Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Bhuvaneshvari | Sahasranama Stotram Lyrics in Hindi

Shri Bhuvaneshwari Sahasranamastotram Lyrics in Hindi:

॥ श्रीभुवनेश्वरीसहस्रनामस्तोत्रम् ॥

श्रीगणेशाय नमः ।

श्रीदेव्युवाच – श्रीपार्वत्युवाच –
देव देव महादेव सर्वशास्त्रविशारद ! ।
कपालखट्वाङ्गधर ! चिताभस्मानुलेपन ! ॥ १ ॥

या आद्या प्रकृतिर्नित्या सर्वशास्त्रेषु गोपिता ।
तस्याः श्रीभुवनेश्वर्या नाम्नां पुण्यं सहस्रकम् ॥ २ ॥

कथयस्व महादेव ! यथा देवी प्रसीदति ।

ईश्वर उवाच – श्रीमहेश्वर उवाच –
साधु पृष्टं महादेवि ! साधकानां हिताय वै ॥ ३ ॥ साधु लोकहिताय च

या आद्या प्रकृतिर्नित्या सर्वशास्त्रेषु गोपिता ।
यस्याः स्मरणमात्रेण सर्वपापैः प्रमुच्यते ॥ ४ ॥

आराधनाद्भवेद्यस्या जीवन्मुक्तो न संशयः ।
तस्या नामसहस्रं वै कथयामि समासतः ॥ ५ ॥
var तस्या नामसहस्राणि कथयामि श्रुणुष्व तत्

विनियोगः –
अस्य श्रीभुवनेश्वर्या सहस्रनामस्तोत्रस्य दक्षिणामूर्तिऋषिः,
पङ्क्तिश्छन्दः, आद्या श्रीभुवनेश्वरीदेवता, ह्रीं बीजं,
श्रीं शक्तिः, क्लीं कीलकं, मम श्रीधर्मार्थकाममोक्षार्थे
जपे विनियोगः ।

ऋष्यादिन्यासः –
श्रीदक्षिणामूर्तिऋषये नमः शिरसि ।
पङ्क्तिश्छन्दसे नमः मुखे ।
आद्या श्रीभुवनेश्वरीदेवतायै नमः हृदि ।
ह्रीं बीजाय नमः गुह्ये ।
श्रीं शक्तये नमः नाभौ ।
क्लीं कीलकाय नमः पादयोः ।
धर्मार्थकाममोक्षार्थे विनियोगाय नमः सर्वाङ्गे ।

अथ सहस्रनामस्तोत्रम् ।
आद्या माया परा शक्तिः श्रीं ह्रीं क्लीं भुवनेश्वरी ।
var आद्या कमला वाणी माया श्रीभुवनेश्वरी
भुवना भावना भव्या भवानी भवभाविनी ॥ ६ ॥ भवमोचनी

रुद्राणी रुद्रभक्ता च तथा रुद्रप्रिया सती ।
उमा कात्यायनी दुर्गा मङ्गला सर्वमङ्गला ॥ ७ ॥ उमा कामेश्वरी

त्रिपुरा परमेशानी त्रिपुरा सुन्दरी प्रिया ।
रमणा रमणी रामा रामकार्यकरी शुभा ॥ ८ ॥

ब्राह्मी नारायणी चण्डी चामुण्डा मुण्डनायिका ।
माहेश्वरी च कौमारी वाराही चापराजिता ॥ ९ ॥

महामाया मुक्तकेशी महात्रिपुरसुन्दरी ।
सुन्दरी शोभना रक्ता रक्तवस्त्रापिधायिनी ॥ १० ॥

रक्ताक्षी रक्तवस्त्रा च रक्तबीजातिसुन्दरी ।
रक्तचन्दनसिक्ताङ्गी रक्तपुष्पसदाप्रिया ॥ ११ ॥

कमला कामिनी कान्ता कामदेवसदाप्रिया ।
लक्ष्मी लोला चञ्चलाक्षी चञ्चला चपला प्रिया ॥ १२ ॥

