Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Annapurna | Sahasranama Stotram Lyrics in Hindi

Shri Annapurna Sahasranama Stotram Lyrics in Hindi:

॥ श्रीअन्नपूर्णासहस्रनामस्तोत्रम् ॥
श्रीरुद्रयामले

कैलासशिखरासीनं देवदेवं महेश्वरम् ।
प्रणम्य दण्डवद्भूमौ पार्वती परिपृच्छति ॥ १ ॥

श्रीपार्वत्युवाच ।
अन्नपूर्णा महादेवी त्रैलोक्ये जीवधारिणी ।
नाम्नां सहस्रं तस्यास्तु कथयस्व महाप्रभो ॥ २ ॥

श्रीशिव उवाच ।
श‍ृणु देवि वरारोहे जगत्कारणि कौलिनि ।
आराधनीया सर्वेषां सर्वेषां परिपृच्छसि ॥ ३ ॥

सहस्रैर्नामभिर्दिव्यैस्त्रैलोक्यप्राणिपूजितैः ।
अन्नदायास्स्तवं दिव्यं यत्सुरैरपि वाञ्छितम् ॥ ४ ॥

कथयामि तव स्नेहात्सावधानाऽवधारय ।
गोपनीयं प्रयत्नेन स्तवराजमिदं शुभम् ॥ ५ ॥

न प्रकाश्यं त्वया भद्रे दुर्जनेभ्यो निशेषतः ।
न देयं परशिष्येभ्यो भक्तिहीनाय पार्वति ॥ ६ ॥

देयं शिष्याय शान्ताय गुरुदेवरताय च ।
अन्नपूर्णास्तवं देयं कौलिकाय कुलेश्वरी ॥ ७ ॥

ॐ अस्य श्रीमदन्नपूर्णासहस्रनामस्तोत्रमालामन्त्रस्य,
श्रीभगवान् ऋषिः, अनुष्टुप्छन्दः,
प्रकटगुप्तगुप्ततर सम्पदाय कुलोत्तीर्ण निगर्भरहस्याति
रहस्यपरापरातिरहस्यातिपूर्वाचिन्त्यप्रभावा भगवती
श्रीमदन्नपूर्णादेवता, हलो बीजं, स्वराश्शक्तिः, जीवो बीजं,
बुद्धिश्शक्तिः, उदानो बीजं, सुषुम्ना नाडी, सरस्वती शक्तिः,
धर्मार्थकाममोक्षार्थे पाठे विनियोगः ॥

ध्यानम् ।
अर्कोन्मुक्तशशाङ्ककोटिवदनामापीनतुङ्गस्तनीं
चन्द्रार्धाङ्कितमस्तकां मधुमदामालोलनेत्रत्रयीम् ।
बिभ्राणामनिशं वरं जपपटीं शूलं कपालं करैः
आद्यां यौवनगर्वितां लिपितनुं वागीश्वरीमाश्रये ॥

अथ अन्नपूर्णासहस्रनामस्तोत्रम् ।

॥ ॐ अन्नपूर्णायै नमः ॥

अन्नपूर्णा अन्नदात्री अन्नराशिकृतालया ।
अन्नदा अन्नरूपा च अन्नदानरतोत्सवा ॥ १ ॥

अनन्ता च अनन्ताक्षी अनन्तगुणशालिनी ।
अच्युता अच्युतप्राणा अच्युतानन्दकारिणी ॥ २ ॥

अव्यक्ताऽनन्तमहिमा अनन्तस्य कुलेश्वरी ।
अब्धिस्था अब्धिशयना अब्धिजा अब्धिनन्दिनी ॥ ३ ॥

अब्जस्था अब्जनिलया अब्जजा अब्जभूषणा ।
अब्जाभा अब्जहस्ता च अब्जपत्रशुभेक्षणा ॥ ४ ॥

अब्जानना अनन्तात्मा अग्रिस्था अग्निरूपिणी ।
अग्निजाया अग्निमुखी अग्निकुण्डकृतालया ॥ ५ ॥

अकारा अग्निमाता च अजयाऽदितिनन्दिनी ।
आद्या आदित्यसङ्काशा आत्मज्ञा आत्मगोचरा ॥ ६ ॥

आत्मसूरात्मदयिता आधारा आत्मरूपिणी ।
आशा आकाशपद्मस्था अवकाशस्वरूपिणी ॥ ७ ॥

आशापूरी अगाधा च अणिमादिसुसेविता ।
अम्बिका अबला अम्बा अनाद्या च अयोनिजा ॥ ८ ॥

अनीशा ईशिका ईशा ईशानी ईश्वरप्रीया ।
ईश्वरी ईश्वरप्राणा ईश्वरानन्ददायिनी ॥ ९ ॥

इन्द्राणी इन्द्रदयिता इन्द्रसूरिन्द्रपालिनी ।
इन्दिरा इन्द्रभगिनी इन्द्रिया इन्दुभूषणा ॥ १० ॥

