्रिः सहस्रवदनाम्बुजः ॥ ३५ ॥

सहस्राक्षार्चितः सम्राट् सन्धाता सम्पदालयः ।
बभ्रुर्बहुविधाकारो बलप्रमथनो बली ॥ ३६ ॥

मनोभर्ता मनोगम्यो मननैकपरायणः ।
उदासीन उपद्रष्टा मौनगम्यो मुनीश्वरः ॥ ३७ ॥

अमानी मदनोऽमन्युरमानो मानदो मनुः ।
यशस्वी यजमानात्मा यज्ञभुग्यजनप्रियः ॥ ३८ ॥

मीढुष्टमो मृगधरो मृकण्डुतनयप्रियः ।
पुरुहूतः पुरद्वेषी पुरत्रयविहारवान् ॥ ३९ ॥

पुण्यः पुमान्पुरिशयः पूषा पूर्णः पुरातनः ।
शयनश्शन्तमः शान्त शासकश्श्यामलाप्रियः ॥ ४० ॥

भावज्ञो बन्धविच्छेत्ता भावातीतोऽभयङ्करः ।
मनीषी मनुजाधीशो मिथ्याप्रत्ययनाशनः ॥ ४१ ॥

निरञ्जनो नित्यशुद्धो नित्यबुद्धो निराश्रयः ।
निर्विकल्पो निरालम्बो निर्विकारो निरामयः ॥ ४२ ॥

निरङ्कुशो निराधारो निरपायो निरत्ययः ।
गुहाशयो गुणातीतो गुरुमूर्तिर्गुहप्रियः ॥ ४३ ॥

प्रमाणं प्रणवः प्राज्ञः प्राणदः प्राणनायकः ।
सूत्रात्मा सुलभस्स्वच्छः सूदरस्सुन्दराननः ॥ ४४ ॥

कपालमालालङ्कारः कालान्तकवपुर्धरः ।
दुराराध्यो दुराधर्षो दुष्टदूरो दुरासदः ॥ ४५ ॥

दुर्विज्ञेयो दुराचारनाशनो दुर्मदान्तकः ।
सर्वेश्वरः सर्वसाक्षी सर्वात्मा साक्षिवर्जितः ॥ ४६ ॥

सर्वद्वन्द्वक्षयकरः सर्वापद्विनिवारकः ।
सर्वप्रियतमस्सर्वदारिद्यक्लेशनाशनः ॥ ४७ ॥

द्रष्टा दर्शयिता दान्तो दक्षिणामूर्तिरूपभृत् ।
दक्षाध्वरहरो दक्षो दहरस्थो दयानिधिः ॥ ४८ ॥

समदृष्टिस्सत्यकामः सनकादिमुनिस्तुतः ।
पतिः पञ्चत्वनिर्मुक्तः पञ्चकृत्यपरायणः ॥

पञ्चयज्ञप्रियः पञ्चप्राणाधिपतिरव्ययः ।
पञ्चभूतप्रभुः पञ्चपूजासन्तुष्टमानसः ॥ ५० ॥

विघ्नेश्वरो विघ्नहन्ता शक्तिपाणिश्शरोद्भवः ।
गूढो गुह्यतमो गोप्यो गोरक्षी गणसेवितः ॥ ५१ ॥

सुव्रतस्सत्यसङ्कल्पः स्वसंवेद्यस्सुखावहः ।
योगगम्यो योगनिष्ठो योगानन्दो युधिष्ठिरः ॥ ५२ ॥

तत्वावबोधस्तत्वेशः तत्वभावस्तपोनिधिः ।
अक्षरस्त्र्यक्षरस्त्रयक्षः पक्षपातविवर्जितः ॥ ५३ ॥

माणिभद्रार्चितो मान्यो मायावी मान्त्रिको महान् ।
कुठारभृत्कुलाद्रीशः कुञ्चितैकपदाम्बुजः ॥ ५४ ॥

यक्षराड्यज्ञफलदो यज्ञमूर्तिर्यशस्करः ।
सिद्धेशस्सिद्धिजनकः सिद्धान्तस्सिद्धवैभवः ॥ ५५ ॥

रविमण्डलमध्यस्थो रजोगुणविवर्जितः ।
वह्निमण्डलमध्यस्थो वर्षीयान् वरुणेश्वरः ॥ ५६ ॥

