Templesinindiainfo

Best Spiritual Website

Premendu Sagara Stotram Lyrics in Hindi | Hindu Slokam

Premendusagara Stotram Lyrics in Hindi:

प्रेमेन्दुसागरस्तोत्रम्
श्रीप्रेमेन्दुसागरसंज्ञकश्रीकृष्णाष्टोत्तरशतनाममालिका ।
कलहान्तरितावृत्ता काचिद् वल्लवसुन्दरी ।
विरहोत्तापखिन्नाङ्गी सखीं सोत्कण्ठमब्रवीत् ॥ १ ॥

हन्त गौरि स किं गन्ता पन्थानं मम नेत्रयोः ।
श्रीकृष्णः करुणासिन्धुः कृष्णो गोकुलवल्लभः ॥ २ ॥

गोविन्दः परमानन्दो नन्दमन्दिरमङ्गलम् ।
यशोदाखनिमाणिक्यं गोपेन्द्राम्भोधिचन्द्रमाः ॥ ३ ॥

नवाम्भोधरसंरम्भविडम्बिरुचिडम्बरः ।
क्षिप्तहाटकशौटीर्यपट्टपीताम्बरावृतः ॥ ४ ॥

कन्दर्परूपसन्दर्पहारिपादनखद्युतिः ।
ध्वजाम्भोरुहदम्भोलि यवाङ्कुशलसत्पदः ॥ ५ ॥

पदपञ्जरसिञ्जानमञ्जुमञ्जीरखञ्जनः ।
मसारसम्पुटाकारधारि जानुयुगोज्ज्वलः ॥ ६ ॥

शौण्डस्तम्बेरमोद्दण्डशुण्डारम्योरुसौष्ठवः ।
मणिकिङ्किणिसङ्कीर्णविशङ्कटकटिस्थलः ॥ ७ ॥

मध्यमाधुर्यविध्वस्तदिव्यसिंहमदोद्धतिः ।
गारुत्मतगिरिग्रावगरिष्ठोरस्तटान्तरः ॥ ८ ॥

कम्बुकण्ठस्थलालम्बिमणिसम्राड् अलङ्कृतिः ।
आखण्डलमणिस्तम्भस्पर्धिदोर्दण्डचण्डिमा ॥ ९ ॥

खण्डिताखण्डकोटीन्दुसौन्दर्यमुखमण्डलः ।
लावण्यलहरीसिन्धुः सिन्दूरतुलिताधरः ॥ १० ॥

फुल्लारविन्दसौन्दर्य कन्दलीतुन्दिलेक्षणः ।
गण्डान्तताण्डवक्रीडाहिण्डन्मकरकुण्डलः ॥ ११ ॥

नवीनयौवनारम्भजृम्भितोज्ज्वलविग्रहः ।
अपाङ्गतुङ्गितानङ्गकोटिकोदण्डविक्रमः ॥ १२ ॥

सुधानिर्यासमाधुर्यधुरीणोदारभाषितः ।
सान्द्रवृन्दाटवीकुञ्जकन्दरागन्धसिन्धुरः ॥ १३ ॥

धन्यगोवर्धनोत्तुङ्गश‍ृङ्गोत्सङ्गनवाम्बुधः ।
कलिन्दनन्दिनीकेलिकल्याणकलहंसकः ॥ १४ ॥

नन्दीश्वरधृतानन्दो भाण्डीरतटताण्डवी ।
शङ्खचूडहरः क्रीदागेण्डूकृतगिरीश्वरः ॥ १५ ॥

वारीन्द्रार्बुधगम्भीरः पारीन्द्रार्बुदविक्रमी ।
रोहिणीनन्दनानन्दी श्रीदामोद्दामसौहृदः ॥ १६ ॥

सुबलप्रेमदयितः सुहृदां हृदयङ्गमः ।
नन्दव्रजजनानन्दसन्दीपनमहाव्रती ॥ १७ ॥

श‍ृङ्गिनीसङ्घसङ्ग्राहिवेणुसङ्गीतमण्डलः ।
उत्तुङ्गपुङ्गवारब्धसङ्गरासङ्गकौतुकी ॥ १८ ॥

विस्फुरद्वन्यश‍ृङ्गारः श‍ृङ्गाराभीष्टदैवतम् ।
उदञ्चत्पिञ्छविञ्छोलीलाञ्छितोज्ज्वलविग्रहः ॥ १९ ॥

सञ्चरच्चञ्चरीकालिपञ्चवर्णस्रगञ्चितः ।
सुरङ्गरङ्गणस्वर्णयूथिग्रथितमेखलः ॥ २० ॥

धातुचित्रविचित्राङ्गलावण्यलहरीभरः ।
गुञ्जापुञ्जकृताकल्पः केलितल्पितपल्लवः ॥ २१ ॥

वपुरामोदमाध्वीकवर्धितप्रमदामदः ।
वृन्दावनारविन्दाक्षीवृन्दकन्दर्पदीपनः ॥ २२ ॥

मीनाङ्कसङ्कुलाभीरीकुचकुङ्कुमपङ्किलः ।
मुखेन्दुमाधुरीधारारुद्धसाध्वीविलोचनः ॥ २३ ॥