इन्दुमाता इन्दुमुखी इन्द्रियाणां वशङ्करी ।
उमा उमापतेः प्राणा ओड्याणपीठवासिनी ॥ ११ ॥

उत्तरज्ञा उत्तराख्या उकारा उत्तरात्मिका ।
ऋमाता ऋभवा ऋस्था ॠलॄकारस्वरूपिणी ॥ १२ ॥

ऋकारा च लृकारा च लॄतकप्रीतिदायिनी ।
एका च एकवीरा च एकारैकाररूपिणी ॥ १३ ॥

ओकारी ओघरूपा च ओघत्रयसुपूजिता ।
ओघस्था ओघसम्भूता ओघधात्री च ओघसूः ॥ १४ ॥

षोडशस्वरसम्भूता षोडशस्वररूपिणी ।
वर्णात्मा वर्णनिलया शूलिनी वर्णमालिनी ॥ १५ ॥

कालरात्रिर्महारात्रिर्मोहरात्रिः सुलोचना ।
काली कपालिनी कृत्या कालिका सिंहगामिनी ॥ १६ ॥

कात्यायनी कलाधारा कालदैत्यनिकृन्तनी ।
कामिनी कामवन्द्या च कमनीया विनोदिनी ॥ १७ ॥

कामसूः कामवनिता कामधुक् कमलावती ।
कामदात्री कराली च कामकेलिविनोदिनी ॥ १८ ॥

कामना कामदा काम्या कमला कमलार्चिता ।
काश्मीरलिप्तवक्षोजा काश्मीरद्रवचर्चिता ॥ १९ ॥

कनका कनकप्राणा कनकाचलवासिनी ।
कनकाभा काननस्था कामाख्या कनकप्रदा ॥ २० ॥

कामपीठस्थिता नित्या कामधामनिवासिनी ।
कम्बुकण्ठी करालाक्षी किशोरी च कलापिनी ॥ २१ ॥

कला काष्ठा निमेषा च कालस्था कालरूपिणी ।
कालज्ञा कालमाता च कालधात्री कलावती ॥ २२ ॥

कालदा कालहा कुल्या कुरुकुल्ला कुलाङ्गना ।
कीर्तिदा कीर्तिहा कीर्तिः कीर्तिस्था कीर्तिवर्धनी ॥ २३ ॥

कीर्तिज्ञा कीर्तितपदा कृत्तिका केशवप्रिया ।
केशिहा केलीकारी च केशवानन्दकारिणी ॥ २४ ॥

कुमुदाभा कुमारी च कर्मदा कमलेक्षणा ।
कौमुदी कुमुदानन्दा कौलिनी च कुमुद्वती ॥ २५ ॥

कोदण्डधारिणी क्रोधा कूटस्था कोटराश्रया ।
कालकण्ठी करालाङ्गी कालाङ्गी कालभूषणा ॥ २६ ॥

कङ्काली कामदामा च कङ्कालकृतभूषणा ।
कपालकर्त्रिककरा करवीरस्वरूपिणी ॥ २७ ॥

कपर्दिनी कोमलाङ्गी कृपासिन्धुः कृपामयी ।
कुशावती कुण्डसंस्था कौबेरी कौशिकी तथा ॥ २८ ॥

काश्यपी कद्रुतनया कलिकल्मषनाशिनी ।
कञ्जस्था कञ्जवदना कञ्जकिञ्जल्कचर्चिता ॥ २९ ॥

कञ्जाभा कञ्जमध्यस्था कञ्जनेत्रा कचोद्भवा ।
कामरूपा च ह्रींकारी कश्यपान्वयवर्धिनी ॥ ३० ॥

खर्वा च खञ्जनद्वन्द्वलोचना खर्ववाहिनी ।
खड्गिनी खड्गहस्ता च खेचरी खड्गरूपिणी ॥ ३१ ॥

खगस्था खगरूपा च खगगा खगसम्भवा ।
खगधात्री खगानन्दा खगयोनिस्वरूपिणी ॥ ३२ ॥

खगेशी खेटककरा खगानन्दविवर्धिनी ।
खगमान्या खगाधारा खगगर्वविमोचिनी ॥ ३३ ॥

गङ्गा गोदावरी गीतिर्गायत्री गगनालया ।
गीर्वाणसुन्दरी गौश्च गाधा गीर्वाणपूजिता ॥ ३४ ॥

गीर्वाणचर्चितपदा गान्धारी गोमती तथा ।
गर्विणी गर्वहन्त्री च गर्भस्था गर्भधारिणी ॥ ३५ ॥