सोममण्डलमध्यस्थः सोमस्सौम्यस्सुहृद्वरः ।
दक्षिणाग्निर्गार्हपत्यो दमनो दमनान्तकः (दानवान्तकः) ॥ ५७ ॥

चतुर्वक्त्रश्चक्रधरः पञ्चवक्त्रः परं तपः ।
विश्वस्यायतनो वर्यो वन्दारुजनवत्सलः ॥ ५८ ॥

गायत्रीवल्लभो गार्ग्यो गायकानुग्रहोन्मुखः ।
अनन्तरूप एकात्मा स्वस्तरुर्व्याहृतिस्स्वधा ॥ ५९ ॥

स्वाहारूपो वसुमनाः वटुकः क्षेत्रपालकः ।
श्राव्यश्शत्रुहरश्शूली श्रुतिस्मृतिविधायकः ॥ ६० ॥

अप्रमेयोऽप्रतिरथः प्रद्युम्नः प्रमथेश्वरः ।
अनुत्तमो ह्युदासीनो मुक्तिदो मुदिताननः ॥ ६१ ॥

ऊर्ध्वरेता ऊर्ध्वपादः प्रौढनर्तनलम्पटः ।
महामायो महायासो महावीर्यो महाभुजः ॥ ६२ ॥

महानन्दो महास्कन्दो महेन्द्रो महसान्निधिः ।
भ्राजिष्णुर्भावनागम्यः भ्रान्तिज्ञानविनाशनः ॥ ६३ ॥

महर्धिर्महिमाधारो महासेनगुरुर्महः ।
सर्वदृग्सर्वभूत्सर्गः सर्वहृत्कोशसंस्थितः ॥ ६४ ॥

दीर्घपिङ्गजटाजूटो दीर्घबाहुर्दिगम्बरः ।
संयद्वामस्सङ्यमीन्द्रः संशयच्छित्सहस्रदृक् ॥ ६५ ॥

हेतुदृष्टान्तनिर्मुक्तो हेतुर्हेरम्बजन्मभूः ।
हेलाविनिर्मितजगद्धेमश्मश्रुर्हिरण्मयः ॥ ६६ ॥

सकृद्विभातस्संवेत्ता सदसत्को टिवर्जितः ।
स्वात्मस्थस्स्वायुधः स्वामी स्वानन्यस्स्वांशिताखिलः ॥ ६७ ॥

रातिर्दातिश्चतुष्पादः स्वात्मरुणहरस्स्वभूः ।
वशी वरेण्यो विततो वज्रभृद्वरुणात्मजः ॥ ६८ ॥

चैतन्यश्चिच्छिदद्वैतः चिन्मात्रश्चित्सभाधिपः ।
भूमा भूतपतिर्भव्यो भृर्भुवो व्याहृतिप्रियः ॥ ६९ ॥

वाच्यवाचकनिर्मुक्तो वागीशो वागगोचरः ।
वेदान्तकृत्तुर्यपादो वैद्युतस्सुकृतोद्भवः ॥ ७० ॥

अशुभक्षयकृज्ज्योतिः अनाकाशो ह्यलेपकः ।
आप्तकामोऽनुमन्ताऽऽत्म कामोऽभिन्नोऽनणुर्हरः ॥ ७१ ॥

अस्नेहस्सङ्गनिर्मुक्तोऽह्रस्वोऽदीर्घोऽविशेषकः ।
स्वच्छन्दस्स्वच्छसंवित्तिरन्वेष्टव्योऽश्रुतोऽमृतः ॥ ७२ ॥

अपरोक्षोऽव्रणोऽलिङ्गोऽविद्वेष्टा प्रेमसागरः ।
ज्ञानलिङ्गो गतिर्ज्ञानी ज्ञानगम्योऽवभासकः ॥ ७३ ॥

शुद्धस्फटिकसङ्काशः श्रुतिप्रस्तुतवैभवः ।
हिरण्यबाहुस्सेनानी हरिकेशो दिशां पतिः ॥ ७४ ॥

सस्पिञ्जरः पशुपतिः त्विषीमानध्वनां पतिः ।
बभ्लुशो भगवान्भव्यो विव्याधी विगतज्वरः ॥ ७५ ॥