भैरवी भयहर्त्री च महाभयविनाशिनी ।
भयङ्करी महाभीमा भयहा भयनाशिनी ॥ १३ ॥

श्मशाने प्रान्तरे दुर्गे संस्मृता भयनाशिनी ।
जया च विजया चैव जयपूर्णा जयप्रदा ॥ १४ ॥

यमुना यामुना याम्या यामुनजा यमप्रिया ।
सर्वेषां जनिका जन्या जनहा जनवर्धिनी ॥ १५ ॥

काली कपालिनी कुल्ला कालिका कालरात्रिका ।
महाकालहृदिस्था च कालभैरवरूपिणी ॥ १६ ॥

कपालखट्वाङ्गधरा पाशाङ्कुशविधारिणी ।
अभया च भया चैव तथा च भयनाशिनी ॥ १७ ॥

महाभयप्रदात्री च तथा च वरहस्तिनी ।
गौरी गौराङ्गिनी गौरा गौरवर्णा जयप्रदा ॥ १८ ॥

उग्रा उग्रप्रभा शान्तिः शान्तिदाऽशान्तिनाशिनी ।
उग्रतारा तथा चोग्रा नीला चैकजटा तथा ॥ १९ ॥

हां हां हूं हूं तथा तारा तथा च सिद्धिकालिका ।
तारा नीला च वागीशी तथा नीलसरस्वती ॥ २० ॥

गङ्गा काशी सती सत्या सर्वतीर्थमयी तथा ।
तीर्थरूपा तीर्थपुण्या तीर्थदा तीर्थसेविका ॥ २१ ॥

पुण्यदा पुण्यरूपा च पुण्यकीर्तिप्रकाशिनी ।
पुण्यकाला पुण्यसंस्था तथा पुण्यजनप्रिया ॥ २२ ॥

तुलसी तोतुलास्तोत्रा राधिका राधनप्रिया ।
सत्यासत्या सत्यभामा रुक्मिणी कृष्णवल्लभा ॥ २३ ॥

देवकी कृष्णमाता च सुभद्रा भद्ररूपिणी ।
मनोहरा तथा सौम्या श्यामाङ्गी समदर्शना ॥ २४ ॥

घोररूपा घोरतेजा घोरवत्प्रियदर्शना ।
कुमारी बालिका क्षुद्रा कुमारीरूपधारिणी ॥ २५ ॥

युवती युवतीरूपा युवतीरसरञ्जका ।
पीनस्तनी क्षूद्रमध्या प्रौढा मध्या जरातुरा ॥ २६ ॥

अतिवृद्धा स्थाणुरूपा चलाङ्गी चञ्चला चला ।
देवमाता देवरूपा देवकार्यकरी शुभा ॥ २७ ॥

देवमाता दितिर्दक्षा सर्वमाता सनातनी ।
पानप्रिया पायनी च पालना पालनप्रिया ॥ २८ ॥

मत्स्याशी मांसभक्ष्या च सुधाशी जनवल्लभा ।
तपस्विनी तपी तप्या तपःसिद्धिप्रदायिनी ॥ २९ ॥

हविष्या च हविर्भोक्त्री हव्यकव्यनिवासिनी ।
यजुर्वेदा वश्यकरी यज्ञाङ्गी यज्ञवल्लभा ॥ ३० ॥

दक्षा दाक्षायिणी दुर्गा दक्षयज्ञविनाशिनी ।
पार्वती पर्वतप्रीता तथा पर्वतवासिनी ॥ ३१ ॥

हैमी हर्म्या हेमरूपा मेना मान्या मनोरमा ।
कैलासवासिनी मुक्ता शर्वक्रीडाविलासिनी ॥ ३२ ॥

चार्वङ्गी चारुरूपा च सुवक्त्रा च शुभानना ।
चलत्कुण्डलगण्डश्रीर्लसत्कुण्डलधारिणी ॥ ३३ ॥