गर्भदा गर्भहन्त्री च गन्धर्वकुलपूजिता ।
गया गौरी च गिरिजा गिरिस्था गिरिसम्भवा ॥ ३६ ॥

गिरिगह्वरमध्यस्था कुञ्जरेश्वरगामिनी ।
किरीटिनी च गदिनी गुञ्जाहारविभूषणा ॥ ३७ ॥

गणपा गणका गण्या गणकानन्दकारिणी ।
गणपूज्या च गीर्वाणी गणपाननन्दकारिणी ॥ ३८ ॥

गुरुमाता गुरुरता गुरुभक्तिपरायणा ।
गोत्रा गौः कृष्णभगिनी कृष्णसूः कृष्णनन्दिनी ॥ ३९ ॥

गोवर्धनी गोत्रधरा गोवर्धनकृतालया ।
गोवर्धनधरा गोदा गौराङ्गी गौतमात्मजा ॥ ४० ॥

घर्घरा घोररूपा च घोरा घर्घरनादिनी ।
श्यामा घनरवाऽघोरा घना घोरार्तिनाशिनी ॥ ४१ ॥

घनस्था च घनानन्दा दारिद्र्यघननाशिनी ।
चित्तज्ञा चिन्तितपदा चित्तस्था चित्तरूपिणी ॥ ४२ ॥

चक्रिणी चारुचम्पाभा चारुचम्पकमालिनी ।
चन्द्रिका चन्द्रकान्तिश्च चापिनी चन्द्रशेखरा ॥ ४३ ॥

चण्डिका चण्डदैत्यघ्नी चन्द्रशेखरवल्लभा ।
चाण्डालिनी च चामुण्डा चण्डमुण्डवधोद्यता ॥ ४४ ॥

चैतन्यभैरवी चण्डा चैतन्यघनगेहिनी ।
चित्स्वरूपा चिदाधारा चण्डवेगा चिदालया ॥ ४५ ॥

चन्द्रमण्डलमध्यस्था चन्द्रकोटिसुशीतला ।
चपला चन्द्रभगिनी चन्द्रकोटिनिभानना ॥ ४६ ॥

चिन्तामणिगुणाधारा चिन्तामणिविभूषणा ।
भक्तचिन्तामणिलता चिन्तामणिकृतालया ॥ ४७ ॥

चारुचन्दनलिप्ताङ्गी चतुरा च चतुर्मुखी ।
चैतन्यदा चिदानन्दा चारुचामरवीजिता ॥ ४८ ॥

छत्रदा छत्रधारी च छलच्छद्मविनाशिनी ।
छत्रहा छत्ररूपा च छत्रच्छायाकृतालया ॥ ४९ ॥

जगज्जीवा जगद्धात्री जगदानन्दकारिणी ।
यज्ञप्रिया यज्ञरता जपयज्ञपरायणा ॥ ५० ॥

जननी जानकी यज्वा यज्ञहा यज्ञनन्दिनी ।
यज्ञदा यज्ञफलदा यज्ञस्थानकृतालया ॥ ५१ ॥

यज्ञभोक्त्री यज्ञरूपा यज्ञविघ्नविनाशिनी ।
जपाकुसुमसङ्काशा जपाकुसुमशोभिता ॥ ५२ ॥

जालन्धरी जया जैत्री जीमूतचयभाषिणी ।
जयदा जयरूपा च जयस्था जयकारिणी ॥ ५३ ॥

जगदीशप्रिया जीवा जलस्था जलजेक्षणा ।
जलरूपा जह्नुकन्या यमुना जलजोदरी ॥ ५४ ॥

जलजास्या जाह्नवी च जलजाभा जलोदरी ।
यदुवंशोद्भवा जीवा यादवानन्दकारिणी ॥ ५५ ॥

यशोदा यशसां राशिर्यशोदानन्दकारिणी ।
ज्वलिनी ज्वालिनी ज्वाला ज्वलत्पावकसन्निभा ॥ ५६ ॥

ज्वालामुखी जगन्माता यमलार्जुनभञ्जनी ।
जन्मदा जन्महा जन्या जन्मभूर्जनकात्मजा ॥ ५७ ॥

जनानन्दा जाम्बवती जम्बूद्वीपकृतालया ।
जाम्बूनदसमानाभा जाम्बूनदविभूषणा ॥ ५८ ॥

जम्भहा जातिदा जातिर्ज्ञानदा ज्ञानगोचरा ।
ज्ञानरूपाऽज्ञानहा च ज्ञानविज्ञानशालिनी ॥ ५९ ॥