अन्नानां पतिरत्युग्रो हरिकेशोऽद्वयाकृतिः ।
पुष्टानां पतिरव्यग्रो भवहेतुर्जगत्पतिः ॥ ७६ ॥

आततावी महारुद्रः क्षेत्राणामधिपोऽक्षयः ।
सूतस्सदस्पतिस्सूरिरहन्त्यो वनपो वरः ॥ ७७ ॥

रोहितस्स्थपतिर्वृक्षपतिर्मन्त्री च वाणिजः ।
कक्षपश्च भुवन्तिश्च भवाख्यो वारिवस्कृतः ॥ ७८ ॥

ओषधीशस्सतामीशः उच्चैर्घोषो विभीषणः ।
पत्तीनामधिपः कृत्स्नवीतो धावन्स सत्वपः ॥ ७९ ॥

सहमानस्सत्यधर्मा निव्याधी नियमो यमः ।
आव्याधिपतिरादित्यः ककुभः कालकोविदः ॥ ८० ॥

निषङ्गीषुधिमानिन्द्रः तस्कराणामधीश्वरः ।
निचेरुकः परिचरोऽरण्यानां पतिरद्भुतः ॥ ८१ ॥

सृकावी मुष्णातां नाथः पञ्चाशद्वर्णरूपभृत् ।
नक्तञ्चरः प्रकृन्तानां पतिर्गिरिचरो यः ॥ ८२ ॥

कुलुञ्चानां पतिः कूप्यो धन्वावी धनदाधिपः ।
आतन्वानश्शतानन्दः गृत्सो गृत्सपतिस्सुरः ॥ ८३ ॥

व्रातो व्रातपतिर्विप्रो वरीयान् क्षुल्लकः क्षमी ।
बिल्मी वरूथी दुन्दुभ्य आहनन्यः प्रमर्शकः ॥ ८४ ॥

धृष्णुर्दूतस्तीक्ष्णदंष्ट्रः सुधन्वा सुलभस्सुखी ।
स्रुत्यः पथ्यः स्वतन्त्रस्थः काट्यो नीप्यः करोटिभृत् ॥ ८५ ॥

सूद्यस्सरस्यो वैशन्तो नाद्योऽवट्यः प्रवर्षकः ।
विद्युत्यो विशदो मेध्यो रेष्मियो वास्तुपो वसुः ॥ ८६ ॥

अग्रेवधोऽग्रे सम्पूज्यो हन्ता तारो मयोभवः ।
मयस्करो महातीर्थ्यः कूल्यः पार्यः पदात्मकः ॥ ८७ ॥

शङ्गः प्रतरणोऽवार्यः फेन्यः शष्प्यः प्रवाहजः ।
मुनिरातार्य आलाद्य सिकत्यश्चाथ किंशिलः ॥ ८८ ॥

पुलस्त्यः क्षयणो गृध्यो गोष्ठ्यो गोपरिपालकः ।
शुष्क्यो हरित्यो लोप्यश्च सूर्म्यः पर्ण्योऽणिमादिभूः ॥ ८९ ॥

पर्णशद्यः प्रत्यगात्मा प्रसन्नः परमोन्नतः ।
शीघ्रियश्शीभ्य आनन्द क्षयद्वीरः क्षराऽक्षरः ॥ ९० ॥

पाशी पातकसंहर्ता तीक्ष्णेषुस्तिमिरापहः ।
वराभयप्रदो ब्रह्मपुच्छो ब्रह्मविदां वरः ॥ ९१ ॥

ब्रह्मविद्यागुरुर्गुह्यो गुह्यकैस्समभिष्टुतः ।
कृतान्तकृत्क्रियाधारः कृती कृपणरक्षकः ॥ ९२ ॥

नैष्कर्म्यदो नवरसः त्रिस्थस्त्रिपुरभैरवः ।
त्रिमात्रकस्त्रिवृदूपः तृतीयस्त्रिगुणातिगः ॥ ९३ ॥

त्रिधामा त्रिजगद्धेतुः त्रिकर्ता तिर्यगूर्ध्वगः ।
प्रपञ्चोपशमो नामरूपद्वयविवर्जितः ॥ ९४ ॥

