Templesinindiainfo

Best Spiritual Website

Shri Guruvayupureshvara Ashtottarashatanama Stotraratnam Lyrics in Hindi

Sri Guruvayupureshvara Ashtottarashatanama Stotraratnam Lyrics in Hindi:

श्रीगुरुवायुपुरेश्वराष्टोत्तरशतनामस्तोत्ररत्नम्
श्रीविद्याराजगोपालाभिधश्रीमहावैकुण्ठेश्वरस्वरूप
श्रीगुरुवायुपुरेश्वराष्टोत्तरशतनामस्तोत्ररत्नम् ॥

पार्वत्युवाच –
देवदेव महादेव महावैष्णवतल्लज ।
जीववातपुरेशस्य माहात्म्यमखिलं त्वया ॥ १ ॥

मन्त्रतन्त्ररहस्याढ्यैः सहस्राधिकनामभिः ।
अद्य मे प्रेमभारेणोपन्यस्तमिदमद्भुतम् ॥ २ ॥

महावैकुण्ठनाथस्य प्रभावमखिलं प्रभो ।
सङ्ग्रहेण श्रोतुमद्य त्वरायुक्तास्म्यहं प्रभो ॥ ३ ॥

यस्य श्रवणमात्रेण जीववृन्देषु सर्वतः ।
नातिकृच्छ्रेण यत्नेन लसेयुः सर्वसिद्धयः ॥ ४ ॥

तादृशं सुलभं स्तोत्रं श्रोतुमिच्छामि त्वन्मुखात् ।
ईश्वर उवाच –
महादेवि शिवे भद्रे जीववातपुरेशितुः ॥ ५ ॥

माहात्म्यवारिधौ मग्नः पूरयामि त्वदीप्सितम् ।
पूर्वं यन्नामसाहस्रं तस्य देवस्य भाषितम् ॥ ६ ॥

तस्यादौ विजृम्भमाणैरष्टाधिकशतेन तु ।
नामभिर्निर्मितं स्तोत्रं सर्वसिद्धिविधायकम् ॥ ७ ॥

पठितुं नामसाहस्रं अशक्ताः सन्ति ये शिवे ।
तेषामर्थे स्तोत्रमेतत्सङ्गृहीतं फलप्रदम् ॥ ८ ॥

अनुकूलौ देशकालौ यस्य स्तो जगतीह तु ।
पठितव्यं तेन नामसाहस्रं यत्नतः शिवे ॥ ९ ॥

आलस्यदूषिते चित्ते विश्वासरहिते तथा ।
गुरुवातपुरेशस्य न हि मूर्तिः प्रसीदति ॥ १० ॥

गुरोरन्यत्र विश्वासी तथा वातपुरेशितुः ।
कथमेतत्फलं प्रोक्तं यथावदधिगच्छति ॥ ११ ॥

एक एव गुरुर्यस्य वैकुण्ठो यस्य दैवतम् ।
तस्य भक्तस्य नूनं हि स्तोत्रमेतत्फलिष्यति ॥ १२ ॥

अद्य ते देवि वक्ष्यामि नाम्नामष्टोत्तरं शतम् ।
स्तोत्रराजमिमं पुण्यं सावधानमनाः श‍ृणु ॥ १३ ॥

स्तोत्रस्यास्य ऋषिः प्रोक्तो दक्षिणामूर्तिरीश्वरः ।
छन्दोऽनुष्टुप् तथा देवो गुरुवायुपुरेश्वरः ॥ १४ ॥

रमाशक्तिस्मरैर्बीजैः बीजशक्ती च कीलकम् ।
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥ १५ ॥

मूलमन्त्रस्य षड्भागैः कराङ्गन्यासमाचरेत् ।
महावैकुण्ठरूपेण ध्यातव्यात्र हि देवता ॥ १६ ॥

इन्द्रनीलसमच्छायं पीताम्बरधरं हरिम् ।
शङ्खचक्रगदापद्मैर्लसद्बाहुं विचिन्तयेत् ॥ १७ ॥

ध्यानम् –
क्षीराम्भोधिस्थकल्पद्रुमवनविलसद्रत्नयुङ्मण्टपान्तः
शङ्खं चक्रं प्रसूनं कुसुमशरचयं चेक्षुकोदण्डपाशौ ।
हस्ताग्रैर्धारयन्तं सृणिमपि च गदां भूरमाऽऽलिङ्गितं तं
ध्यायेत्सिन्दूरकान्तिं विधिमुखविबुधैरीड्यमानं मुकुन्दम् ॥