जिनजैत्री जिनाधारा जिनमाता जिनेश्वरी ।
जितेन्द्रिया जनाधारा अजिनाम्बरधारिणी ॥ ६० ॥

शम्भुकोटिदुराधर्षा विष्णुकोटिविमर्दिनी ।
समुद्रकोटिगम्भीरा वायुकोटिमहाबला ॥ ६१ ॥

सूर्यकोटिप्रतीकाशा यमकोटिदुरापहा ।
कामधुक्कोटिफलदा शक्रकोटिसुराज्यदा ॥ ६२ ॥

कन्दर्पकोटिलावण्या पद्मकोटिनिभानना ।
पृथ्वीकोटिजनाधारा अग्निकोटिभयङ्करी ॥ ६३ ॥

अणिमा महिमा प्राप्तिर्गरिमा लघिमा तथा ।
प्राकाम्यदा वशकरी ईशिका सिद्धिदा तथा ॥ ६४ ॥

महिमादिगुणोपेता अणिमाद्यष्टसिद्धिदा ।
जवनध्नी जनाधीना जामिनी च जरापहा ॥ ६५ ॥

तारिणी तारिका तारा तोतला तुलसीप्रिया ।
तन्त्रिणी तन्त्ररूपा च तन्त्रज्ञा तन्त्रधारिणी ॥ ६६ ॥

तारहारा च तुलजा डाकिनीतन्त्रगोचरा ।
त्रिपुरा त्रिदशा त्रिस्था त्रिपुरासुरघातिनी ॥ ६७ ॥

त्रिगुणा च त्रिकोणस्था त्रिमात्रा त्रितनुस्थिता ।
त्रैविद्या च त्रयी त्रिघ्नी तुरीया त्रिपुरेश्वरी ॥ ६८ ॥

त्रिकोदरस्था त्रिविधा त्रैलोक्या त्रिपुरात्मिका ।
त्रिधाम्नी त्रिदशाराध्या त्र्यक्षा त्रिपुरवासिनी ॥ ६९ ॥

त्रिवर्णी त्रिपदी तारा त्रिमूर्तिजननी त्वरा ।
त्रिदिवा त्रिदिवेशाऽऽदिर्देवी त्रैलोक्यधारिणी ॥ ७० ॥

त्रिमूर्तिश्च त्रिजननी त्रीभूस्त्रीपुरसुन्दरी ।
तपस्विनी तपोनिष्ठा तरुणी ताररूपिणी ॥ ७१ ॥

तामसी तापसी चैव तापघ्नी च तमोपहा ।
तरुणार्कप्रतीकाशा तप्तकाञ्चनसन्निभा ॥ ७२ ॥

उन्मादिनी तन्तुरूपा त्रैलोक्यव्यापिनीश्वरी ।
तार्किकी तर्किकी विद्या तापत्रयविनाशिनी ॥ ७३ ॥

त्रिपुष्करा त्रिकालज्ञा त्रिसन्ध्या च त्रिलोचना ।
त्रिवर्गा च त्रिवर्गस्था तपसस्सिद्धिदायिनी ॥ ७४ ॥

अधोक्षजा अयोध्या च अपर्णा च अवन्तिका ।
कारिका तीर्थरूपा च तीरा तीर्थकरी तथा ॥ ७५ ॥

दारिद्र्यदुःखदलिनी अदीना दीनवत्सला ।
दीनानाथप्रिया दीर्घा दयापूर्णा दयात्मिका ॥ ७६ ॥

देवदानवसम्पूज्या देवानां प्रियकारिणी ।
दक्षपुत्री दक्षमाता दक्षयज्ञविनाशिनी ॥ ७७ ॥

देवसूर्दक्षीणा दक्षा दुर्गा दुर्गतिनाशिनी ।
देवकीगर्भसम्भूता दुर्गदैत्यविनाशिनी ॥ ७८ ॥

अट्टाऽट्टहासिनी दोला दोलाकर्माभिनन्दिनी ।
देवकी देविका देवी दुरितघ्नी तटित्तथा ॥ ७९ ॥

गण्डकी गल्लकी क्षिप्रा द्वारा द्वारवती तथा ।
आनन्दोदधिमध्यस्था कटिसूत्रैरलङ्कृता ॥ ८० ॥

घोराग्निदाहदमनी दुःखदुस्स्वप्ननाशिनी ।
श्रीमयी श्रीमती श्रेष्ठा श्रीकरी श्रीविभाविनी ॥ ८१ ॥

श्रीदा श्रीशा श्रीनिवासा श्रीमती श्रीर्मतिर्गतिः ।
धनदा दामिनी दान्ता धमदो धनशालिनी ॥ ८२ ॥

दाडिमीपुष्पसङ्काशा धनागारा धनञ्जया ।
धूम्राभा धूम्रदैत्त्रघ्नी धवला धवलप्रिया ॥ ८३ ॥

