Templesinindiainfo

Best Spiritual Website

Srikameshvara Stotram Lyrics in Marathi | Shiva Slokam

Srikameshvara Stotram in Marathi:

॥ श्रीकामेश्वर स्तोत्रम ॥
ककाररूपाय करात्तपाशसॄणीक्षुपुष्पाय कलेश्वराय ।
काकोदरस्रग्विलसद्गलाय कामेश्वरायास्तु नतेः सहस्रम ॥ 1 ॥

कनत्सुवर्णाभजटाधराय सनत्कुमारादिसुनीडिताय ।
नमत्कलादानधुरन्धराय कामेशवरायास्तु नतेः सहस्रम ॥ 2 ॥

कराम्बुजातम्रदिमावधूतप्रवालगर्वाय दयामयाय ।
दारिद्र्यदावामृतवृष्टये ते कामेशवरायास्तु नतेः सहस्रम ॥ 3 ॥

कल्याणशैलेषुघयेऽहिराजगुणाय लक्ष्मीधवसायकाय ।
पृथ्वीरथायागमसैन्धवाय कामेशवरायास्तु नतेः सहस्रम ॥ 4 ॥

कल्याय बल्याशरसङ्घभेदे तुल्या न सन्त्येव हि यस्य लोके ।
शल्यापहर्त्रे विनतस्य तस्मै कामेशवरायास्तु नतेः सहस्रम ॥ 5 ॥

कान्ताय शैलाधिपतेः सुताय घटोद्भवात्रेयमुखार्चिताय ।
अघौघविध्वंसनपण्डिताय कामेशवरायास्तु नतेः सहस्रम ॥ 6 ॥

कामरये काङ्क्षितदाय शीघ्रं त्रात्रे सुराणां निखिलाद्भयाच्च ।
चलत्फणीन्द्रश्रितकन्धराय कामेशवरायास्तु नतेः सहस्रम ॥ 7 ॥

कालान्तकाय प्रणतार्तिहन्त्रे तुलाविहीनास्यसरोरुहाय ।
निजाङ्गसौन्दर्यजिताङ्गजाय कामेशवरायास्तु नतेः सहस्रम ॥ 8 ॥

कैलासवासादरमानसाय कैवल्यदाय प्रणतव्रजस्य ।
पदाम्बुजानम्रसुरेश्वराय कामेशवरायास्तु नतेः सहस्रम ॥ 9 ॥

हतारिषट्कैरनुभूयमाननिजस्वरूपाय निरामयाय ।
निराकृतानेकविधामयाय कामेशवरायास्तु नतेः सहस्रम ॥ 10 ॥

हतासुराय प्रणतेष्टदाय प्रभाविनिर्धूतजपासुमाय ।
प्रकर्षदाय प्रणमज्जनानां कामेशवरायास्तु नतेः सहस्रम ॥ 11 ॥

हराय ताराधिपशेखराय तमालसङ्काशगलोज्ज्वलाय ।
तापत्रयाम्भोनिधिवाडवाय कामेशवरायास्तु नतेः सहस्रम ॥ 12 ॥

हृद्यानि पद्यानि विनिःसरन्ति मुखाम्बुजाद्यत्पदपूजकानाम ।
विना प्रयत्नं कमपीह तस्मै कामेश्वरायास्तु नतेः सहस्रम ॥ 13 ॥

इति कामेश्वरस्तोत्रं संपूर्णम ॥

Also Read:

Srikameshvara Stotram Lyrics in Marathi | Gujarati | Bengali | Kannada | Malayalam | Telugu

Srikameshvara Stotram Lyrics in Marathi | Shiva Slokam

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top