प्रकृतीशः प्रतिष्ठाता प्रभवः प्रमथः प्रथी ।
सुनिश्चितार्थो राद्धान्तः तत्वमर्थस्तपोमयः ।
हितः प्रमाता प्राग्वर्ती सर्वोपनिषदाश्रयः ।
विश‍ृङ्खलो वियद्धेतुः विषमो विद्रुमप्रभः ॥ ९६ ॥

अखण्डबोधोऽखण्डात्मा घण्टामण्डलमण्डितः ।
अनन्तशक्तिराचार्यः पुष्कलस्सर्वपूरणः ॥ ९७ ॥

पुरजित्पूर्वजः पुष्पहासः पुण्यफलप्रदः ।
ध्यानगम्यो ध्यातृरूपो ध्येयो धर्मविदां वरः ॥ ९८ ॥

अवशः स्ववशः स्थाणुरन्तर्यामी शतक्रतुः ।
कूटस्थः कूर्मपीठस्थः कूष्माण्डग्रहमोचकः ॥ ९९ ॥

कूलङ्कषः कृपासिन्धुः कुशली कुङ्कुमेश्वरः ।
गदाधरो गणस्वामी गरिष्ठस्तोमरायुधः ॥ १०० ॥

जवनो जगदाधारो जमदग्निर्जराहरः ।
जटाधरोऽमृताधारोऽमृतांशुरमृतोद्भवः ॥ १०१ ॥

विद्वत्तमो विदूरस्थो विश्रमो वेदनामयः ।
चतुर्भुजश्शततनुः शमिताखिलकौतुकः ॥ १०२ ॥

वौषट्कारो वषट्कारो हुङ्कारः फट्करः पटुः ।
ब्रह्मिष्ठो ब्रह्मसूत्रार्थो ब्रह्मज्ञो ब्रह्मचेतनः ॥ १०३ ॥

गायको गरुडारूढो गजासुरविमर्दनः ।
गर्वितो गगनावासो ग्रन्थित्रयविभेदनः ॥ १०४ ॥

भूतमुक्तावलीतन्तुः भूतपूर्वो भुजङ्गभृत् ।
अतर्क्यस्सुकरः सूरः सत्तामात्रस्सदाशिवः ॥ १०५ ॥

शक्तिपातकरश्शक्तः शाश्वतश्श्रेयसा निधिः ।
अजीर्णस्सुकुमारोऽन्यः पारदर्शी पुरन्दरः ॥ १०६ ॥

अनावरणविज्ञानो निर्विभागो विभावसुः ।
विज्ञानमात्रो विरजाः विरामो विबुधाश्रयः ॥ १०७ ॥

विदग्दमुग्धवेषाढ्यो विश्वातीतो विशोकदः ।
मायानाट्यविनोदज्ञो मायानटनशिक्षकः ॥ १०८ ॥

मायानाटककृन्मायी मायायन्त्रविमोचकः ।
वृद्धिक्षयविनिर्मुक्तो विद्योतो विश्वञ्चकः ॥ १०९ ॥

कालात्मा कालिकानाथः कार्कोटकविभूषणः ।
षडूर्मिरहितः स्तव्यः षड्गुणैश्वर्यदायकः ॥ ११० ॥

षडाधारगतः साङ्ख्यः षडक्षरसमाश्रयः ।
अनिर्देश्योऽनिलोऽगम्योऽविक्रियोऽमोघवैभवः ॥ १११ ॥

हेयादेयविनिर्मुक्तो हेलाकलितताण्डवः ।
अपर्यन्तीऽपरिच्छेद्योऽगोचरो रुग्विमोचकः ॥ ११२ ॥

निरंशो निगमानन्दो निरानन्दो निदानभूः ।
आदिभूतो महाभूतः स्वेच्छाकलितविग्रहः ॥

निस्पन्दः प्रत्यगानन्दो निर्निमेषो निरन्तरः ।
प्रबुद्धः परमोदारः परमानन्दसागरः ॥ ११४ ॥

संवत्सरः कलापूर्णः सुरासुरनमस्कृतः ।
निर्वाणदो निर्वृतिस्थो निर्वैरो निरुपाधिकः ॥