अथ अष्टोत्तरशतनामस्तोत्रम् ।
महावैकुण्ठनाथाख्यो महानारायणाभिधः ।
तारश्रीशक्तिकन्दर्पचतुर्बीजकशोभितः ॥ १९ ॥

गोपालसुन्दरीरूपः श्रीविद्यामन्त्रविग्रहः ।
रमाबीजसमारम्भो हृल्लेखासमलङ्कृतः ॥ २० ॥

मारबीजसमायुक्तो वाणीबीजसमन्वितः ।
पराबीजसमाराध्यो मीनकेतनबीजकः ॥ २१ ॥

तारशक्तिरमायुक्तः कृष्णायपदपूजितः ।
कादिविद्याद्यकूटाढ्यो गोविन्दायपदप्रियः ॥ २२ ॥

कामराजाख्यकूटेशो गोपीजनसुभाषितः ।
वल्लभायपदप्रीतः शक्तिकूटविजृम्भितः ॥ २३ ॥

वह्निजायासमायुक्तः परावाङ्मदनप्रियः ।
मायारमासुसम्पूर्णो मन्त्रराजकलेबरः ॥ २४ ॥

द्वादशावृतिचक्रेशो यन्त्रराजशरीरकः ।
पिण्डगोपालबीजाढ्यः सर्वमोहनचक्रगः ॥ २५ ॥

षडक्षरीमन्त्ररूपो मन्त्रात्मरसकोणगः ।
पञ्चाङ्गकमनुप्रीतः सन्धिचक्रसमर्चितः ॥ २६ ॥

अष्टाक्षरीमन्त्ररूपो महिष्यष्टकसेवितः ।
षोडशाक्षरमन्त्रात्मा कलानिधिकलार्चितः ॥ २७ ॥

अष्टादशाक्षरीरूपोऽष्टादशदलपूजितः ।
चतुर्विंशतिवर्णात्मगायत्रीमनुसेवितः ॥ २८ ॥

चतुर्विंशतिनामात्मशक्तिवृन्दनिषेवितः ।
क्लीङ्कारबीजमध्यस्थः कामवीथीप्रपूजितः ॥ २९ ॥

द्वात्रिंशदक्षरारूढो द्वात्रिंशद्भक्तसेवितः ।
पिण्डगोपालमध्यस्थः पिण्डगोपालवीथिगः ॥ ३० ॥

वर्णमालास्वरूपाढ्यो मातृकावीथिमध्यगः ।
पाशाङ्कुशद्विबीजस्थः शक्तिपाशस्वरूपकः ॥ ३१ ॥

पाशाङ्कुशीयचक्रेशो देवेन्द्रादिप्रपूजितः ।
लिखितो भूर्जपत्रादौ क्रमाराधितवैभवः ॥ ३२ ॥

ऊर्ध्वरेखासमायुक्तो निम्नरेखाप्रतिष्ठितः ।
सम्पूर्णमेरुरूपेण सम्पूजितोऽखिलप्रदः ॥ ३३
मन्त्रात्मवर्णमालाभिः सम्यक्शोभितचक्रराट् ।
श्रीचक्रबिन्दुमध्यस्थयन्त्रसंराट्स्वरूपकः ॥ ३४ ॥

कामधर्मार्थर्फलदः शत्रुदस्युनिवारकः ।
कीर्तिकान्तिधनारोग्यरक्षाश्रीविजयप्रदः ॥ ३५ ॥

पुत्रपौत्रप्रदः सर्वभूतवेतालनाशनः
कासापस्मारकुष्ठादिसर्वरोगविनाशकः ॥ ३६ ॥

त्वगादिधातुसम्बद्धसर्वामयचिकित्सकः ।
डाकिन्यादिस्वरूपेण सप्तधातुषु निष्ठितः ॥ ३७ ॥

