Templesinindiainfo

Best Spiritual Website

Shri Hanumada Ashtottara Shatanama Stotram 7 Lyrics in Hindi | Hanuman Slokam

Sri Hanumada Ashtottara Shatanama Stotram 7 Lyrics in Hindi:

॥ श्रीहनुमदष्टोत्तरशतनामस्तोत्रम् ७ ॥
॥ श्रीगणेशाय नमः ॥

॥ श्रीसीतरामचन्द्राभ्यां नमः ॥

श्रीपराशर उवाच –
स्तोत्रान्तरं प्रवक्ष्यामि हनुमत्प्रतिपादकम् ।
श‍ृणु मैत्रेय विप्रेन्द्र अष्टोत्तरशताधिकम् ॥

अगस्त्येन पुरा प्रोक्तं सुतीक्ष्णाय महात्मने ।
सर्वपापक्षयकरं सदा विजयवर्धनम् ॥

सुतीक्ष्ण उवाचः –
भगवन् केन मन्त्रेण स्तुत्वा तं भुवि मानवः ।
अयत्नेनैव लभते सहसा सर्वसम्पदः ॥

भूतप्रेतपिशाचादि पूतनाब्रह्मराक्षसाः ।
कूष्माण्डकिन्नराधीशरक्षो यक्षखगादिना ॥

निधनं चैव दैत्यानां दानवानां विशेषतः ।
अपस्मारग्रहाणां च स्त्रीग्रहाणां तथैव च ॥

महामृत्युग्रहाणां च नीचचोरग्रहात्मनाम् ।
अन्येषां चातिघोराणां सर्पाणां क्रूरकर्मणाम् ॥

वातपित्तकफादिनां ज्वराणामतिरोगिणाम् ।
शिरो नेत्रमुखास्यान्ध्रिगुदघ्राणोदरीभवाम् ॥

तथैव राजयक्ष्माणां शान्तिः केन प्रदृश्यते ।
चोरादि राजशस्त्रादि विषदुस्स्वप्नभीतीषु ॥

सिंहव्याघ्रवराहादिष्वन्यास्वापत्सु भीतिषु ।
किं जप्त्व्यं महाभाग ब्रूहि शिष्यस्य मे मुने ॥

श्रीअगस्त्य उवाच –
सुहृदो मम भक्तस्य तव रक्षाकरं वरम् ।
प्रवक्ष्यामि श‍ृणुष्वैकं सुतीक्ष्ण सुसमाहितः ॥

उपेन्द्रेण पुरेन्द्राय प्रोक्तं नारायणात्मना ।
त्रैलोक्यैश्वर्यसिद्ध्यर्थमभावाय च चिद्विषाम् ॥

सभायां नारदादीनां ऋषिणां पुण्यकर्मणाम् ।
उपविश्य मया तत्र श‍ृतं तस्य प्रसादतः ॥

अष्टोत्तरशतं नाम्ना मतिगुह्यं हनुमतः ।
नोक्तपूर्वमिदं ब्रह्मन् रहस्यं यस्यकस्यचित् ॥

ॐ अस्य श्रीहनुमदष्टोत्तरशतदिव्यनामस्तोत्रमन्त्रस्य
अगस्त्यो भगवान् ऋषिः । अनुष्टुप्छन्दः । श्रीहनुमान् देवता ।
मारुतात्मज इति बीजम् । अञ्जनासूनुरिति शक्तिः ।
वायुपुत्रेति कीलकम् ।
मम श्रीहनुमत्प्रसादसिद्ध्यर्थे जपे विनियोगः ॥

ॐ नमो भगवते आञ्जनेयाय अङ्गुष्ठाभ्यां नमः ।
ॐ नमो भगवते वायुपुत्राय तर्जनीभ्यां नमः ।
ॐ नमो भगवते केसरिप्रियनन्दनाय मध्यमाभ्यां नमः ।
ॐ नमो भगवते रामदूताय अनामिकाभ्यां नमः ।
ॐ नमो भगवते लक्ष्मणप्राणदात्रे कनिष्ठिकाभ्यां नमः ।
ॐ नमो भगवते श्रीहनुमते करतलकरपृष्ठाभ्यां नमः ।
इति करन्यासः ॥

