Templesinindiainfo

Best Spiritual Website

Shri Vasavi Kanyaka Parameshwari Ashtottara Shatanama Stotram Lyrics in Hindi

Shri Vasavi Kanyaka Parameshwari Ashtottara Shatanamastotram Lyrics in Hindi:

श्रीवासवीकन्यकापरमेश्वर्यष्टोत्तरशतनामस्तोत्रम्
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥

वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥

न्यासः –
अस्य श्रीवासवीकन्यकापरमेश्वरी
अष्टोत्तरशतनामस्तोत्रमालामन्त्रस्य
समाधि ऋषिः । श्रीकन्यकापरमेश्वरी देवता। अनुष्टुप्छन्दः।
वं बीजम् । स्वाहा शक्तिः। सौभाग्यमिति कीलकम्।
मम सकलसिद्धिप्राप्तये जपे विनियोगः ॥

ध्यानम् –
वन्दे कुसुमाम्बासत्पुत्रीं वन्दे कुसुमश्रेष्ठतनयाम् ।
वन्दे विरूपाक्षसहोदरीं वन्दे कन्यकापरमेश्वरीम् ॥

वन्दे भास्कराचार्यविद्यार्थिनीं वन्दे नगरेश्वरस्य प्रियाम् ।
वन्दे विष्णुवर्धनमर्दिनीं वन्दे पेनुकोण्डापुरवासिनीम् ॥

वन्दे आर्यवैश्यकुलदेवीं वासवीं भक्तानामभीष्टफलदायिनीम् ।
वन्दे अन्नपूर्णास्वरूपिणीं वासवीं भक्तानां मनालयनिवासिनीम् ॥

ॐ सौभाग्यजननी माता माङ्गल्या मानवर्धिनी ।
महाकीर्तिप्रसारिणी महाभाग्यप्रदायिनी ॥ १ ॥

वासवाम्बा च कामाक्षी विष्णुवर्धनमर्दिनी ।
वैश्यवम्शोद्भवा चैव कन्यकाचित्स्वरूपिणी ॥ २ ॥

कुलकीर्तिप्रवर्द्धिनी कुमारी कुलवर्धिनी ।
कन्यका काम्यदा करुणा कन्यकापरमेश्वरी ॥ ३ ॥

विचित्ररूपा बाला च विशेषफलदायिनी ।
सत्यकीर्तिः सत्यवती सर्वावयवशोभिनी ॥ ४ ॥

दृढचित्तमहामूर्तिः ज्ञानाग्निकुण्डनिवासिनी ।
त्रिवर्णनिलया चैव वैश्यवंशाब्धिचन्द्रिका ॥ ५ ॥

पेनुकोण्डापुरीवासा साम्राज्यसुखदायिनी ।
विश्वख्याता विमानस्था विरूपाक्षसहोदरी ॥ ६ ॥

वैवाहमण्डपस्था च महोत्सवविलासिनी ।
बालनगरसुप्रीता महाविभवशालिनी ॥ ०७ ॥

सौगन्धकुसुमप्रीता सदा सौगन्धलेपिनी ।
सत्यप्रमाणनिलया पद्मपाणी क्षमावती ॥ ८ ॥

ब्रह्मप्रतिष्ठा सुप्रीता व्यासोक्तविधिवर्धिनी ।
सर्वप्राणहितेरता कान्ता कमलगन्धिनी ॥ ०९ ॥

मल्लिकाकुसुमप्रीता कामितार्थप्रदायिनी ।
चित्ररूपा चित्रवेषा मुनिकारुण्यतोषिणी ॥ १० ॥

चित्रकीर्तिप्रसारिणी नमिता जनपोषिणी ।
विचित्रमहिमा माता नारायणी निरञ्जना ॥ ११ ॥

गीतकानन्दकारिणी पुष्पमालाविभूषिणी ।
स्वर्णप्रभा पुण्यकीर्ति?स्वार्तिकालाद?कारिणी ॥ १२ ॥

स्वर्णकान्तिः कला कन्या सृष्टिस्थितिलयकारणा ।
कल्मषारण्यवह्नी च पावनी पुण्यचारिणी ॥ १३ ॥

वाणिज्यविद्याधर्मज्ञा भवबन्धविनाशिनी ।
सदा सद्धर्मभूषणी बिन्दुनादकलात्मिका ॥ १४ ॥

धर्मप्रदा धर्मचित्ता कला षोडशसम्युता ।
नायकी नगरस्था च कल्याणी लाभकारिणी ॥ १५ ॥

?मृडाधारा? गुह्या चैव नानारत्नविभूषणा ।
कोमलाङ्गी च देविका सुगुणा शुभदायिनी ॥ १६ ॥

सुमुखी जाह्नवी चैव देवदुर्गा दाक्षायणी ।
त्रैलोक्यजननी कन्या पञ्चभूतात्मिका परा ॥ १७ ॥

सुभाषिणी सुवासिनी ब्रह्मविद्याप्रदायिनी ।
सर्वमन्त्रफलप्रदा वैश्यजनप्रपूजिता ॥ १८ ॥

करवीरनिवासिनी हृदयग्रन्थिभेदिनी ।
सद्भक्तिशालिनी माता श्रीमत्कन्याशिरोमणी ॥ १९ ॥

सर्वसम्मोहकारिणी ब्रह्मविष्णुशिवात्मिका ।
वेदशास्त्रप्रमाणा च विशालाक्षी शुभप्रदा ॥ २० ॥

सौन्दर्यपीठनिलया सर्वोपद्रवनाशिनी ।
सौमङ्गल्यादिदेवता श्रीमन्त्रपुरवासिनी ॥ २१ ॥

वासवीकन्यका माता नगरेश्वरमानिता ।
वैश्यकुलनन्दिनी वासवी सर्वमङ्गला ॥ २२ ॥

फलश्रुतिः –
इदं स्तोत्रं वासव्याः नाम्नामष्टोत्तरं शतम् ।
यः पठेत्प्रयतो नित्यं भक्तिभावेन चेतसा ॥ १ ॥

न शत्रुभयं तस्य सर्वत्र विजयी भवेत् ।
सर्वान् कामानवाप्नोति वासवाम्बा प्रसादतः ॥ २ ॥

॥ इति श्रीवासवीकन्यकापरमेश्वर्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

समर्पणम् –
यदक्षरपदभ्रष्टं मात्राहीनं तु यद्भवेत् ।
तत्सर्वं क्षम्यतां देवी वासवाम्बा नमोऽस्तुते ॥ १ ॥

विसर्गबिन्दुमात्राणि पदपादाक्षराणि च ।
न्यूनानि चातिरिक्तानि क्षमस्व परमेश्वरि ॥ २ ॥

अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्यभावेन रक्ष रक्ष महेश्वरि ॥ ३ ॥

Also Read:

Shri Vasavi Kanyaka Parameshwari Ashtottara Shatanama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

Shri Vasavi Kanyaka Parameshwari Ashtottara Shatanama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top