महासिंहासनस्था च हेमभूषणभूषिता ।
हेमाङ्गदा हेमभूषा च सूर्यकोटिसमप्रभा ॥ ३४ ॥

बालादित्यसमाकान्तिः सिन्दूरार्चितविग्रहा ।
यवा यावकरूपा च रक्तचन्दनरूपधृक् ॥ ३५ ॥

कोटरी कोटराक्षी च निर्लज्जा च दिगम्बरा ।
पूतना बालमाता च शून्यालयनिवासिनी ॥ ३६ ॥

श्मशानवासिनी शून्या हृद्या चतुरवासिनी ।
मधुकैटभहन्त्री च महिषासुरघातिनी ॥ ३७ ॥

निशुम्भशुम्भमथनी चण्डमुण्डविनाशिनी ।
शिवाख्या शिवरूपा च शिवदूती शिवप्रिया ॥ ३८ ॥

शिवदा शिववक्षःस्था शर्वाणी शिवकारिणी ।
इन्द्राणी चेन्द्रकन्या च राजकन्या सुरप्रिया ॥ ३९ ॥

लज्जाशीला साधुशीला कुलस्त्री कुलभूषिका ।
महाकुलीना निष्कामा निर्लज्जा कुलभूषणा ॥ ४० ॥

कुलीना कुलकन्या च तथा च कुलभूषिता ।
अनन्तानन्तरूपा च अनन्तासुरनाशिनी ॥ ४१ ॥

हसन्ती शिवसङ्गेन वाञ्छितानन्ददायिनी ।
नागाङ्गी नागभूषा च नागहारविधारिणी ॥ ४२ ॥

धरिणी धारिणी धन्या महासिद्धिप्रदायिनी ।
डाकिनी शाकिनी चैव राकिनी हाकिनी तथा ॥ ४३ ॥

भूता प्रेता पिशाची च यक्षिणी धनदार्चिता ।
धृतिः कीर्तिः स्मृतिर्मेधा तुष्टिःपुष्टिरुमा रुषा ॥ ४४ ॥

शाङ्करी शाम्भवी मीना रतिः प्रीतिः स्मरातुरा ।
अनङ्गमदना देवी अनङ्गमदनातुरा ॥ ४५ ॥

भुवनेशी महामाया तथा भुवनपालिनी ।
ईश्वरी चेश्वरीप्रीता चन्द्रशेखरभूषणा ॥ ४६ ॥

चित्तानन्दकरी देवी चित्तसंस्था जनस्य च ।
अरूपा बहुरूपा च सर्वरूपा चिदात्मिका ॥ ४७ ॥

अनन्तरूपिणी नित्या तथानन्तप्रदायिनी ।
नन्दा चानन्दरूपा च तथाऽनन्दप्रकाशिनी ॥ ४८ ॥

सदानन्दा सदानित्या साधकानन्ददायिनी ।
वनिता तरुणी भव्या भविका च विभाविनी ॥ ४९ ॥

चन्द्रसूर्यसमा दीप्ता सूर्यवत्परिपालिनी ।
नारसिंही हयग्रीवा हिरण्याक्षविनाशिनी ॥ ५० ॥

वैष्णवी विष्णुभक्ता च शालग्रामनिवासिनी ।
चतुर्भुजा चाष्टभुजा सहस्रभुजसंज्ञिता ॥ ५१ ॥

आद्या कात्यायनी नित्या सर्वाद्या सर्वदायिनी ।
सर्वचन्द्रमयी देवी सर्ववेदमयी शुभा ॥ ५२ ॥

सवदेवमयी देवी सर्वलोकमयी पुरा ।
सर्वसम्मोहिनी देवी सर्वलोकवशङ्करी ॥ ५३ ॥

राजिनी रञ्जिनी रागा देहलावण्यरञ्जिता ।
नटी नटप्रिया धूर्ता तथा धूर्तजनार्दिनी ॥ ५४ ॥

