Templesinindiainfo

Best Spiritual Website

Sri Rama Namavali from Ramaotsava Kalpalata Ashtottara Shatanamavali Lyrics in Hindi

Ramaotsava Kalpalata Sri Rama Ashtottarashata Namavali Lyrics in Hindi:

।। श्रीरामोत्सवकल्पलतोद्धृता श्रीरामनामावलिः ।।

ॐ श्रीसीतारामचन्द्रपरब्रह्मणे नमः ।
श्रीराम नवरात्रोत्सव कल्पः
नामावलीस्त बकः ।
श्रीरामोत्सवकल्पलतोद्धृता श्रीरामनामावली

ॐ श्रीमद्गौरीश वागीश शचीशादि सुरार्चिताय नमः ।
ॐ पक्षीन्द्रगमनोद्वृत्त पाञ्चजन्यरवाञ्चिताय नमः ।
ॐ पाकारिमुखदेवौघ केकिलोक घनाघनाय नमः ।
ॐ परमेष्ठि मुखाम्भोज पद्मिनीवल्लभाकृतये नमः ।
ॐ शर्वहृत्कैरवोल्लास चन्द्रिकायित सुस्मिताय नमः ।
ॐ चक्राद्यायुधसंयुक्त चतुर्भुज समन्विताय नमः ।
ॐ गर्भीकृत भयामर्त्य निर्भीकरण पण्डिताय नमः ।
ॐ दानवारण्य संशोषदावीकृत निजायुधाय नमः ।
ॐ धरणीभारकृद्दैत्यदारणोद्यत निश्चयाय नमः ।
ॐ समानीकृतवैकुण्ठसाकेतपुर लोलुपाय नमः । 10 ।

ॐ प्राजापत्येष्टिसम्भूतपायसान्न रसानुगाय नमः ।
ॐ कोसलेन्द्रात्मजागर्भकरोद्भूत हरिन्मणये नमः ।
ॐ निर्विशेषगुणोपेतनिजानुज समन्विताय नमः ।
ॐ पङ्क्तिस्यन्दनसन्तोषपारावार सुधाकराय नमः ।
ॐ धर्मशास्त्रत्रयीतत्त्वधनुर्वेद विचक्षणाय नमः ।
ॐ यज्ञान्तरायसञ्जातायास कौशिकयाचिताय नमः ।
ॐ गुरुबोधितपित्राज्ञागुर्वीकरण पौरुषाय नमः ।
ऊ गाधेयबोधितोदारगाधाद्वयजितश्रमाय नमः ।
ॐ ताटकोरस्थलक्रौञ्चधराभृद्दारणाग्नि भुवे नमः ।
ॐ सृष्टानलास्त्र सन्दग्धदुष्टमारीचसोदराय नमः । 20 ।

ॐ समीरास्त्राब्धिसङ्क्षिप्तताटकाग्रतनूभवाय नमः ।
ॐ सत्रभागसमायातसुत्रामादि सुभिक्षकृते नमः ।
ॐ रूढक्रतुजमुन्मौनिगाढालिङ्गितविग्रहाय नमः ।
ॐ अहल्याशापपापाब्दिहारणोद्यतपद्रजसे नमः ।
ॐ शर्वबाणासनाद्रीन्द्र गर्वभञ्जन जम्भ घ्ने नमः ।
ॐ साक्षाद्रमावनीजातासाक्षतोदकरग्रहिणे नमः ।
ॐ दुर्वारभार्गवाखर्वगर्वदर्वीकराहिभुजे नमः ।
ॐ स्वस्वपत्नीसमायुक्त सानुजोदितभाग्यवते नमः ।
ॐ निजदारसमावेशनित्योत्सवितपूर्जनाय नमः ।
ॐ मन्थरादिष्ट कैकेयीमत्यन्तरितराज्यधुरे नमः । 30 ।

ॐ निषादवरपुण्यौघनिलिम्पद्रुफलोदयाय नमः ।
ॐ गङ्गावतरणोत्सृष्टश‍ृङ्गिबेरपुराधिपाय नमः ।
ॐ भक्त्युत्कटपरिक्लुप्त भरद्वाजपदानतये नमः ।
ॐ चित्रकूटाचलप्रान्तचित्रकाननभूस्थिताय नमः ।
ॐ पादुकान्यस्त साम्राज्यभरवत्कैकयीसुताय नमः ।
ॐ जातकार्यागतानेक जनसम्मर्दनासहाय नमः ।
ॐ नाकाधिपतनूजातकाकदानवदर्पहृते नमः ।
ॐ कोदण्डगुणनिर्घोषघूर्णितायितदण्डकाय नमः ।
ॐ वाल्मीकिमुनिसन्दिष्टवासस्थलनिरूपणाय नमः ।
ॐ विराधशाल्मलीवृक्षविध्वंसानिलसंहतये नमः । 40 ।

