1000 Names of Nrisimha | Narasimha Sahasranama Stotram Lyrics in Hindi
Narasimhasahasranama Stotram Lyrics in Hindi: ॥ लक्ष्मीनृसिंहसहस्रनामस्तोत्रम् ॥ दिव्यलक्ष्मीनृसिंहसहस्रनामस्तोत्रम् ॥ स्तोत्रस्य पूर्वपीठिका ॥ ॐ मार्कण्डेय उवाच – एवं युद्धमभूद्घोरं रौद्रं दैत्यबलैः सह । नृसिंहस्याङ्गसम्भूतैर्नारसिंहैरनेकशः ॥ १ ॥ दैत्यकोटिहतास्तत्र केचिद्भीताः पलायिताः । तं दृष्ट्वातीव सङ्क्रुद्धो हिरण्यकशिपुः स्वयम् ॥ २ ॥ भूतपूर्वैरमृत्युर्मे इति ब्रह्मवरोद्धतः । ववर्ष शरवर्षेण नारसिंहो भृशं बली ॥ ३ ॥ द्वन्द्वयुद्धमभूदुग्रं दिव्यवर्षसहस्रकम् । दैत्येन्द्रसाहसं […]