महामाया महामोहा महासत्त्वविमोहिता ।
बलिप्रिया मांसरुचिर्मधुमांसप्रिया सदा ॥ ५५ ॥

मधुमत्ता माधविका मधुमाधवरूपिका ।
दिवामयी रात्रिमयी सन्ध्या सन्धिस्वरूपिणी ॥ ५६ ॥

कालरूपा सूक्ष्मरूपा सूक्ष्मिणी चातिसूक्ष्मिणी ।
तिथिरूपा वाररूपा तथा नक्षत्ररूपिणी ॥ ५७ ॥

सर्वभूतमयी देवी पञ्चभूतनिवासिनी ।
शून्याकारा शून्यरूपा शून्यसंस्था च स्तम्भिनी ॥ ५८ ॥

आकाशगामिनी देवी ज्योतिश्चक्रनिवासिनी ।
ग्रहाणां स्थितिरूपा च रुद्राणी चक्रसम्भवा ॥ ५९ ॥

ऋषीणां ब्रह्मपुत्राणां तपःसिद्धिप्रदायिनी ।
अरुन्धती च गायत्री सावित्री सत्त्वरूपिणी ॥ ६० ॥

चितासंस्था चितारूपा चित्तसिद्धिप्रदायिनी ।
शवस्था शवरूपा च शवशत्रुनिवासिनी ॥ ६१ ॥

योगिनी योगरूपा च योगिनां मलहारिणी ।
सुप्रसन्ना महादेवी यामुनी मुक्तिदायिनी ॥ ६२ ॥

निर्मला विमला शुद्धा शुद्धसत्वा जयप्रदा ।
महाविद्या महामाया मोहिनी विश्वमोहिनी ॥ ६३ ॥

कार्यसिद्धिकरी देवी सर्वकार्यनिवासिनी ।
कार्यकार्यकरी रौद्री महाप्रलयकारिणी ॥ ६४ ॥

स्त्रीपुंभेदाह्यभेद्या च भेदिनी भेदनाशिनी ।
सर्वरूपा सर्वमयी अद्वैतानन्दरूपिणी ॥ ६५ ॥

प्रचण्डा चण्डिका चण्डा चण्डासुरविनाशिनी ।
सुमस्ता बहुमस्ता च छिन्नमस्ताऽसुनाशिनी ॥ ६६ ॥

अरूपा च विरूपा च चित्ररूपा चिदात्मिका ।
बहुशस्त्रा अशस्त्रा च सर्वशस्त्रप्रहारिणी ॥ ६७ ॥

शास्त्रार्था शास्त्रवादा च नाना शास्त्रार्थवादिनी ।
काव्यशास्त्रप्रमोदा च काव्यालङ्कारवासिनी ॥ ६८ ॥

रसज्ञा रसना जिह्वा रसामोदा रसप्रिया ।
नानाकौतुकसंयुक्ता नानारसविलासिनी ॥ ६९ ॥

अरूपा च स्वरूपा च विरूपा च सुरूपिणी ।
रूपावस्या तथा जीवा वेश्याद्या वेशधारिणी ॥ ७० ॥

नानावेशधरा देवी नानावेशेषु संस्थिता ।
कुरूपा कुटिला कृष्णा कृष्णारूपा च कालिका ॥ ७१ ॥

लक्ष्मीप्रदा महालक्ष्मीः सर्वलक्षणसंयुता ।
कुबेरगृहसंस्था च धनरूपा धनप्रदा ॥ ७२ ॥

नानारत्नप्रदा देवी रत्नखण्डेषु संस्थिता ।
वर्णसंस्था वर्णरूपा सर्ववर्णमयी सदा ॥ ७३ ॥

ओङ्काररूपिणी वाच्या आदित्यज्योतीरूपिणी ।
संसारमोचिनी देवी सङ्ग्रामे जयदायिनी ॥ ७४ ॥