कुमारीपटलुण्ठाकः प्रौढनर्मोक्तिकर्मठः ।
अमन्दमुग्धवैदग्धीदिग्धराधासुधाम्बुधि ॥ २४ ॥

चारुचन्द्रावलीबुद्धिकौमुदीशरदागमः ।
धीरलालित्यलक्ष्मीवान् कन्दर्पानन्दबन्धुरः ॥ २५ ॥

चन्द्रावलीचकोरेन्द्रो राधिकामाधवीमधुः ।
ललिताकेलिललितो विशाखोडुनिशाकरः ॥ २६ ॥

पद्मावदनपद्मालिः शैव्यासेव्यपदाम्बुजः ।
भद्राहृदयनिद्रालुः श्यामलाकामलालसः ॥ २७ ॥

लोकोत्तरचमत्कारलीलामञ्जरिनिष्कुटः ।
प्रेमसम्पदयस्कान्तकान्तकृतकृष्णायसव्रतः ॥ २८ ॥

मुरलीचौरगौराङ्गीकुचकञ्चुकलुञ्चनः ।
राधाभिसारसर्वस्वः स्फारनागरतागुरुः ॥ २९ ॥

राधानर्मोक्तिशुश्रूषावीरुन्नीरुद्धविग्रहः ।
कदम्बमञ्जरीहारिराधिकारोधनोद्धुरः ॥ ३० ॥

कुडुङ्गक्रोडसङ्गूढराधासङ्गमरङ्गवान् ।
क्रीडोड्डामरधीराधाताडङ्कोत्पलताडितः ॥ ३१ ॥

अनङ्गसङ्गरोद्गारिक्षुण्णकुङ्कुमकङ्कटः ।
त्रिभङ्गिलङ्गिमाकारो वेणुसङ्गमिताधरः ॥ ३२ ॥

वेणुविस्तृतगान्धर्वसारसन्दर्भसौष्ठवः ।
गोपीयूथसहस्रेन्द्रः सान्द्ररासरसोन्मदः ॥ ३३ ॥

स्मरपञ्चशरीकोटिक्षोभकारिदृगञ्चलः ।
चण्डांशुनन्दिनीतीरमण्डलारब्धताण्डवः ॥ ३४ ॥

वृषभानुसुताभृङ्गीकामधुक्कमलाकरः ।
गूढाकूतपरीहासराधिकाजनितस्मितः ॥ ३५ ॥

नारीवेशनिगूढात्मा व्यूढचित्तचमत्कृतिः ।
कर्पूरालम्बिताम्बूलकरम्बितमुखाम्बुजः ॥ ३६ ॥

मानिचन्द्रावलीदूतीकॢप्तसन्धानकौशलः ।
छद्मघट्टतटीरुद्धराधाभ्रूकुटिघट्टितः ॥ ३७ ॥

दक्षराधासखीहासव्याजोपालम्भलज्जितः ।
मूर्तिमद्वल्लवीप्रेमा क्षेमानन्दरसाकृतिः ॥ ३८ ॥

अभिसारोल्लसद्भद्राकिङ्किणीनिनदोन्मुखः ।
वाससज्जीभवत्पद्माप्रेक्ष्यमाणाग्रपद्धतिः ॥ ३९ ॥

उत्कण्ठितार्तललितावितर्कपदवीं गतः ।
विप्रलब्धविशाखोरुविलापभरवर्धनः ॥ ४० ॥

कलहान्तरिताश्यामामृग्यमाणमुखेक्षणः ।
खण्डितोच्चण्डधीशैव्यारोषोक्तिरसिकान्तरः ॥ ४१ ॥

विश्लेषविक्लवच्चन्द्रावलीसन्देशनन्दितः ।
स्वाधीनभर्तृकोत्फुल्लराधामण्डनपण्डितः ॥ ४२ ॥

चुम्बवेणुग्लहद्युतिजयिराधाधृताञ्चलः ।
राधाप्रेमरसावर्तविभ्रमभ्रमितान्तरः ॥ ४३ ॥

इत्येषोन्मत्तधीः प्रेम्ना शंसन्ती कंसमर्दनम् ।
स्फुरन्तं पुरतः प्रेक्ष्य प्रौढानन्दोत्सवं ययौ ॥ ४४ ॥

प्रेमेन्दुसागराख्येऽस्मिन्नाम्नामष्टोत्तरे शते ।
विगाहयन्तु विबुधाः प्रीत्या रसनमन्दरम् ॥ ४५ ॥

इति श्रीरूपगोस्वामिविरचितस्तवमालायां प्रेमेन्दुसागरस्तोत्रं
अथवा श्रीकृष्णाष्टोत्तरशतनामं सम्पूर्णम् ।

Also Read:

Premendu Sagara Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Premendu Sagara Stotram Lyrics in Hindi | Hindu Slokam

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top