ॐ नमो भगवते आञ्जनेयाय हृदयाय नमः ।
ॐ नमो भगवते वायुपुत्राय शिरसे स्वाहा ।
ॐ नमो भगवते केसरिप्रियनन्दनाय शिखायै वषट् ।
ॐ नमो भगवते रामदूताय कवचाय हुम् ।
ॐ नमो भगवते लक्ष्मणप्राणदात्रे नेत्रत्रयाय वौषट् ।
ॐ नमो भगवते श्रीहनुमते अस्त्राय फट् ।
इति हृदयादि षडङ्गन्यासः ॥

भूर्भूवस्वरोमिति दिग्बन्धः ॥

॥ अथ ध्यानम् ॥

पम्पातटवनोद्देशे परमर्षिनिषेविते ।
परितस्सिद्धगन्धर्वकिन्नरोरगसेविते ॥

निर्वैरमृगसिंहादि नानासत्वनिषेविते ।
मधुरे मधुरालापे मनोज्ञतलकन्दरे ॥

मतङ्गपर्वतप्रान्तमानसादिमनोहरे ।
महासिंहगुहागेहे उपरञ्जितपश्चिमे ॥

अतीन्द्रियमनोभारैः अतिमन्मथकाननैः ।
शमादि गुणसम्पन्नैः अतीतषडरातिभिः ॥

निखिलागमतत्वज्ञैः मुनिभिर्मुदितात्मभिः ।
उपास्यमानवद्भाजन मणिपीठ उपस्थितम् ॥

नलनीलमुखैश्चापि वानरैन्द्रैरुपासितम् ।
समुदञ्चितवालाग्रं समग्रमणिभूषणम् ॥

शमान्तकमहोरस्कसमाहितभुजद्वयम् ।
परार्थ्यं पद्मरागादि स्फुरन्मकरकुण्डलम् ॥

वज्रपाताङ्किततनुं वज्रपिङ्गाक्षभीषणम् ।
स्वर्णाब्जकेसरिप्रख्यशिरोरुहविराजितम् ॥

नवरत्नाञ्चितस्वर्णविचित्रवनमालया ।
आसिनपादपाथोजमापन्नार्तिनिवारणम् ॥

करुणावरुणावासमरुणारुणमण्डलम् ।
किरणारुणितोपान्तचरणं नवहारिणम् ॥

कारणं सुरकार्याणामसुराणां निवारणम् ।
भूषणं हि नगेन्द्रस्य मानसाचलपारगम् ॥

पुराणं प्रणताशानां चरणायोधनप्रियम् ।
स्मरणापहृताघौघं भरणावहितं सताम् ॥

शरणागतसन्त्राणकारणैकव्रतक्षमम् ।
क्षणादसुरराजेन्द्रतनयप्राणहारिणम् ॥

पवमानसुतं वीरं परीतं पनसादिभिः ॥

इत्थ ध्यायन्नमन्नेव चेतसा साधकोत्तमः ।
सर्वान्कामानवाप्नोति नात्र कार्या विचारणा ॥

॥ इति ध्यानम् ॥

ॐ नमः प्लवगेन्द्राय वायुपुत्राय वालिने ।
वालाग्निदग्धलङ्काय बालार्कज्योतिषे नमः ॥