जयरूपा जयाख्या च जयिनी जयदायिनी ।
मानिनी मानरूपा च मानभङ्गप्रणाशिनी ॥ ७५ ॥

मान्या मानप्रिया मेधा मानिनी मानदायिनी ।
साधकासाधकासाध्या साधिका साधनप्रिया ॥ ७६ ॥

स्थावरा जङ्गमा प्रोक्ता चपला चपलप्रिया ।
ऋद्धिदा ऋद्धिरूपा च सिद्धिदा सिद्धिदायिनी ॥ ७७ ॥

क्षेमङ्करी शङ्करी च सर्वसम्मोहकारिणी ।
रञ्जिता रञ्जिनी या च सर्ववाञ्छाप्रदायिनी ॥ ७८ ॥

भगलिङ्गप्रमोदा च भगलिङ्गनिवासिनी ।
भगरूपा भगाभाग्या लिङ्गरूपा च लिङ्गिनी ॥ ७९ ॥

भगगीतिर्महाप्रीतिर्लिङ्गगीतिर्महासुखा ।
स्वयम्भूः कुसुमाराध्या स्वयम्भूः कुसुमाकुला ॥ ८० ॥

स्वयम्भूः पुष्परूपा च स्वयम्भूः कुसुमप्रिया ।
शुक्रकूपा महाकूपा शुक्रासवनिवासिनी ॥ ८१ ॥

शुक्रस्था शुक्रिणी शुक्रा शुक्रपूजकपूजिता ।
कामाक्षा कामरूपा च योगिनी पीठवासिनी ॥ ८२ ॥

सर्वपीठमयी देवी पीठपूजानिवासिनी ।
अक्षमालाधरा देवी पानपात्रविधारिणी ॥ ८३ ॥

शूलिनी शूलहस्ता च पाशिनी पाशरूपिणी ।
खड्गिनी गदिनी चैव तथा सर्वास्त्रधारिणी ॥ ८४ ॥

भाव्या भव्या भवानी सा भवमुक्तिप्रदायिनी ।
चतुरा चतुरप्रीता चतुराननपूजिता ॥ ८५ ॥

देवस्तव्या देवपूज्या सर्वपूज्या सुरेश्वरी ।
जननी जनरूपा च जनानां चित्तहारिणी ॥ ८६ ॥

जटिला केशबद्धा च सुकेशी केशबद्धिका ।
अहिंसा द्वेषिका द्वेष्या सर्वद्वेषविनाशिनी ॥ ८७ ॥

उच्चाटिनी द्वेषिनी च मोहिनी मधुराक्षरा ।
क्रीडा क्रीडकलेखाङ्ककारणाकारकारिका ॥ ८८ ॥

सर्वज्ञा सर्वकार्या च सर्वभक्षा सुरारिहा ।
सर्वरूपा सर्वशान्ता सर्वेषां प्राणरूपिणी ॥ ८९ ॥

सृष्टिस्थितिकरी देवी तथा प्रलयकारिणी ।
मुग्धा साध्वी तथा रौद्री नानामूर्तिविधारिणी ॥ ९० ॥

उक्तानि यानि देवेशि अनुक्तानि महेश्वरि ।
यत् किञ्चिद् दृश्यते देवि तत् सर्वं भुवनेश्वरी ॥ ९१ ॥

इति श्रीभुवनेश्वर्या नामानि कथितानि ते ।
सहस्राणि महादेवि फलं तेषां निगद्यते ॥ ९२ ॥

यः पठेत् प्रातरुत्थाय चार्द्धरात्रे तथा प्रिये ।
प्रातःकाले तथा मध्ये सायाह्ने हरवल्लभे ॥ ९३ ॥

यत्र तत्र पठित्वा च भक्त्या सिद्धिर्न संशयः ।
पठेद् वा पाठयेद् वापि श‍ृणुयाच्छ्रावयेत्तथा ॥ ९४ ॥

तस्य सर्वं भवेत् सत्यं मनसा यच्च वाञ्छितम् ।
अष्टम्यां च चतुर्दश्यां नवम्यां वा विशेषतः ॥ ९५ ॥