धूम्रवक्त्रा धूम्रनेत्रा धूम्रकेशी च धूसरा ।
धरणी धरिणी धैर्या धरा धात्री च धैर्यदा ॥ ८४ ॥

दमिनी धर्मिणी धूश्च दया दोग्ध्री दुरासदा ।
नारायणी नारसिंही नृसिंहहृदयालया ॥ ८५ ॥

नागिनी नागकन्या च नागसूर्नागनायिका ।
नानारत्नविचित्राङ्गी नानाभरणमण्डिता ॥ ८६ ॥

दुर्गस्था दुर्गरूपा च दुःखदुष्कृतनाशिनी ।
हीङ्कारी चैव श्रीङ्कारी हुङ्कारी क्लेशनाशिनी ॥ ८७ ॥

नगात्मजा नागरी च नवीना नूतनप्रिया ।
नीरजास्या नीरदाभा नवलावण्यसुन्दरी ॥ ८८ ॥

नीतिज्ञा नीतिदा नीतिर्निमनाभिर्नगेश्वरी ।
निष्ठा नित्या निरातङ्का नागयज्ञोपवीतिनी ॥ ८९ ॥

निधिदा निधिरूपाच निर्गुणा नरवाहिनी ।
नरमांसरता नारी नरमुण्डविभूषणा ॥ ९० ॥

निराधारा निर्विकारा नुतिर्निर्वाणसुन्दरी ।
नरासृक्पानमत्ता च निर्वैरा नागगामिनी ॥ ९१ ॥

परमा प्रमिता प्राज्ञा पार्वती पर्वतात्मजा ।
पर्वप्रिया पर्वरता पर्वपावनपावनी ॥ ९२ ॥

परात्परतरा पूर्वा पश्चिमा पापनाशिनी ।
पशूनां पतिपत्नी च पतिभक्तिपरायणा ॥ ९३ ॥

परेशी पारगा पारा परञ्ज्योतिस्वरूपिणी ।
निष्ठुरा क्रूरहृदया परासिद्धिः परागतिः ॥ ९४ ॥

पशुघ्नी पशुरूपा च पशुहा पशुवाहिनी ।
पिता माता च यन्त्री च पशुपाशविनाशिनी ॥ ९५ ॥

पद्मिनी पद्महस्ता च पद्मकिञ्जल्कवासिनी ।
पद्मवक्त्रा च पद्माक्षी पद्मस्था पद्मसम्भवा ॥ ९६ ॥

पद्मास्या पञ्चमी पूर्णा पूर्णपीठनिवासिनी ।
पद्मरागप्रतीकाशा पाञ्चाली पञ्चमप्रिया ॥ ९७ ॥

परब्रह्मस्वरूपा च परब्रह्मनिवासिनी ।
परमानन्दमुदिता परचक्रनिवासिनी ॥ ९८ ॥

परेशी परमा पृथ्वी पीनतुङ्गपयोधरा ।
परापरा पराविद्या परमानन्ददायिनी ॥ ९९ ॥

पूज्या प्रज्ञावती पुष्टिः पिनाकिपरिकीर्तिता ।
प्राणघ्नी प्राणरूपा च प्राणदा च प्रियंवदा ॥ १०० ॥

फणिभूषा फणावेशी फकारकण्ठमालिनी ।
फणिराड्वृतसर्वाङ्गी फलभागनिवासिनी ॥ १०१ ॥

बलभद्रस्य भगिनी बाला बालप्रदायिनी ।
फल्गुरुपा प्रलम्बध्नी फल्गूत्सव विनोदिनी ॥ १०२ ॥

भवानी भवपत्नी च भवभीतिहरा भवा ।
भवेश्वरी भवाराध्या भवेशी भवनायिका ॥ १०३ ॥

भवमाता भवागम्या भवकण्टकनाशिनी ।
भवप्रिया भवानन्दा भव्या च भवमोचनी ॥ १०४ ॥

भावनीया भगवती भवभारविनाशिनी ।
भूतधात्री च भूतेशी भूतस्था भूतरूपिणी ॥ १०५ ॥

भूतमाता च भूतघ्नी भूतपञ्चकवासिनी ।
भोगोपचारकुशला भिस्साधात्री च भूचरी ॥ १०६ ॥

भीतिघ्नी भक्तिगम्या च भक्तानामार्तिनाशिनी ।
भक्तानुकम्पिनी भीमा भगिनी भगनायिका ॥ १०७ ॥