आञ्जनेयाय महते प्रभञ्जनसुताय ते ।
प्रमतादिहृते तुभ्यं प्रमाणाद्भुतचेतसे ॥

प्राचेतसप्रणयिने नमस्ते सुरवैरिणे ।
वीराय वीरवन्द्याय वीरोन्मत्ताय विद्विषाम् ॥

विशातकाय वेद्याय विश्वव्यापिशरीरिणे ।
विष्णुभक्ताय भक्तानामुपकर्त्रे जितात्मने ॥

वनमालाग्रवालाय पवमानात्मने नमः ।
कृतमानाय कृत्येषु वीतरागाय ते नमः ॥

वालधृतमहेन्द्राय सूर्यपुत्रहितैषिणे ।
बलसूदनमित्राय वरदाय नमो नमः ॥

शमादिगुणनिष्ठाय शान्ताय शमितारये ।
शत्रुघ्नाय नमस्तुभ्यं शम्बरारिजिते नमः ॥

जानकीक्लेशसंहर्त्रे जनकानन्ददायिने ।
लङ्घितोदधये तुभ्यं तेजसां निधये नमः ॥

नित्याय नित्यानन्दाय नैष्ठिकब्रह्मचारिणे ।
ब्रह्माण्डव्याप्तदेहाय भविष्यद्ब्रह्मणे नमः ॥

ब्रह्मास्त्रवारकायस्तु सहसद्ब्रह्मवेदिने ।
नमो वेदान्तविदुषे वेदाध्ययनशालिने ॥

नखायुधाय नाथाय नक्षत्राधिपवर्चसे ।
नमो नागारिसेव्याय नमस्सुग्रीवमन्त्रिणे ॥

दशास्यदर्पहन्त्रेच छायाप्राणापहारिणे ।
गगनत्वरगतये नमो गरुडरंहसे ॥

गुहानुयाय गुह्याय गम्भीरपतये नमः ।
शत्रुघ्नाय नमस्तुभ्यं शरान्तरविहारिणे ॥

राघवप्रियदूताय लक्ष्मणप्राणदायिने ।
लङ्किणीसत्वसंहर्त्रे चैत्यप्रासादभञ्जिने ॥

भवाम्बुराशेः पाराय परविक्रमहारिणे ।
नमो वज्रशरीयाय वज्राशनिनिवारिणे ॥

नमो रुद्रावताराय रौद्राकाराय वैरिणाम् ।
किङ्करान्तकरूपाय मन्त्रीपुत्रनिहन्त्रिणे ॥

महाबलाय भीमाय महताम्पतये नमः ।
मैनाककृतमानाय मनोवेगाय मालिने ॥

कदलीवनसंस्थाय नमस्सर्वार्थदायिने ।
ऐन्द्रव्याकरणज्ञाय तत्वज्ञानार्थवेदिने ॥

कारुण्यनिधये तुभ्यं कुमारब्रह्मचारिणे ।
नभो गम्भीरशब्दाय सर्वग्रहनिवारिणे ॥

सुभगाय सुशान्ताय सुमुखाय सुवर्चसे ।
सुदुर्जयाय सूक्ष्माय सुमनःप्रियबन्धवे ॥

सुरारिवर्गसंहर्त्रे हर्यृक्षाधीश्वराय ते ।
भूतप्रेतादिसंहर्त्रे भूतावेशकराय ते ॥

नमो भूतनिषेवाय भूताधिपतये नमः ।
नमो ग्रहस्वरूपाय ग्रहाधिपतये नमः ॥

नमो ग्रहनिवाराय उग्राय चोग्रवर्चसे ।
ब्रह्मतन्त्रस्वतन्त्राय शम्भुतन्त्रस्वतन्त्रिणे ॥

हरितन्त्रस्वतन्त्राय तुभ्यं हनुमते नमः ।
अष्टोत्तरशतं सङ्ख्या हनुमन्नाममूर्तयः ॥

पुरतः परतो व्यापी मम पातु महाबलः ।
शान्तिरस्तु शिवं चास्तु सत्यास्सन्तु मनोरथाः ॥

रक्षा भवतु योनी वा विविधे वरदेहिनाम् ।
अविघ्नो दुःखहानिश्च वाञ्छासिद्धिश्शुभोदयाः ।
प्रजासिद्धिश्च सामर्थ्यं मानोन्नतिरनामयम् ॥

इति श्रीहनुमदष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

Also Read:

Shri Hanumada Ashtottara Shatanama Stotram 7 in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Shri Hanumada Ashtottara Shatanama Stotram 7 Lyrics in Hindi | Hanuman Slokam

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top