सर्वमङ्गलसंयुक्ते सङ्क्रातौ शनिभौमयोः ।
यः पठेत् परया भक्त्या देव्या नामसहस्रकम् ॥ ९६ ॥

तस्य देहे च संस्थानं कुरुते भुवनेश्वरी ।
तस्य कार्यं भवेद् देवि अन्यथा न कथञ्चन ॥ ९७ ॥

श्मशाने प्रान्तरे वापि शून्यागारे चतुष्पथे ।
चतुष्पथे चैकलिङ्गे मेरुदेशे तथैव च ॥ ९८ ॥

जलमध्ये वह्निमध्ये सङ्ग्रामे ग्रामशान्तये ।
जपत्वा मन्त्रसहस्रं तु पठेन्नामसहस्रकम् ॥ ९९ ॥

धूपदीपादिभिश्चैव बलिदानादिकैस्तथा ।
नानाविधैस्तथा देवि नैवेद्यैर्भुवनेश्वरीम् ॥ १०० ॥

सम्पूज्य विधिवज्जप्त्वा स्तुत्वा नामसहस्रकैः ।
अचिरात् सिद्धिमाप्नोति साधको नात्र संशयः ॥ १०१ ॥

तस्य तुष्टा भवेद् देवी सर्वदा भुवनेश्वरी ।
भूर्जपत्रे समालिख्य कुङकुमाद् रक्तचन्दनैः ॥ १०२ ॥

तथा गोरोचनाद्यैश्च विलिख्य साधकोत्तमः ।
सुतिथौ शुभनक्षत्रे लिखित्वा दक्षिणे भुजे ॥ १०३ ॥

धारयेत् परया भक्त्या देवीरूपेण पार्वति ! ।
तस्य सिद्धिर्महेशानि अचिराच्च भविष्यति ॥ १०४ ॥

रणे राजकुले वाऽपि सर्वत्र विजयी भवेत् ।
देवता वशमायाति किं पुनर्मानवादयः ॥ १०५ ॥

विद्यास्तम्भं जलस्तम्भं करोत्येव न संशयः ।
पठेद् वा पाठयेद् वाऽपि देवीभक्त्या च पार्वति ॥ १०६ ॥

इह भुक्त्वा वरान् भोगान् कृत्वा काव्यार्थविस्तरान् ।
अन्ते देव्या गणत्वं च साधको मुक्तिमाप्नुयात् ॥ १०७ ॥

प्राप्नोति देवदेवेशि सर्वार्थान्नात्र संशयः ।
हीनाङ्गे चातिरिक्ताङ्गे शठाय परशिष्यके ॥ १०८ ॥

न दातव्यं महेशानि प्राणान्तेऽपि कदाचन ।
शिष्याय मतिशुद्धाय विनीताय महेश्वरि ॥ १०९ ॥

दातव्यः स्तवराजश्च सर्वसिद्धिप्रदो भवेत् ।
लिखित्वा धारयेद् देहे दुःखं तस्य न जायते ॥ ११० ॥

य इदं भुवनेश्वर्याः स्तवराजं महेश्वरि ।
इति ते कथितं देवि भुवनेश्याः सहस्रकम् ॥ १११ ॥

यस्मै कस्मै न दातव्यं विना शिष्याय पार्वति ।
सुरतरुवरकान्तं सिद्धिसाध्यैकसेव्यं
यदि पठति मनुष्यो नान्यचेताः सदैव ।
इह हि सकलभोगान् प्राप्य चान्ते शिवाय
व्रजति परसमीपं सर्वदा मुक्तिमन्ते ॥ ११२ ॥

॥ इति श्रीरुद्रयामले तन्त्रे भुवनेश्वरीसहस्रनामाख्यं
स्तोत्रं सम्पूर्णम् ॥ श्रीरस्तु ॥

Also Read 1000 Names of Sri Bhuvaneshvari :

1000 Names of Sri Bhuvaneshvari | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Bhuvaneshvari | Sahasranama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top