भगविद्या भगक्लिन्ना भगयोनिर्भगप्रदा ।
भगेशी भगरूपा च भगगुह्या भगापहा ॥ १०८ ॥

भगोदरी भगानन्दा भगाद्या भगमालिनी ।
भोगप्रदा भोगवासा भोगमूला च भोगिनी ॥ १०९ ॥

भेरुण्डा भेदिनी भीमा भद्रकाली भिदोज्झिता ।
भैरवी भुवनेशानी भुवना भुवनेश्वरी ॥ ११० ॥

भीमाक्षी भारती चैव भैरवाष्टकसेविता ।
भास्वरा भास्वती भीतिर्भास्वदुत्तानशायिनी ॥ १११ ॥

भागीरथी भोगवती भवघ्नी भुवनात्मिका ।
भूतिदा भूतिरूपा च भूतस्था भूतवर्धिनी ॥ ११२ ॥

माहेश्वरी महामाया महातेजा महासुरी ।
महाजिह्वा महालोला महादंष्ट्रा महाभुजा ॥ ११३ ॥

महामोहान्धकारघ्नी महामोक्षप्रदायिनी ।
महादारिद्र्यशमनी महाशत्रुविमर्दिनी ॥ ११४ ॥

महाशक्तिर्महाज्योतिर्महासुरविमर्दिनी ।
महाकाया महावीर्या महापातकनाशिनी ॥ ११५ ॥

महारवा मन्त्रमयी मणिपूरनिवासिनी ।
मानसी मानदा मान्या मनश्चक्षुरगोचरा ॥ ११६ ॥

माहेन्द्री मधुरा माया महिषासुरमर्दिनी ।
महाकुण्डलिनी शक्तिर्महाविभववर्धिनी ॥ ११७ ॥

मानसी माधवी मेधा मतिदा मतिधारिणी ।
मेनकागर्भसम्भूता मेनकाभगिनी मतिः ॥ ११८ ॥

महोदरी मुक्तकेशी मुक्तिकाम्यार्थसिद्धिदा ।
माहेशी महिषारूढा मधुदैत्यविमर्दिनी ॥ ११९ ॥

महाव्रता महामूर्धा महाभयविनाशिनी ।
मातङ्गी मत्तमातङ्गी मातङ्गकुलमण्डिता ॥ १२० ॥

महाघोरा माननीया मत्तमातङ्गगामिनी ।
मुक्ताहारलतोपेता मदधूर्णितलोचना ॥ १२१ ॥

महापराधराशिघ्री महाचोरभयापहा ।
महाचिन्त्यस्वरूपा च मणीमन्त्रमहौषधी ॥ १२२ ॥

मणिमण्डपमध्यस्था मणिमालाविराजिता ।
मन्त्रात्मिका मन्त्रगम्या मन्त्रमाता सुमन्त्रिणी ॥ १२३ ॥

मेरुमन्दिरमध्यस्था मकराकृतिकुण्डला ।
मन्थरा च महासूक्ष्मा महादूती महेश्वरी ॥ १२४ ॥

मालिनी मानवी माध्वी मदरूपा मदोत्कटा ।
मदिरा मधुरा चैव मोदिनी च महोद्धता ॥ १२५ ॥

मङ्गलाङ्गी मधुमयी मधुपानपरायणा ।
मनोरमा रमामाता राजराजेश्वरी रमा ॥ १२६ ॥

राजमान्या राजपूज्या रक्तोत्पलविभूषणा ।
राजीवलोचना रामा राधिका रामवल्लभा ॥ १२७ ॥

शाकिनी डाकिनी चैव लावण्याम्बुधिवीचिका ।
रुद्राणी रुद्ररूपा च रौद्रा रुद्रार्तिनाशिनी ॥ १२८ ॥

रक्तप्रिया रक्तवस्त्रा रक्ताक्षी रक्तलोचना ।
रक्तकेशी रक्तदंष्ट्रा रक्तचन्दनचर्चिता ॥ १२९ ॥

रक्ताङ्गी रक्तभूषा च रक्तबीजनिपातिनी ।
रागादिदोषरहिता रतिजा रतिदायिनी ॥ १३० ॥

विश्वेश्वरी विशालाक्षी विन्ध्यपीठनिवासिनी ।
विश्वभूर्वीरविद्या च वीरसूर्वीरनन्दिनी ॥ १३१ ॥

वीरेश्वरी विशालाक्षी विष्णुमाया विमोहिनी ।
विद्यावती विष्णुरूपा विशालनयनोज्ज्वला ॥ १३२ ॥

विष्णुमाता च विश्वात्मा विष्णुजायास्वरूपिणी ।
वाराही वरदा वन्द्या विख्याता विलसल्कचा ॥ १३३ ॥

ब्रह्मेशी ब्रह्मदा ब्राह्मी ब्रह्माणी ब्रह्मरूपिणी ।
द्वारका विश्ववन्द्या च विश्वपाशविमोचनी ।
विश्वासकारिणी विश्वा विश्वशक्तिर्विचक्षणा ॥ १३४ ॥