आभास्वरः परं तत्वमादिमः पेशलः पविः ।
संशान्तसर्वसङ्कल्पः संसदीशस्सदोदितः ॥ ११६ ॥

भावाभावविनिर्मुक्तो भारूपो भावितो भरः ।
सर्वातीतस्सारतरः साम्बस्सारस्वतप्रदः ॥ ११७ ॥

सर्वकृत्सर्वभृत्सर्वमयस्सत्वावलम्बकः ।
केवलः केशवः केलीकर केवलनायकः ॥ ११८ ॥

इच्छानिच्छाविरहितो विहारी वीर्यवर्धनः ।
विजिघत्सो विगतभीः विपिपासो विभावनः ॥ ११९ ॥

विश्रान्तिभूर्विवसनो विघ्नहर्ता विशोधकः ।
वीरप्रियो वीतभयो विन्ध्यदर्पविनाशनः ॥ १२० ॥

वेतालनटनप्रीतो वेतण्डत्वक्कृताम्बरः ।
वेलातिलङ्घिकरुणो विलासी विक्रमोन्नतः ॥ १२१ ॥

वैराग्यशेवधिर्विश्वभोक्ता सर्वोर्ध्वसंस्थितः ।
महाकर्ता महाभोक्ता महासंविन्मयो मधुः ॥ १२२ ॥

मनोवचोभिरग्राह्यो महाबिलकृतालयः ।
अनहङ्कृतिरच्छेद्यः स्वानन्दैकघनाकृतिः ॥ १२३ ॥

संवर्ताग्न्युदरस्सर्वान्तरस्थस्सर्वदुर्ग्रहः ।
सम्पन्नस्सङ्क्रमस्सत्री सन्धाता सकलोर्जितः ॥ १२४ ॥

सम्पन्नस्सन्निकृष्टः संविमृष्टस्समयदृक् ।
संयमस्थः संहृतिस्थः सम्प्रविष्टस्समुत्सुकः ॥ १२५ ॥

सम्प्रहृष्टस्सन्निविष्टः संस्पृष्टस्सम्प्रमर्दनः ।
सूत्रभूतस्स्वप्रकाशः समशीलस्सदादयः ॥ १२६ ॥

सत्वसंस्थस्सुषुप्तिस्थः सुतल्पस्सत्स्वरूपगः ।
सङ्कल्पोल्लासनिर्मुक्तः समनीरागचेतनः ॥ १२७ ॥

आदित्यवर्णस्सञ्ज्योतिः सम्यग्दर्शनतत्परः ।
महातात्पर्यनिलयः प्रत्ग्ब्रह्यैक्यनिश्चयः ॥ १२८ ॥

प्रपञ्चोल्लासनिर्मुक्तः प्रत्यक्षः प्रतिभात्मकः ।
प्रवेगः प्रमदार्धाङ्गः प्रनर्तनपरायणः ॥ १२९ ॥

योगयोनिर्यथाभूतो यक्षगन्धर्ववन्दितः ।
जटिलश्चटुलापाङ्गो महानटनलम्पटः ॥ १३० ॥

पाटलाशुः पटुतरः पारिजातद्रु मूलगः ।
पापाटवीबृहद्भानुः भानुमत्कोटिकोटिभः ॥ १३१ ॥

कोटिकन्दर्पसौभाग्यसुन्दरो मधुरस्मितः ।
लास्यामृताब्धिलहरीपूर्णेन्दुः पुण्यगोचरः ॥ १३२ ॥

रुद्राक्षस्रङ्मयाकल्पः कह्लारकिरणद्युतिः ।
अमूल्यमणिसम्भास्वत्फणीन्द्रकरकङ्कणः ॥ १३३ ॥

चिच्छक्तिलोचनानन्दकन्दलः कुन्दपाण्डुरः ।
अगम्यमहिमाम्भोधिरनौपम्ययशोनिधिः ॥ १३४ ॥

चिदानन्दनटाधीशः चित्केवलवपुर्धरः ।
चिदेकरससम्पूर्णः श्रीशिव श्रीमहेश्वरः ॥ १३५ ॥

॥ इति श्रीनटेशसहस्रनामस्तोत्रं सम्पूर्णम् ॥

Also Read:

1000 Names of Sri Natasha | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Natesha | Sahasranama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top