स्मृतिमात्रेणाष्टलक्ष्मीविश्राणनविशारदः ।
श्रुतिमौलिसमाराध्यमहापादुकलेबरः ॥ ३८ ॥

महापदावनीमध्यरमादिषोडशीद्विकः ।
रमादिषोडशीयुक्तराजगोपद्वयान्वितः ॥ ३९ ॥

श्रीराजगोपमध्यस्थमहानारायणद्विकः ।
नारायणद्वयालीढमहानृसिंहरूपकः ॥ ४० ॥

लघुरूपमहापादुः महामहासुपादुकः ।
महापदावनीध्यानसर्वसिद्धिविलासकः ॥ ४१ ॥

महापदावनीन्यासशताधिककलाष्टकः ।
परमानन्दलहरीसमारब्धकलान्वितः ॥ ४२ ॥

शताधिककलान्तोद्यच्छ्रीमच्चरणवैभवः ।
शिर-आदिब्रह्मरन्ध्रस्थानन्यस्तकलावलिः ॥ ४३ ॥

इन्द्रनीलसमच्छायः सूर्यस्पर्धिकिरीटकः ।
अष्टमीचन्द्रविभ्राजदलिकस्थलशोभितः ॥ ४४ ॥

कस्तूरीतिलकोद्भासी कारुण्याकुलनेत्रकः ।
मन्दहासमनोहारी नवचम्पकनासिकः ॥ ४५ ॥

मकरकुण्डलद्वन्द्वसंशोभितकपोलकः ।
श्रीवत्साङ्कितवक्षःश्रीः वनमालाविराजितः ॥ ४६ ॥

दक्षिणोरः प्रदेशस्थपराहङ्कृतिराजितः ।
आकाशवत्क्रशिष्ठश्रीमध्यवल्लीविराजितः ॥ ४७ ॥

शङ्खचक्रगदापद्मसंराजितचतुर्भुजः ।
केयूराङ्गदभूषाढ्यः कङ्कणालिमनोहरः ॥ ४८ ॥

नवरत्नप्रभापुञ्जच्छुरिताङ्गुलिभूषणः ।
गुल्फावधिकसंशोभिपीतचेलप्रभान्वितः ॥ ४९ ॥

किङ्किणीनादसंराजत्काञ्चीभूषणशोभितः ।
विश्वक्षोभकरश्रीकमसृणोरुद्वयान्वितः ॥ ५० ॥

इन्द्रनीलाश्मनिष्पन्नसम्पुटाकृतिजानुकः ।
स्मरतूणाभलक्ष्मीकजङ्घाद्वयविराजितः ॥ ५१ ॥

मांसलगुल्फलक्ष्मीको महासौभाग्यसंयुतः ।
ह्रींङ्कारतत्त्वसम्बोधिनूपुरद्वयराजितः ॥ ५२ ॥

आदिकूर्मावतारश्रीजयिष्णुप्रपदान्वितः ।
नमज्जनतमोवृन्दविध्वंसकपदद्वयः ॥ ५३ ॥

नखज्योत्स्नालिशैशिर्यपरविद्याप्रकाशकः ।
रक्तशुक्लप्रभामिश्रपादुकाद्वयवैभवः ॥ ५४ ॥

दयागुणमहावार्धिर्गुरुवायुपुरेश्वरः ।

फलश्रुतिः –
इत्येवं कथितं देवि नाम्नामष्टोत्तरं शतम् ॥ ५५ ॥

गुरुवायुपुरेशस्य सर्वसिद्धिविधायकम् ।
कृष्णाष्टमीसमारब्धमासेनैकेन सिद्धिदम् ॥ ५६ ॥

कृष्णाष्टमीं समारभ्य यावदन्याऽसिताऽष्टमी ।
तावत्कालं स्तोत्रमेतत् प्रत्यहं शतशः पठेत् ॥ ५७ ॥

मातृकापुटितं कृत्वा हित्वाऽऽलस्यं सुमङ्गले ।
एकान्तभक्तियुक्तो हि गुरुवायुपुरेश्वरे ॥ ५८ ॥

जीवन्नेव स भक्ताग्र्यो माधवाधिष्ठितो भवेत् ।
तप्तकाञ्चनगौरे हि तच्छरीरे सदा लसन् ॥ ५९ ॥

गुरुवायुपुराधीशोऽद्भुतानि हि करिष्यति ।
अत आवां महेशानि गच्छावः शरणं हि तम् ॥ ६० ॥

कारुण्यमूर्तिमीशानं गुरुवायुपुरेश्वरम् ।
उड्डामरेशतन्त्रेऽस्मिन् पटले क्षिप्रसाधने ॥ ६१ ॥

महावैकुण्ठनाथस्य गुरुवायुपुरेशितुः ।
अष्टोत्तरशतं नाम्नां सर्वसिद्धिविलासकम् ।
अध्यायं सप्तमं पूर्णमवदातं करोत्युमे ॥ ६२ ॥

इति श्रीगुरुवायुपुरेश्वराष्टोत्तरशतनामस्तोत्ररत्नं सम्पूर्णम् ।

॥ शुभम् ॥

Also Read:

Shri Guruvayupureshvara Ashtottarashatanama Stotraratnam Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Shri Guruvayupureshvara Ashtottarashatanama Stotraratnam Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top