बाणचापधरा वीरा बिन्दुस्था बिन्दुमालिनी ।
षट्चक्रभेदिनी षोढा षोडशारनिवासिनी ॥ १३५ ॥

शितिकण्ठप्रिया शान्ता शाकिनी वातरूपिणी ।
शाश्वती शम्भुवनिता शाम्भवी शिवरूपिणी ॥ १३६ ॥

शिवमाता च शिवदा शिवा शिवहृदासना ।
शुक्लाम्बरा शीतला च शीला शीलप्रदायिनी ॥ १३७ ॥

शिशुप्रिया वैद्यविद्या सालग्रामशिला शुचिः ।
हरिप्रिया हरमूर्तिर्हरिनेत्रकृतालया ॥ १३८ ॥

हरिवक्त्रोद्भवा हाला हरिवक्षःस्थलस्थिता ।
क्षेमङ्करी क्षितिः क्षेत्रा क्षुधितस्य प्रपूरणी ॥ १३९ ॥

वैश्या च क्षत्रिया शूद्री क्षत्रियाणां कुलेश्वरी ।
हरपत्नी हराराध्या हरसूर्हररूपिणी ॥ १४० ॥

सर्वानन्दमयी सिद्धिस्सर्वरक्षास्वरूपिणी ।
सर्वदुष्टप्रशमनी सर्वेप्सितफलप्रदा ॥ १४१ ॥

सर्वसिद्धेश्वराराध्या सर्वमङ्गलमङ्गला ।

फलश्रुतिः ।
पुण्यं सहस्रनामेदं तव प्रीत्या प्रकाशितम् ॥ १४२ ॥

गोपनीयं प्रयत्नेन पठनीयं प्रयत्नतः ।
नातः परतरं पुण्यं नातः परतरं तपः ॥ १४३ ॥

नातः परतरं स्तोत्रं नातः परतरा गतिः ।
स्तोत्रं नामसहस्राख्यं मम वक्त्राद्विनिर्गतम् ॥ १४४ ॥

यः पठेत्परया भक्त्या श‍ृणुयाद्वा समाहितः ।
मोक्षार्थी लभते मोक्षं स्वर्गार्थी स्वर्गमाप्नुयात् ॥ १४५ ॥

कामार्थी लभते कामं धनार्थी लभते धनम् ।
विद्यार्थी लभते विद्यां यशोऽर्थी लभते यशः ॥ १४६ ॥

कन्यार्थी लभते कन्यां सुतार्थी लभते सुतान् ।
मूर्खोऽपि लभते शास्त्रं चोरोऽपि लभते गतिम् ॥ १४७ ॥

गुर्विणी जनयेत्पुत्रं कन्यां विन्दति सत्पतिम् ।
संक्रान्त्यां च चतुर्दश्यामष्टम्यां च विशेषतः ॥ १४८ ॥

पौर्णमास्याममावास्यां नवम्यां भौमवासरे ।
पठेद्वा पाठयेद्वापि पूजयेद्वापि पुस्तकम् ॥ १४९ ॥

स मुक्तस्सर्वपापेभ्यः कामेश्वरसमो भवेत् ।
लक्ष्मीवान् सुतवांश्चैव वल्लभस्सर्वयोषिताम् ॥ १५० ॥

तस्य वश्यं भवेदाशु त्रैलोक्यं सचराचरम् ।
विद्यानां पारगो विप्रः क्षत्रियो विजयी रणे ॥ १५१ ॥

वैश्यो धनसमृद्धस्स्याच्छूद्रस्सुखमवाप्नुयात् ।
क्षेत्रे च बहुसस्यं स्याद्गावश्च बहुदुग्धदाः ॥ १५२ ॥

नाशुभं नापदस्तस्य न भयं नृपशत्रुतः ।
जायते नाशुभा बुद्धिर्लभते कुलपूज्यताम् ॥ १५३ ॥

न बाधन्ते ग्रहास्तस्य न रक्षांसि न पन्नगाः ।
न पिशाचा न डाकिन्यो भूतभेतालडम्भकाः ॥ १५४ ॥

बालग्रहाभिभूतानां बालानां शान्तिकारकम् ।
द्वन्द्वानां प्रतिभेदे च मैत्रीकरणमुत्तमम् ॥ १५५ ॥

लोहपाशैदृढैर्बद्धो बन्दी वेश्मनि दुर्गमे ।
तिष्ठञ्छृण्वन्पतन्मर्त्यो मुच्यते नात्र संशयः ॥ १५६ ॥

