Templesinindiainfo

Best Spiritual Website

108 Names of Sri Hanuman 2 | Ashtottara Shatanamavali Lyrics in Hindi

Hanumada Ashtottarashata Namavali 2 Lyrics in Hindi:

॥ हनुमदष्टोत्तरशतनामावलिः २ ॥
(श्रीमद्रामायण किष्किन्धादिकाण्डगत हनुमद्विजयपरा नामावलिः)

रामदासाग्रण्ये नमः । श्रीमते । हनूमते । पवनात्मजाय ।
आञ्जनेयाय । कपिश्रेष्ठाय । केसरीप्रियनन्दनाय ।
आरोपितांसयुगलरामरामानुजाय । सुधिये । सुग्रीवसचिवाय ।
वालिजितसुग्रीवमाल्यदाय ।
रामोपकारविस्मृतसुग्रीवसुमतिप्रदाय । सुग्रीवसत्पक्षपातिने ।
रामकार्यसुसाधकाय । मैनाकाश्लेषकृते । नागजननीजीवनप्रदाय ।
सर्वदेवस्तुताय । सर्वदेवानन्दविवर्धनाय । छायान्त्रमालाधारिणे ।
छायाग्रहविभेदकाय नमः । २० ।

सुमेरुसुमहाकायाय नमः । गोष्पदीकृतवारिधये । बिडाल-
सदृशाकाराय । तप्तताम्रसमाननाय । लङ्कानिभञ्जनाय ।
सीताराममुद्राङ्गुलीयदाय । रामचेष्टानुसारेण चेष्टाकृते ।
विश्वमङ्गलाय । श्रीरामहृदयाभिज्ञाय । निःशेषसुरपूजिताय ।
अशोकवनसञ्च्छेत्रे । शिंशपावृक्षरक्षकाय ।
सर्वरक्षोविनाशार्थं कृतकोलाहलध्वनये । तलप्रहारतः
क्षुण्णबहुकोटिनिशाचराय । पुच्छघातविनिष्पिष्टबहुकोटिनराशनाय ।
जम्बुमाल्यन्तकाय । सर्वलोकान्तरसुताय । कपये । स्वदेहप्राप्त-
पिष्टाङ्गदुर्धर्षाभिधराक्षसाय । तलचूर्णितयूपाक्षाय नमः । ४० ।

विरूपाक्षनिबर्हणाय नमः । सुरान्तरात्मनः पुत्राय । भासकर्ण-
विनाशकाय । अद्रिश‍ृङ्गविनिष्पिष्टप्रघसाभिधराक्षसाय ।
दशास्यमन्त्रिपुत्रघ्नाय । पोथिताक्षकुमारकाय ।
सुवञ्चितेन्द्रजिन्मुक्तनानाशस्त्रास्त्रवर्ष्टिकाय ।
इन्द्रशत्रुविनिर्मुक्तशस्त्राचाल्यसुविग्रहाय ।
सुखेच्छयेन्द्रजिन्मुक्तब्रह्मास्त्रवशगाय । कृतिने ।
तृणीकृतेन्द्रजित्पूर्वमहाराक्षसयूथपाय ।
रामविक्रमसत्सिन्धुस्तोत्रकोपितरावणाय ।
स्वपुच्छवह्निनिर्दग्धलङ्कालङ्कापुरेश्वराय ।
वह्न्यनिर्दग्धाच्छपुच्छाय । पुनर्लङ्घितवारिधये । जलदैवतसूनवे ।
सर्ववानरपूजिताय । सन्तुष्टाय । कपिभिः सार्धं सुग्रीवमधुभक्षकाय ।
रामपादार्पितश्रीमच्चूडामणये नमः । ६० ।

अनाकुलाय नमः । भक्त्या कृतानेकरामप्रणामाय । वायुनन्दनाय ।
रामालिङ्गनतुष्टाङ्गाय । रामप्राणप्रियाय । शुचये ।
रामपादैकनिरतविभीषणपरिग्रहाय । विभीषणश्रियः कर्त्रे ।
रामलालितनीतिमते । विद्रावितेन्द्रशत्रवे । लक्ष्मणैकयशःप्रदाय ।
शिलाप्रहारनिष्पिष्टधूम्राक्षरथसारथये ।
गिरिश‍ृङ्गविनिष्पिष्टधूम्राक्षाय ।
बलवारिधये । अकम्पनप्राणहर्त्रे । पूर्णविज्ञानचिद्घनाय ।
रणाध्वरे कण्ठरोधमारितैकनिकुम्भकाय । नरान्तकरथच्छेत्रे ।
देवान्तकविनाशकाय ।
मत्ताख्यराक्षसच्छेत्रे नमः । ८० ।

युद्धोन्मत्तनिकृन्तनाय नमः । त्रिशिरोधनुषश्छेत्रे ।
त्रिशिरःखड्गभञ्जनाय नमः । त्रिशिरोरथसंहारिणे ।
त्रिशिरस्त्रिशिरोहराय ।
रावणोरसि निष्पिष्टमुष्टये । दैत्यभयङ्कराय ।
वज्रकल्पमहामुष्टिघातचूर्णितरावणाय । अशेषभुवनाधाराय ।
लक्ष्मणोद्धरणक्षमाय । सुग्रीवप्राणरक्षार्थं मक्षिकोपमविग्रहाय ।
कुम्भकर्णत्रिशूलैकसञ्छेत्रे । विष्णुभक्तिमते ।
नागास्त्रास्पृष्टसद्देहाय । कुम्भकर्णविमोहकाय ।
शस्त्रास्त्रास्पृष्टसद्देहाय । सुज्ञानिने ।
रामसम्मताय । अशेषकपिरक्षार्थमानीतौषधिपर्वताय ।
स्वशक्त्या लक्ष्मणोद्धर्त्रे । लक्ष्मणोज्जीवनप्रदाय ।
लक्ष्मणप्राणरक्षार्थमानीतौषधिपर्वताय नमः ।
तपःकृशाङ्गभरते रामागमनशंसकाय । रामस्तुतस्वमहिम्ने ।
सदा सन्दृष्टराघवाय । रामच्छत्रधराय देवाय ।
वेदान्तपरिनिष्ठिताय । मूलरामायणसुधासमुद्रस्नानतत्पराय ।
बदरीषण्डमध्यस्थनारायणनिषेवकाय नमः । १०८ ।

(श्रीमद्रामायण किष्किन्धादिकाण्डगत हनुमद्विजयपरा नामावलिः)

Also Read 108 Names of Sri Anjaneya 2:

108 Names of Sri Hanuman 2 | Ashtottara Shatanamavali Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

108 Names of Sri Hanuman 2 | Ashtottara Shatanamavali Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top