ॐ निराकृतसुराधीशनीरेश शर भ ङ्गकाय नमः ।
ॐ अनसूयाङ्गरागाञ्चदवनीतनयान्विताय नमः ।
ॐ सुतीक्ष्णमुनि सं सेवासूचितात्मातिथिक्रियाय नमः ।
ॐ कुम्भजात दयादत्त जम्भारातिशरासनाय नमः ।
ॐ दण्डकावनसंलीनचण्डासुरवधोद्यताय नमः ।
ॐ प्राञ्चत्पञ्चवटीतीर पर्णागारपरायणाय नमः ।
ॐ गोदावरीनदीतोयगाहनाञ्चितविग्रहाय नमः ।
ॐ हासापादितरक्षस्त्री नासाश्रवण कर्त नाय नमः ।
ॐ खर सैन्याटवीपातसरयाभीलमारुताय नमः ।
ॐ दूषण त्रिशिरःशैलतुण्डनोग्रशरासनाय नमः । 50 ।

ॐ विरूपितानुजाकार विक्षोभितदशाननाय नमः ।
ॐ हाटकाकारसञ्छन्नताटकेयमृगद्विपिने नमः ।
ॐ सीतापराधदु र्मे धिभूतानुजविनिन्दकाय नमः ।
ॐ पं क्त्यास्याहतषक्षीन्द्र परलोकसुखप्रदाय नमः ।
ॐ सीतापहरणोध्बूतचिन्ताक्रान्तनिजान्तराय नमः ।
ॐ कान्तान्वेषणमार्गस्थकबन्धासुरहिंसकाय नमः ।
ॐ शबरीदत्त पक्वाम्र ङातास्वादकुतूहलाय नमः ।
ॐ पम्पासरोवरोपान्त प्राप्त मारुतिसंस्तुतयेनमः ।
ॐ श स्त प्रस्तावसामीरिशब्दसौष्ठवतोषिताय नमः ।
ॐ सिन्धुरोन्नतकापेयस्कन्धारोहणबन्धुराय नमः । 60 ।

ॐ साक्षीकृतानलादित्य कौक्षेयकपिसख्यभाजे नमः ।
ॐ पूषजानीत वैदेहिभूषालोकनविग्रहाय नमः ।
ॐ सप्ततालनिपातात्त सचिवामोदकोविदाय नमः ।
ॐ दुष्टदौन्दुभ कङ्कालतोलनाग्रपदङ्गुलये नमः ।
ॐ वालिप्राणानिलाहारवाताशननिभाम्बकाय नमः ।
ॐ कान्तराज्यरमारूढकपिराजनि षेविताय नमः ।
ॐ रुमासुग्रीववल्ली द्रुसुमाकरदिनायिताय नमः ।
ॐ प्रवर्षणगुहावास परियापितवार्षिकाय नमः ।
ॐ प्रेषितानुजरुद्भीत पौषानन्दकृदीक्षणाय नमः ।
ॐ सीतामार्गणसन्दिष्टवातापत्यार्पितोर्मि काय नमः । 70 ।

ॐ सत्यप्रायोपवेशस्थ सर्ववानरसंस्मृताय नमः ।
ॐ राक्षसीतर्जनाधूतरमणीहृदयस्थिताय नमः ।
ॐ दहनाप्लुतसामीरिदाहस्तम्भनमान्त्रिकाय नमः ।
ॐ सीतादर्शनदृष्टान्तशिरोरत्न निरीक्षकाय नमः ।
ॐ वनिताजीववद्वार्ताजनितानन्दकन्दलाय नमः ।
ॐ सर्ववानर सङ्कीर्णसैन्यालोकनतत्पराय नमः ।
ॐ सामुद्रतीररामेशस्थापनात्तयशोदयाय नमः ।
ॐ रोषभीष नदीनाथपोषणोचितभाषणाय नमः ।
ॐ पद्यानोचितपाथोधिपन्थाजङ्घालसैन्यवते नमः ।
ॐ सुवेलाद्रितलोद्वेलवलीमुखबलान्विताय नमः । 80 ।

ॐ पूर्वदेवजनाधीशपुरद्वारनिरोधकृते नमः ।
ॐ सरमावरदुर्दैन्यचरमक्षणवीक्षणाय नमः ।
ॐ मकरास्त्रमहास्त्राग्निमार्जनासारसायकाय नमः ।
ॐ कुम्भकर्णमदेभोरः कुम्भनिर्भेद केसरिणे नमः ।
ॐ देवान्तकनरादाग्रदीप्यत्संयमनीपथाय नमः ।
ॐ नरान्तकसुरामित्रशिरोधिनलहृत्करिणे नमः ।
ॐ अतिकाय महाकायवधोपायविधायकाय नमः ।
ॐ दैत्यायोधनगोष्ठीकभृत्यान्दकराह्वयाय नमः ।
ॐ मेघनादतमोद्भेदमिहिरीकृतलक्ष्मणाय नमः ।
ॐ सञ्जीवनीरसास्वादनजीवानुज सेविताय नमः । 90 ।