पश्यन्ति नहि ते शोकं वियोगं चिरजीविनः ।
श‍ृण्वती बद्धगर्भा च सुखं चैव प्रसूयते ॥ १५७ ॥

एकदा पठनादेव सर्वपापक्षयो भवेत् ।
नश्यन्ति च महारोगा दशधावर्तनेन च ॥ १५८ ॥

शतधावर्तने चैव वाचां सिद्धिः प्रजायते ।
नवरात्रे जिताहारो दृढबुद्धिर्जितेन्द्रियः ॥ १५९ ॥

अम्बिकायतने विद्वान् शुचिष्मान् मूर्तिसन्निधौ ।
एकाकी च दशावर्तं पठन्धीरश्च निर्भयः ॥ १६० ॥

साक्षात्त्वगवती तस्मै प्रयच्छेदीप्सितं फलम् ।
सिद्धपीठे गिरौ रम्ये सिद्धक्षेत्रे सुरालये ॥ १६१ ॥

पठनात्साधकस्याशु सिद्धिर्भवति वाञ्छिता ।
दशावर्तं पठेन्नित्यं भूमीशायी नरश्शुचिः ॥ १६२ ॥

स्वप्ने मूर्तिमयां देवीं वरदां सोऽपि पश्यति ।
आवर्तनसहस्रैर्ये जपन्ति पुरुषोत्तमाः ॥ १६३ ॥

ते सिद्धा सिद्धिदा लोके शापानुग्रहणक्षमाः ।
प्रयच्छन्तश्च सर्वस्वं सेवन्ते तान्महीश्वराः ॥ १६४ ॥

भूर्जपत्रेऽष्टगन्धेन लिखित्वा तु शुभे दिने ।
धारयेद्यन्त्रितं शीर्षे पूजयित्वा कुमारिकाम् ॥ १६५ ॥

ब्राह्मणान् वरनारीश्च धूपैः कुसुमचन्दनैः ।
क्षीरखण्डादिभोज्यांश्च भोजयित्वा सुभक्तितः ॥ १६६ ॥

बध्नन्ति ये महारक्षां बालानां च विशेषतः ।
रुद्रं दृष्ट्वा यथा देवं विष्णुं दृष्ट्वा च दानवाः ॥ १६७ ॥

पन्नगा गरुडं दृष्ट्वा सिंहं दृष्ट्वा यथा गजाः ।
मण्डूका भोगिनं दृष्ट्वा मार्जारं मूषिकास्तथा ॥ १६८ ॥

विघ्नभूताः पलायन्ते तस्य वक्त्रविलोकनात् ।
अग्निचोरभयं तस्य कदाचिन्नैव सम्भवेत् ॥ १६९ ॥

पातकान्विविधान्सोऽपि मेरुमन्दरसन्निभान् ।
भस्मितान्कुरुते क्षिप्रं तृणं वह्निहुतं यथा ॥ १७० ॥

नृपाश्च वश्यतां यान्ति नृपपूज्याश्च ते नराः ।
महार्णवे महानद्यां पोतस्थे च न भीः कचित् ॥ १७१ ॥

रणे द्यूते विवादे च विजयं प्राप्नुवन्ति ते ।
सर्वत्र पूजितो लोकैर्बहुमानपुरस्सरैः ॥ १७२ ॥

रतिरागविवृद्धाश्च विह्वलाः कामपीडिताः ।
यौवनाक्रान्तदेहास्तान् श्रयन्ते वामलोचनाः ॥ १७३ ॥

सहस्रं जपते यस्तु खेचरी जायते नरः ।
सहस्रदशकं देवि यः पठेद्भक्तिमान्नरः ॥ १७४ ॥

सा तस्य जगतां धात्री प्रत्यक्षा भवति ध्रुवम् ।
लक्षं पूर्णं यदा देवि स्तोत्रराजं जपेत्सुधीः ॥ १७५ ॥

भवपाशविनिर्मुक्तो मम तुल्यो न संशयः ।
सर्वतीर्थेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम् ॥ १७६ ॥

सर्वधर्मेषु यज्ञेषु सर्वदानेषु यत्फलम् ।
सर्ववेदेषु प्रोक्तेषु यत्फलं परिकीर्तितम् ॥ १७७ ॥

तत्पुण्यं कोटिगुणितं सकृज्जप्त्वा लभेन्नरः ।
देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् ।
स यास्यति न सन्देहस्स्तवराजस्य कीर्तनात् ॥ १७८ ॥

॥ इति रुद्रयामले श्रीअन्नपूर्णासहस्रनामस्तोत्रं सम्पूर्णम् ॥

Also Read 1000 Names of Annapurna Devi:

1000 Names of Sri Annapurna | Sahasranama Stotram in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Annapurna | Sahasranama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top