ॐ लङ्काधीशशिरोग्रावटङ्कायितशरावलये नमः ।
ॐ राक्षसीहारलतिका लवित्रीकृतकार्मुकाय नमः ।
ॐ सुनाशीरारिनासीरघनोन्मूलकराशुगाय नमः ।
ॐ दत्तदानवराज्य श्री धारणाञ्चद्विभीषणाय नमः ।
ॐ अनलोत्थित वैदेहीघनशीलानुमोदिताय नमः ।
ॐ सुधासारविनिष्यन्धयथापूर्ववनेचराय नमः ।
ॐ जायानुजादिसर्वाप्तजनाधिष्ठित पुष्पकाय नमः ।
ॐ भारद्वाजकृतातिथ्यपरितुष्टान्तरात्म काय नमः ।
ॐ भरतप्रत्यया षेक्षापरिप्रेषीतमारुतये नमः ।
ॐ चतुर्धशसमान्तात्तशत्रुघ्नभरतानुगाय नमः । 100 ।

ॐ वन्दनानन्दितानेकनन्दिग्रामस्थमातृकाय नमः ।
ॐ वर्जितात्मीयदेहस्थवानप्रस्थजनाकृतये नमः ।
ॐ निजागमनजानन्दस्वजानपदवीक्षिताय नमः ।
ॐ साकेतालोकजामोदसान्द्रीकृतहृदस्ताराय नमः ।
ॐ भरतार्पितभूभारभरणाङ्गीकृतात्मकाय नमः ।
ॐ मूर्धजामृष्टवासिस्ठमुनिपादरजःकणाय नमः ।
ॐ चतुरर्णवगङ्गादिजलसिक्तात्म विग्रहाय नमः ।
ॐ वसुवासववाय्वग्निवागीशाद्यमरार्चिताय नमः ।
ॐ माणिक्यहार केयूरमकुटादिविभूषिताय नमः ।
ॐ यानाश्वगजरत्नौघनानोपपायनभाजनाय नमः । 110 ।

ॐ मित्रानुजोदितश्वेतच्छत्रापादितराज्यधुरे नमः ।
ॐ शत्रुघ्न भरताधूतचामरद्वयशोभिताय नमः ।
ॐ वायव्यादिचतुष्कोणवानरेशादि सेविताय नमः ।
ॐ वामाङ्काङ्कितवैदेहीश्यामारत्नमनोहराय नमः ।
ॐ पुरोगतमरुत्पुत्रपूर्वपुण्यफलायिताय नमः ।
ॐ सत्यधर्मदयाशौचनित्यसन्तर्पितप्रजाय नमः ।
ॐ यथाकृतयुगाचारकथानुगतमण्दलाय नमः ।
ॐ चरितस्वकुलाचारचातुर्वर्ण्यदिनाश्रिताय नमः ।
ॐ अश्वमेधादिसत्रान्नशश्वत्सन्तर्पितामराय नमः ।
ॐ गोभूहिरण्यवस्त्रादिलाभामोदितभूसुराय नमः । 120 ।

ॐ माम्पातुपात्विति जपन्मनोराजीवषट्पदाय नमः ।
ॐ जन्मापनयनोद्युक्त हृन्मानससितच्छदाय नमः ।
ॐ महागुहाजचिन्वानमणिदीपायितस्मृतये नमः ।
ॐ मुमुक्षु जनदुर्दैन्यमोचनोचितकल्पकाय नमः ।
ॐ सर्वभक्त जनाघौघसामुद्रजल बाडबाय नमः ।
ॐ निजदासजनाकाङ्क्षनित्यार्थ प्रदकामदुघे नमः ।
ॐ साकेतपुरसंवासिसर्वसज्जनमोक्षदाय नमः ।
ॐ श्रीभूनीलासमाश्लिष्ट श्री मदानन्दविग्रहाय नमः । 128 ।

इति श्रीरामोत्सवकल्पलतोद्धृता श्रीरामनामावलिः समाप्ता ।

Also Read 128 Names of Ramotsava Kalpalatha Sri Rama:

Sri Rama Namavali from Ramaotsava Kalpalata Ashtottara Shatanamavali in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Sri Rama Namavali from Ramaotsava Kalpalata Ashtottara Shatanamavali Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top